तल
talaपुं · masc.In 24 kośas: 59 synonym verses, 13 as a nānārtha head word, 4 as a meaning of another word.
प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः ।प्रहस्तस्तालिकस्तालः सिंहतलस्तु तौ युतौ ॥ ५९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
genderक्लीneut.
मौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा ।शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥ ७७६ ॥
अनुष्टुप्
genderक्लीneut.
तृणराजस्तलस्तालो रम्भा मोचा कदल्यपि ॥ ११३६ ॥
अनुष्टुप्
genderपुंmasc.
नारकास्तु नैरयिकाः पाताले तु तलं रसा ॥ १२२ ॥इति पञ्चमकाण्डस्य शिलोच्छोऽयं समर्थितः ।
genderक्लीneut.
genderक्लीneut.
रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः ।कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥
आर्या
genderपुंmasc.
सम्पिण्डिताङ्गुलिर्मुष्टिः प्रसृतिः कुञ्चिताङ्गुलिः ।प्रसारिताङ्गुलिः पाणिः कथ्यते प्रतलस्तलः ॥ ५३७ ॥
अनुष्टुप्
genderपुंmasc.
तृणराजस्तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घोण्टा गवाङ्गः क्रूर आसवः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
अमृणालं मृणालं च शीरषीरे उभे समे ।यवसं जवसं च स्यात् तलस्तालोऽपि कथ्यते ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
तृणराजस्तलस्तालस्तद्भेदे तु वराङ्गना ।खर्जूरस्तु महासारः खर्जूः स्यादल्पवृक्षके ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
तृणराजस्तलस्तालः पत्रताली वराङ्गना ।महारसः स्यात्खर्जूरस्तस्मिन् खर्जूरकोऽल्पके ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
तले धनादिसूचिन्यो रेखाः पर्यायगोचराः ।करस्याधः प्रपाणिर्ना तस्याधस्तु तलं च षण् ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
तलं तु तलहृदयं मध्यं पादतलस्य यत् ।पादन्यासः पदं क्लीबे क्रमः क्रमणमित्यपि ॥ २२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderक्लीneut.
पतञ्जिका गुणा सिञ्जा क्लीबे वाणासनं गुणः ।गोधा स्त्रियां तलं क्लीबे सैव स्याद्बाहुपट्टिका ॥ २६४ ॥
अनुष्टुप्
genderक्लीneut.
अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् ।क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
वितानको मोहकरस्तलोऽपि च मदोत्तरः ।तापिच्छस्तु तमालः स्यात्कालस्कन्धो महाबलः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् ।पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥ १३५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नीलो मणौ रवौ मित्रस्तलस्तालचपेटयोः ।कोणेऽश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
इति पुंसः प्रकृतयः स्युरेतेऽथ नपुंसकम् ।तलस्तु तालसंयुक्तो रुजुपान्तं ततः पुनः ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियां पुष्करिणी तल्लो बिल्लं खातं तलोऽस्त्रियाम् ।कुण्डं देवजलाधारे न स्त्री स्याद्देवखातकः ॥ ४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कठोरमल्लिका चाथ पिस्तं स्याच्च मकूलकम् ।कदली कन्दली काली रसा हस्तिबुसा तथा ॥चर्मण्वती भानुफला रम्भा मोचा च कृष्णला ।वृन्तपुष्पा च निःसारा तृणसारा महाच्छदा ॥काष्टाला वारणबि[28a]सा ग्रन्थिनी गजदन्तिका ।सुकुमारा मृत्युफला कथिता दत्तविग्रहा ॥मोचं फलेऽस्याः पुष्पं तु शिलीध्रं कन्दलं त्रिषु ।तालस्तलो ना श्रीबीजो ध्वजद्रुः स महाफलः ॥ २९ ॥
metre not recognised
कठोरमल्लिकास्त्रीपिस्तक्लीमकूलकक्लीकदलीस्त्रीकन्दलीस्त्रीकालीस्त्रीरसास्त्रीहस्तिबुसास्त्रीचर्मण्वतीस्त्रीभानुफलास्त्रीरम्भास्त्रीमोचास्त्रीकृष्णलास्त्रीवृन्तपुष्पास्त्रीनिःसारास्त्रीतृणसारास्त्रीमहाच्छदास्त्रीकाष्टालास्त्रीवारणबिसास्त्रीग्रन्थिनीस्त्रीगजदन्तिकास्त्रीसुकुमारास्त्रीमृत्युफलास्त्रीदत्तविग्रहास्त्रीमोचक्लीशिलीध्रक्लीकन्दलवितालपुंतलपुंश्रीबीजपुंध्वजद्रुपुंमहाफलपुं
genderपुंmasc.
