शूरण
śūraṇaपुं · masc.In 6 kośas: 3 synonym verses, 8 as a meaning of another word.
अर्शोघ्नः शूरणः कन्दः सूरणश्चित्रदण्डकः ।कण्डूलोऽप्यथ वन्योऽसावुन्नु ओन्नोऽपि कीर्तितः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
लिम्पाको नलदम्पुः स्याद् विशाला त्विन्द्रवारुणी ।अर्शोघ्नस्तुलकन्दश्च शूरणः सूरणोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शूरणो दन्त्यतालव्यादिमः, बालतृणे पुनः ।शस्यं स्याद्दन्तमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
शूरण as a meaning in nānārtha verses
- धरणिकोश अर्शोघ्नशतघ्नी शस्त्रभेदे च शतघ्नी वृश्चिकाल्यपि । अर्शोघ्नी तालमूली स्यादर्शोघ्नश्चापि शूरणः ॥ Dharaṇikośa 19.2.22
- शिवकोष कन्दकन्दो ना मुस्तके न स्त्री शूरणासस्यमूलयोः । कुन्दं माघ्येऽस्त्रियां कुन्दः कुन्दरौ ना छदः पुमान् ॥ २२० ॥ Śivakoṣa 14.1.220
- शिवकोष अर्शोघ्नअर्शोघ्नः शूरणे स्त्री तु तालपर्ण्यामथार्जुनः ॥ २४६ ॥ Śivakoṣa 16.1.246
- शब्दरत्नावली कन्दअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
- शब्दरत्नावली अर्शोघ्नअम्लानो वृक्षभेदे स्याद्वाच्चलिङ्गन्तनिर्मले । अर्शोघ्नी तालमूल्यान्तु शूरणे तु पुमानयम् ॥ Śabdaratnāvalī 7.20.31
- शब्दरत्नावली ओलइला स्याद्बुधनार्याञ्च भूमिवाण्योरपि स्त्रियाम् । ओलः स्याच्छूरणेऽप्यार्द्रे ओलमप्यत्र न द्वयोः ॥ Śabdaratnāvalī 7.28.3
- त्रिकाण्डशेष कन्दकन्दोऽस्त्री शूरणे मूले राजलिङ्गविषाणयोः । स्त्री ककुत्कडकन्दस्तु शृङ्गवेररसोनयोः ॥ २०४ ॥ Trikāṇḍaśeṣa 3.3.204
- त्रिकाण्डशेष रोलआर्द्रशूरणयो रोलः कालः स्यान्मृत्युकृष्णयोः । अंशे वृद्धावपि कला कदली ध्वजरम्भयोः ॥ ३८३ ॥ Trikāṇḍaśeṣa 3.3.383