कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

नान्ताः · नत्रिः

अर्शोघ्नः शूरणे स्त्री तु तालपर्ण्यामथार्जुनः ॥ २४६ ॥
16.1.246 · p. 23
फल्गुने च तृणे क्लीबमञ्जनं तु रसाञ्जने ।सौवीरेऽप्योदनो न स्त्री भक्ते वाट्यालके स्त्रियाम् ॥ २४७ ॥
16.1.247 · p. 23
अनुष्टुप्
कठिनी खट्यां दारुणि कठिना गुडशर्करायां च ।काञ्चनः काञ्चनारे स्याच्चम्पके नागकेसरे ॥ २४८ ॥
16.1.248 · p. 23
अनुष्टुप्metre not read in every line
उदुम्बरे च धत्तूरे हरिद्रायां तु काञ्चनी ।क्लीबेऽब्जकेसरे हेम्नि क्लीतनं क्षौद्रसाह्वये ॥ २४९ ॥
16.1.249 · p. 23
अनुष्टुप्
क्लीतना सिंहपुच्छ्यां च नीलिकायां च गृञ्जनः ।पलाण्डुभेदे लसुने मधुशिग्रौ च पीनसि ॥ २५० ॥
16.1.250 · p. 23
अनुष्टुप्
चन्दनोऽस्त्री मलयजे सारिवायां तु चन्दना ।छर्दनो मदनो निम्बे बिम्बालम्बुषयोरपि ॥ २५१ ॥
16.1.251 · p. 23
अनुष्टुप्
जननी जतुकृष्णायां पिशाचीमत्स्यपित्तयोः ।जन्तुघ्नं हिङ्गुचौहारविडङ्गे ना शुकप्रिये ॥ २५२ ॥
16.1.252 · p. 23
अनुष्टुप्
जीवनं प्रस्रवे नीरे जीवनश्चिरजीविनि ।मेदायां जीवनी सिद्धिवीराजीवासु जीविनी ॥ २५३ ॥
16.1.253 · p. 23
अनुष्टुप्
तेजनो ना शरे वेणौ तेजोह्वामूर्वयोः स्त्रियाम् ।दहनोऽरुष्करे चित्रे धमनो नडनिम्बयोः ॥ २५४ ॥
16.1.254 · p. 23
अनुष्टुप्
धमनी निशि नट्यां च धाविनीति कुलीनिशोः ।पृष्टिपर्ण्यां च नलिनं नडे नाड्यां सरोरुहे ॥ २५५ ॥
16.1.255 · p. 23
अनुष्टुप्
न ना स्त्रियां तु पद्मिन्यां नन्दीप्लक्षे वटे पुमान् ।पाचनं दशमूल्यादौ हरीतक्यां तु पाचनी ॥ २५६ ॥
16.1.256 · p. 24
अनुष्टुप्
प्राचीना घनकट्व्योर्वसन्तदूत्यां च पाठिनः ।चित्रे पुरे च पिशुनं धीरे पिशुना तु पृक्कायाम् ॥ २५७ ॥
16.1.257 · p. 24
अनुष्टुप्metre not read in every line
पीतनी रङ्गमालायां पीतनं पीतदारुणि ।कुङ्कुमे हरिताले च पीतनस्तु कपीतने ॥ २५८ ॥
16.1.258 · p. 24
अनुष्टुप्
पूतना तु शिवामांस्योः फलिनी हलिनी स्त्रियोः ।वाणिनी रजनीदार्वीमञ्जिष्टानीलिकासु च ॥ २५९ ॥
16.1.259 · p. 24
अनुष्टुप्
भावनं मन्थके भव्ये भूतघ्नं चित्रतन्दुले ।सूपधूपनके चाथ भूतघ्नी देवदुन्दुभौ ॥ २६० ॥
16.1.260 · p. 24
अनुष्टुप्
वचायां सर्षपे पुंसि मदनो राठधूर्तयोः ।सिक्थके मदनी मार्गे रजनी नीलिनीनिशोः ॥ २६१ ॥
16.1.261 · p. 24
अनुष्टुप्
जन्यां च रञ्जनं रक्ते रञ्जनो रक्तचूर्णके ।स्त्रुक्निशारोचनानीलिजनीरक्तासु रञ्जनी ॥ २६२ ॥
16.1.262 · p. 24
अनुष्टुप्
रसोना विजयायां च रसोनं तु महौषधे ।रक्षोघ्नी जटिलाचोरपुष्प्योः पुंसि तु सर्षपे ॥ २६३ ॥
16.1.263 · p. 24
अनुष्टुप्
सूपधूपनके क्लीबं रेचनो रक्तचूर्णके ।रेचनी स्त्रुक्त्रिवृद्दोलाभयाह्रासमुकूलके ॥ २६४ ॥
16.1.264 · p. 24
अनुष्टुप्
रोचना रोचनश्चापि रक्तकल्हाररोहिणोः ।जम्भे च शाल्मलौ पुंसि गोः पित्ते रोचनी स्त्रियाम् ॥ २६५ ॥
16.1.265 · p. 24
अनुष्टुप्
रोचना चाथ कम्पिल्ले मङ्गल्ये चापि रोचनी ।रोही रक्ते वटेऽश्वत्थे स्त्री तु कठ्यां च कट्फले ॥ २६६ ॥
16.1.266 · p. 24
अनुष्टुप्
अथ रोदनी त्रिदण्डीगुञ्जानन्तानिकुम्भासु ।ललना लतात्मगुप्तासर्जे योषित् पियाले ना ॥ २६७ ॥
16.1.267 · p. 25
metre not recognised
वितुन्नं वन्यभूधात्रीधानास्वस्तिकशीबले ।विषघ्नी नाकुलीश्वेतागुडूचीत्रिवृतास्वथ ॥ २६८ ॥
16.1.268 · p. 25
अनुष्टुप्
पुंसि मोक्षे शिरीषे च शतघ्नी तु करञ्जके ।वृश्चिकायां शङ्खिनी तु श्वेतपुन्नागमेध्ययोः ॥ २६९ ॥
16.1.269 · p. 25
अनुष्टुप्
श्लेश्मघ्नी मल्लिकाभेदकम्पिल्लकफणिज्जके ।स्यन्दनं के पुमान्नेमौ सन्तानः कल्पपादपे ॥ २७० ॥
16.1.270 · p. 25
अनुष्टुप्
शृतक्षीरोपरिस्त्यानरूपायामपि योषिति ।सुमनः पुंसि गोधूमे मालत्यां सुमना स्त्रियाम् ॥ २७१ ॥
16.1.271 · p. 25
अनुष्टुप्