अङ्गुष्ठे तालशो कर्णो मध्य[86a]मानामिकायुते ।सकनिष्ठे द्वयोः किष्कुवितस्तिदीष्टिररिफर्फटी । (corrupt)* * * * * * * * * * * * कोपित्यपि । (corrupt)प्रसारिताङ्गुलौ पाणौ प्रतलः स्यात्तलः पुमान् ।तालः प्रहस्तश्चपटश्चपेटायुजि तालिका ॥ ८८ ॥
अनुष्टुप्metre not read in every lineLatin letters: corruptLatin letters: corrupt
genderपुंmasc.
निघृष्वो वर्तकस्त्वश्वशफश्च चटकोऽपि च ।खुरप्रान्ते[116b] नखशिखा खुराधस्तलमस्त्रियाम् ॥ ५२ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
गोधा तु तलमन्त्ये स्याच्छिञ्जिन्याघातवारणा ।वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
खलं पलं पुलं हलं तलं बलाञ्चले मलम् ।पलालमिन्द्रनीलवद्धलाहलं कमण्डलुः ॥ ६६ ॥
पञ्चचामरम्
genderपुंक्लीm. n.
त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः ।विंशतिरानवतेः स्त्री नपुंसके तालुहृदयकुड्यानि ।पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥
metre not recognised
genderक्लीneut.
विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः ।एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् ।क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि ।शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥
metre not recognised
विंशतिस्त्रीत्रिंशत्स्त्रीचत्वारिंशत्स्त्रीपञ्चाशत्स्त्रीषष्टिस्त्रीसप्ततिस्त्रीअशीतिस्त्रीनवतिस्त्रीतालुक्लीहृदयक्लीकुड्यक्लीपार्श्वक्लीकुकुन्दरक्लीविण्यक्लीतलक्लीधनक्लीलवणक्लीराष्ट्रक्लीक्रोडास्त्रीघाटास्त्रीजिह्वास्त्रीशिरोधरास्त्रीशष्कुलीस्त्रीस्पृहास्त्रीमायास्त्रीशाखास्त्रीशिखास्त्रीकलास्त्रीमेखलास्त्रीरेखास्त्रीराजिस्त्रीपङ्क्तिस्त्री
genderक्लीneut.
तले तलो लेख्यपत्रस्तृणराजो ध्वजद्रुमः ।नालिकेरे रसफलो लाङ्गली कूर्चकेसरः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
तृणराजे तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घण्टो गुवाङ्गुः क्रूर आसवः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
तालस्तलः प्रहस्तोऽपि तालिका च तथा स्मृता ।संयुतौ तु करौ सिंहतलः स्याद्गीतमेलकः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
गोहिरं पादमूले च घुण्टाधः पार्ष्णिरुच्यते ।प्रपदं क्षिप्रमंह्र्यग्रे [74] तलं पादतले स्मृतम् ॥ २७४ ॥
अनुष्टुप्
genderक्लीneut.
दारासुबल्वजा भूम्नि तलस्तालचपेटयोः ।सूर्यचन्द्रायसामग्रे कान्तशब्दः पुमान् स्मृतः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
निगलनीलनलाः कमलं हलंमुशलसालतमालहलाहलम् ।गरलधूमलखण्डलवल्कलंफलतले मुकुलः शकलः खलः ॥ १५९ ॥
द्रुतविलम्बितम्
genderपुंक्लीm. n.
अटनिश्चाटनी चापि मौर्वीबन्धस्थले स्मृताः ।गोधा तलं च ज्याघातवारणे त्वग्विशेषके ॥ ३५८ ॥
अनुष्टुप्
genderक्लीneut.
प्रसारिताङ्गुलौ पाणौ प्रहस्तः प्रतलस्तलः ।चपेटस्तालिका तालश्चेति हस्तस्य पञ्जकः ॥ ९५९ ॥
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
ज्याघातवारणं चैव गोधा तलं तथा तला ।एतस्य कथ्यते लोके चर्मणो बाहुबन्धनं ॥ १२६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderक्लीneut.
genderपुंmasc.
अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।तलं सुतलपाताले पातालानि तु सप्त वै ॥
अनुष्टुप्
genderक्लीneut.
तर्जन्यङ्गुष्टविस्तारात् प्रादेशश्च प्रदेशकम् ।अङ्गुष्टमध्याविस्तारात् तलस्ताल इति द्वयम् ॥
अनुष्टुप्
genderपुंmasc.
चपेटः प्रतलस्तालश्चपेटी तालिका तलः ।प्रहस्तश्चपटो हस्ते समस्ताङ्गुलिविस्तृते ॥
अनुष्टुप्
genderपुंmasc.
अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि ।ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥
अनुष्टुप्
genderक्लीneut.
