कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समपाद

samapādaक्ली · neut.

In 5 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.777 · p. 32
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 264
गोधा तु तलमन्त्ये स्याच्छिञ्जिन्याघातवारणा ।वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.360 · p. 71
प्रत्यालीढं मण्डलं चाप्यालीढं शाखमित्यपि ।समपादं चेति पञ्च स्थानभेदा इतीरिताः ॥ ३६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1270 · p. 199
स्थानान्यालीढवैशाखे प्रत्यालीढं च मण्डलम् ।समपादञ्च विज्ञेया धनुःक्षेपणसंस्थितिः ॥ १२७० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.330 · p. 132
तृत् प्रत्यालीढमालीढं समपादं तथा पवम् ।वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.332 · p. 133
तुल्यं पादयुगं यत्र समपादमुदाहृतम् ।वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते ॥
अनुष्टुप्
genderक्लीneut.