कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

पातालकाण्डः · सरीसृपाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे शूद्राध्यायः

भूमिकाण्डस्समाप्तः

पातालं बलिसद्माधोभुवनं वडबामुखम् ।रसातलं तलं नागलोको दैत्यक्षयो रमा ॥ १ ॥
4.1.1 · p. 148
अनुष्टुप्
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
4.1.2 · p. 148
अनुष्टुप्
गर्तः पतेरो भूश्वभ्रमवखातोऽवटोऽवधिः ।शेषोऽनन्तो नागराजः सर्पराजस्तु वासुकिः ॥ ३ ॥
4.1.3 · p. 148
अनुष्टुप्
नागा बहुफणाः सर्पास्तेषां भोगवती पुरी ।सर्पो द्विरसनो व्यालो दन्दशूकः सरीसृपः ॥ ४ ॥
4.1.4 · p. 148
अनुष्टुप्
उरगो भुजगो जिह्मो भुजंगोऽहिर्भुजंगमः ।फुल्लरीको लेलिहानः कुण्डल्याशीविषः फणी ॥ ५ ॥
4.1.5 · p. 148
अनुष्टुप्
दीर्घपृष्ठो विषधरः पन्नगो दृक्श्रवा हरिः ।बिलौका गूढपाच्चक्री नाकुसद्मानिलाशनः ॥ ६ ॥
4.1.6 · p. 148
अनुष्टुप्
दुर्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः ।रथांगलांगलच्छत्रस्वस्तिकांकुशलांछनाः ॥ ७ ॥
4.1.7 · p. 148
अनुष्टुप्
फणिनः शीघ्रगतयः सर्पा दर्वीकराभिधाः ।दीर्घा मन्दा मण्डलिनो मण्डलैर्विविधैर्युताः ॥ ८ ॥
4.1.8 · p. 148
अनुष्टुप्
राजिमन्तो राजियुता राजीला राजिलाश्च ते ।वैकरञ्जाः संकरजाः त्रयाणां व्यन्तरास्तथा ॥ ९ ॥
4.1.9 · p. 148
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable); pāda 3, syllable 5 सं (wrong syllable)
षड्विंतिर्मण्डलिनस्तथा दर्वीकराभिधाः ।त्रयोदश च राजीला वैकरंजाभिधास्त्रयः ॥ १० ॥
4.1.10 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निर्विषा द्वादशेत्येवमशीतिः सर्पजातयः ।दर्वीकरा महासर्पः फुल्लः पुष्पाभिकीर्णकः ॥ ११ ॥
4.1.11 · p. 148
अनुष्टुप्
कुंभीनसो लोहिताहिः कृष्णसर्पः कुलस्थकः ।शंखपालो महापद्मः काकोदर इतीदृशाः ॥ १२ ॥
4.1.12 · p. 149
अनुष्टुप्
आशीविषाश्च सर्वेऽथ कृष्णसर्पो वलाहकः ।अथ मण्डलिनस्तंतुर्गोनसो वृद्धगोनसः ॥ १३ ॥
4.1.13 · p. 149
अनुष्टुप्
किंशुकः पीनसः पिंगो देवभिन्न इतीदृशाः ।गोनसस्तु तिलित्सः स्याद्गोनासो घोणसोऽपि च ॥ १४ ॥
4.1.14 · p. 149
अनुष्टुप्
राजिलाः स्युः पुण्डरीकश्चित्रको लोहिताक्षकः ।दिव्येलकः सर्पराजः किकीसाद इतीदृशाः ॥ १५ ॥
4.1.15 · p. 149
अनुष्टुप्
अथ पुष्करसादः स्यात्सर्पराजश्च सर्पभुक् ।वैकरञ्जाः पोटगलस्तथा पुष्पाभिकीर्णकः ॥ १६ ॥
4.1.16 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
दिव्योऽलर्कोऽप्यथो सर्पा निर्विषा दिव्यकालिनी ।पैंगराजोऽप्यजगरः शुकपोत्रो वलाहकः ॥ १७ ॥
4.1.17 · p. 149
अनुष्टुप्
वर्षाभीः शकलज्योतिः कोलकः पादवाहिकः ।पुष्पकोऽहिपताकश्च गन्धाहिक इतीदृशाः ॥ १८ ॥
4.1.18 · p. 149
अनुष्टुप्
अलगर्द्धो जलव्यालो वाहसोऽजगरः शयुः ।मालुधानो मातुलाहिः पुण्डरीकस्तु डुंडुभः ॥ १९ ॥
4.1.19 · p. 149
अनुष्टुप्
