कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लक्ष

lakṣaक्ली · neut.

In 15 kośas: 34 synonym verses, 11 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.379 · p. 19
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.777 · p. 32
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.874 · p. 35
यथोत्तरं दशगुणं भवेदेको दशामुतः ।शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥ ८७३ ॥अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् ।शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्बु (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.145
लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.265 · p. 118
क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् ।शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥ २६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.497 · p. 187
यथोत्तरं दशगुणमेकं दशशतं पुनः ।सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥ ४९७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.500 · p. 188
सहस्रमयुतं लक्षा स्त्रियां क्लीबे क्वचिन्मतम् ।स्त्रियां क्लीबे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥ ५०० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.596 · p. 198
शौक्तिकेयं शीतलं स्यादम्भः सारं च नीरजम् ।अपि स्याच्चन्द्ररत्नं च लक्षहैमवतं शुभम् ॥ ५९६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.125 · p. 431
व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका ।पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.81 · p. 470
खलं भुवि तथा लक्षं वेध्येऽहःसुदिनैकतः ।भूमौ संख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.127 · p. 475
शुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि ।षष्ठेऽङ्कस्थानके कल्पं क्रोडोऽङ्के तिन्दुकं फले ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 265
उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् ।लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 292
एकं दश त्वलिङ्गं स्याच्छतं त्वस्त्री सहस्रकम् ।अस्त्री स्यादयुतं लक्षं न ना प्रयुतमस्त्रियाम् ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.75 · p. 116
तनूरुहश्च पुण्या[234b]हो लक्षं तु व्याजवाचकम् ।उकारान्तेषु तितउ एक एव तथाविधः ॥ ७५ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.10 · p. 117
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वतस्त्रिलिङ्गाधिकारः Koṣakalpataru 4.7.7 · p. 118
लक्षो नक्षत्रतगरपुराभरणनाम च ।
genderपुंस्त्रीक्लीm. f. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.43 · p. 106
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.164 · p. 231
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.6.168 · p. 231
लक्षं माने मधौ कल्पं [11] चये तु पटलं तथा ।वसन्ततिलकं काव्ये तिन्दुकं फलवाचकम् ॥ १६८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.118 · p. 16
तल्लाञ्छने तु लक्षं च लक्षणं लक्ष्यमेव च ।संजीवं साकरं मोद्यं सच्छन्नमपि विद्यते ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.226 · p. 16
लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः ।करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.560 · p. 72
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1113 · p. 199
लक्षं लक्ष्यं निमित्तञ्च वेध्यं स्याच्च शरव्यकम् ।
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1458 · p. 232
लक्षश्च नियुतञ्च प्रयुतं कोटिरित्यपि ।सर्वं दशगुणं पूर्वात् ज्ञायते गण्यते जनैः ॥ १४५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.491 · p. 34
क्रीडा लीला देवना च केलिर्ना नर्म देवनम् ।तथापदेशो व्याजश्च लक्ष्यं लक्षं निमीलिका ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.333 · p. 133
मण्डलाकारपादाभ्यां मण्डलस्थानमीरितम् ।शरण्यं प्रतिकायः स्याद् वेध्यं लक्ष्यञ्च लक्षवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.166 · p. 148
दशसंख्या हि पंक्तिस्तत् दशबृद्ध्या शतादिकम् ।शतं सहस्रमयुतं लक्षं नियुतमेव च ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.26 · p. 190
मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि ।मायायां शठता-शाठ्ये व्याज्ये लक्ष्यं तु लक्षयुक् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1017 · p. 127
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1332 · p. 162
हस्तावापः शरादानं प्रमाथो लस्तकग्रहः ।लक्ष्यलक्षशरव्याणि निमित्तमथ कर्तरी ॥ १३३२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1333 · p. 162
पुङ्खो लक्षो(क्षा?)ऽतिगो वेगो दीप्तिः शल्यफले समे ।तूणीषुधिर्द्वयोस्तूण उपासङ्गः कलापकः ॥ १३३३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.35 · p. 47
छागे तु करुणो लक्षो मल्लिकाकुसुमप्रियः ।जम्बीरे जम्भको दन्तशठो जम्भीरजम्भलौ ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.194 · p. 120
लक्षं तु लक्षणं लक्ष्यमभिसन्धानमासिकम् ।वेध्यं शरव्यं न नरि श्रमस्थानं खलूरिका ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.32 · p. 188
पद्मं महांबुजं चेति क्रमाल्लक्षगुणोत्तरम् ।सहस्राणां शते लक्षा लक्षं च नियुतं च तत् ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.436
व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास क्षार्धश्लोकः Dharaṇikośa 33.2.1 · p. 232
लक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः ।ऋक्षाणि तारका ऋक्षो भल्लुकाद्रिप्रमेदयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.49 · p. 372
देहाङ्गचुल्लीविलयोः पतत्रेनृपद्विपे मित्रसहाययोश्च ।बलेऽथ केशादिपरः स वृन्देलक्षं शरव्ये षणि(?)कैतवेऽस्त्री ॥ ४९ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.50 · p. 372
न पुंसि संख्याभिदि गर्दभाण्डेप्लक्षो भवेद्द्वीपविशेषके च ।बोधिद्रुमे स्यात्प्रतिहारपार्श्वेज्ञैः पर्कटीनामसु संप्रदिष्टः ॥ ५० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1128 · p. 139
त्रिषु तूग्ररसे रुद्रसम्बन्धिन्यथ लक्षवाक् ।शरव्ये क्ली नृशण्डस्तु व्याजे करुणनाम्नि तु ॥ ११२८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1129 · p. 139
महीरुहप्रभेदे ना दर्शनाङ्कनयोरपि ।अयुते तु दशाभ्यस्ते लक्षं लक्षा च नप्स्त्रियोः ॥ ११२९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.79 · p. 220
इभबिन्दौ पद्ममुक्तं वेध्यार्थे लक्षमेव हि ।पुण्याहं सुदिनाहं च पथः संख्याव्ययोत्तरः ॥ ७९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश षान्ताः Śabdaratnāvalī 7.31.13 · p. 292
रूक्षमप्रेम्णि कठिने रक्षा जतुनि रक्षणे ।लक्षं व्याजे शरव्ये च लक्षसंख्यान्तरेऽपि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1990 · p. 242
लवो लेशे नृपे च्छेदे लङ्का पूर्भेदचिह्नयोः ।लक्षं शरव्ये संख्यायां लघुस्त्रिषु मनोरमे ॥ १९९० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.441 · p. 249
सङ्ख्यायान्तु न ना लक्षा क्लीबं व्याजशरव्ययोः ।हरतार्क्ष्यौ विशालाक्षौ शेषो नानन्तसीरिणोः ॥ ४४१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.69 · p. 235
राष्ट्रोऽस्त्री विषये जन्तौ लोहोऽस्त्री तैजसायसोः ।लक्षं नपुं शरव्ये ना स्त्री व्याजे नियुते न ना ॥ ६९ ॥
अनुष्टुप्

लक्ष as a meaning in nānārtha verses