प्रादेशोऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः ।तालिका-तालौ चपेटश्चर्पटश्चपटोऽपि च ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्गु (wrong syllable)
genderपुंmasc.
तद्द्वये योजिते सिंहतलः संहतलस्तथा ।तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अटन्यटनिरर्त्यार्त्नी पीडायामपि स्यात्तलम् ।तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable); pāda 3, syllable 5 गो (wrong syllable)
genderक्लीneut.
किङ्किराटः, पलाशे तु दन्त्य-तालव्यमध्यगः ।किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
प्रदेशाः स्युः कलाभागः क्रमाज्जघनपिण्डिका ।मण्डूका शकुटा पार्ष्णिस्तलः प्रोहश्च कूर्मकः ॥ ७०६ ॥
अनुष्टुप्
genderपुंmasc.
तलं प्रतलपाताले विरोकं श्वभ्रमस्त्रियाम् ।तमसं तु निशाचर्म नीलपंकं रजोवलम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
पल्वलं दीर्घिका वापी यष्टिका मीनगाधिका ।अवघट्टावैटौ तुल्यौ तल्लं विल्लं तलं च तत् ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
genderक्लीneut.
वार्क्षं वनं तलं तल्कं गुहिलं समजं त्रसम् ।लीलोद्यानं देवनं स्याद्वीथ्याली पङ्क्तिरावली ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
निस्सुषौ विषमो वेणौ क्षुद्रे लगुडवंशिका ।तृणराजे तलस्तालो महापत्रः फलेरुहः ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
निष्कोटितोऽस्त्री सव्येन तलस्त्वन्येन पाणिना ।लयस्तु साम्यं दशभिश्छन्दोऽक्षरपदैः सह ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
पातालं बलिसद्माधोभुवनं वडबामुखम् ।रसातलं तलं नागलोको दैत्यक्षयो रमा ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
चपेटश्चर्पटस्तालः प्रहस्तः प्रतलस्तलः ।षट् ते ततांगुले हस्ते न्युब्जेऽस्मिन् प्रसृतः करे ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
बिडालपादकं हंसपदं ग्रासग्रहं तलम् ।शतमानं तु कर्षे द्वे शुक्तिरष्टमिका न ना ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
शीतले शीकरः शीतः सुषिकः सुषिमो जडः ।समीकः सोलिकः सोलः स्कन्दोलो मेकलस्तलः ॥ ६ ॥
अनुष्टुप्
genderविadj.
तलश्चपेटस्ताल[94]श्च स्वरूपानूर्ध्वयोस्तलम् ।ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं स्मृतम् ॥
अनुष्टुप्
तलः पुमांस्तालतरौ चपेटेखड्गस्य मुष्टौ चरमे तु पृष्ठे ।ज्याघातसंवारणगो द्वयोस्तुशीलाधरार्थो मलमस्त्रियां च ॥ ५२ ॥
उपजातिः
महीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् ।तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ॥
अनुष्टुप्
त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले ।पाताले समदेशे च चतुर्भागे पलस्य च ॥ ५०१ ॥
अनुष्टुप्
doubtful
पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने ।अजयस्तु पठत्येनत् कार्यबीजे धनेऽपि च ॥ ५०२ ॥
अनुष्टुप्
doubtful
ज्याघातवारणे क्लीबं कार्यबीजे च कानने ।तालं करतलास्फालमध्यमाङ्गुष्ठसस्मिते ॥
अनुष्टुप्
क्ली तुल्यदेशे तारस्तु मुक्ताशुद्धौ सुमौक्तिके ।उडुदृङ्मध्ययोरक्ली तुच्छं त्वसुखशून्ययोः ॥ ३६ ॥
अनुष्टुप्
meaningsतुल्यदेश
doubtful
तल as a meaning in nānārtha verses
- धरणिकोश गोधाश्रद्धा संप्रत्ययः काङ्क्षा बाधा दुःखनिषेधयोः । गोधा तले निहाकायां बोधी समाधिपिप्पलौ ॥ Dharaṇikośa 18.1.1
- शिवकोष तालजाली तु घोषके जालो नीपे तालस्तले द्वयोः । तामलक्यां तु ताली स्यात्तालं तु नटमण्डने ॥ ४४१ ॥ Śivakoṣa 23.1.441
- शब्दरत्नावली गोधागन्ध आमोदे सम्बन्धे प्रतिवेशिनि गन्धके । गोधा तले निहाकायां गाधः स्यात्स्थानलिप्सयोः ॥ Śabdaratnāvalī 7.19.5
- त्रिकाण्डशेष गोधाराहौ शिरःशून्यकाये कबन्धः क्लीबमम्बुनि । गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च ॥ २१७ ॥ Trikāṇḍaśeṣa 3.3.217