राजिलः क्षीरकश्चाथ नानीपातः स्वजः समौ ।अहीरिणिः स्त्री द्विमुखी निर्मुक्तो मुक्तकंचुकः ॥ २० ॥
4.1.20 · p. 149
अनुष्टुप्
सर्पांचरस्तु निर्मोकः कंचुको निल्वयन्यपि ।अहिनिल्वयनी चाथ स्फटा भोगः फणा न षण् ॥ २१ ॥
4.1.21 · p. 149
अनुष्टुप्
गरलं तु विषं क्ष्वेलो गरस्तु कृतकं विषम् ।क्ष्वेलास्तु कालकूटाद्या मूलपुष्पफलात्मकाः ॥ २२ ॥
4.1.22 · p. 149
अनुष्टुप्
कालकूटः कटोऽथ स्याद्गौरार्द्रो ब्रह्मवालुकम् ।ब्रह्मघोषश्च घौषश्च पुंडरीकं तु वालुकम् ॥ २३ ॥
4.1.23 · p. 149
अनुष्टुप्
एवमन्येऽपि काकोलो वत्सनाभो हलाहलः ।सौराष्ट्रिको ब्रह्मपुत्रशौक्लिकेयेन्द्रदारदाः ॥ २४ ॥
4.1.24 · p. 150
अनुष्टुप्
मुस्तः कुष्ठो मेषशृंग इत्याद्याश्चाथ वातिकः ।विषवैद्यो जांगलिको व्यालग्राह्याहितुण्डिकः ॥ २५ ॥
4.1.25 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 जां (wrong syllable)
गोधा निहाका मुसली वृक्षजा सा शयण्डकः ।अथ गौधेरगौधारौ भुजगीगोधयोः सुते ॥ २६ ॥
4.1.26 · p. 150
अनुष्टुप्
गौधेयश्चाथ चिक्रोडस्तालको रोमशीति च ।नकुलः पिंगलोऽथैष कशो रोमशपुच्छकः ॥ २७ ॥
4.1.27 · p. 150
अनुष्टुप्
नकुलस्तु महान् बभ्रुर्धरीको नकुलाकृतिः ।कृकलासः प्रतिरविः शयानः सरटः शयः ॥ २८ ॥
4.1.28 · p. 150
अनुष्टुप्
स कामरूपी बिंबः स्यात् कृकवाकुः सुदुष्प्रभः ।हालाहलस्त्वंजनिका ब्राह्मणी रक्तपुच्छिका ॥ २९ ॥
4.1.29 · p. 150
अनुष्टुप्
सृजया चाथ दैवज्ञा ज्येष्ठा स्याद्गृहगौलिकाटट्टनी मुसली पल्ली माणिक्या गृहगोधिका ॥ ३० ॥
4.1.30 · p. 150
अनुष्टुप्
कुड्यमत्स्या सुरश्वेता कुण्डृणाची सुराजिका ।उन्दुरुर्मूषिकः काण्डमाखुस्तु खनकः क्रमः ॥ ३१ ॥
4.1.31 · p. 150
अनुष्टुप्
चुचुन्दरी तु गन्धाखुर्गिरिका बालमूषिका ।वृश्चिके त्वाल्यलिद्रूणा मलं तत्पुच्छकण्टकः ॥ ३२ ॥
4.1.32 · p. 150
अनुष्टुप्
खर्जूरो वृश्चिका न क्ली शूककीटोऽपि वृश्चिकः ।आढा शतपदी कर्णजलूका ढारिकापि च ॥ ३३ ॥
4.1.33 · p. 150
अनुष्टुप्
मूषिका लूतिका लूता तन्तुवायश्च जालिकः ।ऊर्णनाभस्तन्तुनाभः कृमिर्मर्कटकोऽपि च ॥ ३४ ॥
4.1.34 · p. 150
अनुष्टुप्
ऊर्णावहिश्चोर्णवाहिराशाबन्धोऽस्य जालकम् ।लूतापट्टस्तु तत्कोश उद्दंशो मत्कुणः समौ ॥ ३५ ॥
4.1.35 · p. 150
अनुष्टुप्
घुणः कृमिः काष्ठभवा लूतातः स्यात् पिपीलिका ।ब्राह्मणी स महान् पिंगः कपिशा तु गृहेडिका ॥ ३६ ॥
4.1.36 · p. 151
अनुष्टुप्
उलंकलो महान् कृष्णः सा मर्कोटपिपीलिका ।या कृष्णाल्पाथ सूक्ष्मान्या जातिः कन्यापिपीलिका ॥ ३७ ॥
4.1.37 · p. 151
अनुष्टुप्
वम्रो वम्र्युपदीकोपजिह्विका चोपदेहिका ।तत्प्राया शिथिली पिंगा यूकस्तु शिरसि क्रिमिः ॥ ३८ ॥
4.1.38 · p. 151
अनुष्टुप्
नीलांगा कृमिरन्तर्जः क्षुद्रः कीटो बहिर्भवः ।पुल्लकास्तूभयेऽपि स्युः कीकसाः कृमयोऽणवः ॥ ३९ ॥
4.1.39 · p. 151
अनुष्टुप्
सरीसृपास्तु सर्पाद्या दन्दशूकास्तु दंशकाः ।शलभाद्याः पतंगाः स्युर्यादांसि जलजन्तवः ॥ ४० ॥
4.1.40 · p. 151
अनुष्टुप्
पृथुरोमा झषो मत्स्यो मीनो वैसारिणस्तिमिः ।जलपिप्पिक आत्माशी शकुली स्वकुलक्षयः ॥ ४१ ॥
4.1.41 · p. 151
अनुष्टुप्
स्थिरजिह्वः संघचारी विसारः शंबरोऽण्डजः ।अथो सहस्रदंष्ट्रः स्याद्गलेवालोऽपदालकः ॥ ४२ ॥
4.1.42 · p. 151
अनुष्टुप्
वदालस्त्वहिकश्चित्रः पाठीनो मृदुकण्टकः ।फलकी स्याच्चित्रफली लोहितस्त्वावतारिकः ॥ ४३ ॥
4.1.43 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चि (wrong syllable)
एत्थालः स्याच्चीननको महाशल्कः सितायुधः ।शृंगी तु सर्पशफरी प्रोष्ठी तु शफरी न षण् ॥ ४४ ॥
4.1.44 · p. 151
अनुष्टुप्
नलमीनश्चिलिचिमो गण्डकाः शकुलार्भकाः ।क्षुद्राण्डो मत्स्यसंघातः पोताधानं नपुंसकम् ॥ ४५ ॥
4.1.45 · p. 151
अनुष्टुप्
उद्दण्डपालनदलद्रेकराजीवकोत्पलाः ।कुलीरः कर्कटः पृष्ठचक्षुः पार्श्वोदरप्रियः ॥ ४६ ॥
4.1.46 · p. 151
अनुष्टुप्
बिल्वकोऽण्डप्रहरणः षोडशांघ्रिर्द्विधागतिः ।भेके शालुः प्लवव्यंगशालूराण्डुककेण्डुकाः ॥ ४७ ॥
4.1.47 · p. 151
अनुष्टुप्
मण्डूकश्चैष गृहजो म्लानः कोणेपिशाचकः ।पीतेऽस्मिन्कूलमण्डूको वारिपिण्डोऽश्ममध्यजः ॥ ४८ ॥
4.1.48 · p. 152
अनुष्टुप्
कृष्णास्या कृतभीः श्वेता कोटिका तद्विपर्यये ।चित्रे चित्राणुकः कूपे भवः कूपेपिशाचकः ॥ ४९ ॥
4.1.49 · p. 152
अनुष्टुप्
कूर्मः कच्छप ओहारः पंचगूढश्चतुर्गतिः ।गुहाशयः स्तूपपृष्ठः कश्यपो जीवथो भृथः ॥ ५० ॥
4.1.50 · p. 152
अनुष्टुप्
दुली द्रुणी च तत्कान्ता मकरो मत्स्यराड्झषः ।खड्गनामा खड्गपुच्छस्तिमिशत्रुस्तिमिंगिलः ॥ ५१ ॥
4.1.51 · p. 152
अनुष्टुप्
तद्भेदो हस्तिमकरोऽथ स्याद्वारुणपाशकः ।ग्राहस्तन्त्रस्तन्तुनागस्तन्द्रश्चामोघतन्तुकौ ॥ ५२ ॥
4.1.52 · p. 152
अनुष्टुप्
नक्रे तु कुंभी कुंभीरो गोमुखश्च महामुखः ।तालुजिह्मः शंखमुख आलास्यस्त्वंबुसूकरः ॥ ५३ ॥
4.1.53 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शं (wrong syllable)
उद्रस्तु जलमार्जारः पारी परकुलो वशी ।शिंशुमारस्त्वंबुकपिरुष्णवीर्यो महावसः ॥ ५४ ॥
4.1.54 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वं (wrong syllable)
असिप्लवोऽम्बुलूकी स्त्री वीरलस्तु महाझषः ।त्रयी तु कंबुः शंखोऽस्त्री सुग्रीवो मधुरस्वनः ॥ ५५ ॥
4.1.55 · p. 152
अनुष्टुप्
त्रिरेखः षोडशावर्तस्स तु शंखनखोऽल्पकः ।मुक्तास्फोटोऽब्धिमंडूकी शुक्तिर्मुक्ता तु मौक्तिकम् ॥ ५६ ॥
4.1.56 · p. 152
अनुष्टुप्
मुक्ताफलं शौक्तिकेयं गंगेष्टिः कटशर्करा ।शंबूकः क्षुल्लकः शंखः कपर्दस्तु वराटकः ॥ ५७ ॥
4.1.57 · p. 152
अनुष्टुप्
स्त्री चूर्णिरथशुक्तिः स्याद्दुर्नामा दीर्घकोशिका ।जलूका तु जलालोका सृक्था भूम्नि जलौकसः ॥ ५८ ॥
4.1.58 · p. 152
अनुष्टुप्
या जलौका तृणचरी सा स्यात्तृणजलायुका ।गण्डूपदः किञ्चुलुको भूलता तत्प्रिया शिली ॥ ५९ ॥
4.1.59 · p. 152
अनुष्टुप्
स्थले करिनराश्वाद्या यावन्तः सन्ति जन्तवः ।ते जलेऽपि तदाख्याः स्युर्जलपर्यायपूर्वकाः ॥ ६० ॥
4.1.60 · p. 153
अनुष्टुप्