कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लक्ष्य

lakṣyaक्ली · neut.

In 17 kośas: 20 synonym verses, 5 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.777 · p. 32
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.47
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.145
लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.468 · p. 54
पत्त्रपाली भवेद्वाजः कर्तरी पुङ्ख उच्यते ।वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः ॥ ४६८ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.108 · p. 75
लबाडच्छद्मना छद्म दम्भो डम्भं च लक्ष्यवत् ।प्रमीला तामसी तन्द्रा स्वापस्वप्नमनोलयाः ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.265 · p. 118
क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् ।शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥ २६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.125 · p. 431
व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका ।पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.60 · p. 60
लक्ष्यो लक्षणया गम्यो व्यङ्ग्यो व्यञ्जनया स्फुटः ॥ ६० ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 265
उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् ।लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.383 · p. 149
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.118 · p. 16
तल्लाञ्छने तु लक्षं च लक्षणं लक्ष्यमेव च ।संजीवं साकरं मोद्यं सच्छन्नमपि विद्यते ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.282 · p. 60
तद्रक्षणार्थं परितः कृते सज्जनमिष्यते ।किञ्चोपलक्षणं लक्ष्यं लक्षणं रमणं तथा ॥ २८२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.89 · p. 28
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1113 · p. 199
लक्षं लक्ष्यं निमित्तञ्च वेध्यं स्याच्च शरव्यकम् ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.491 · p. 34
क्रीडा लीला देवना च केलिर्ना नर्म देवनम् ।तथापदेशो व्याजश्च लक्ष्यं लक्षं निमीलिका ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.333 · p. 133
मण्डलाकारपादाभ्यां मण्डलस्थानमीरितम् ।शरण्यं प्रतिकायः स्याद् वेध्यं लक्ष्यञ्च लक्षवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.26 · p. 190
मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि ।मायायां शठता-शाठ्ये व्याज्ये लक्ष्यं तु लक्षयुक् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.273 · p. 211
अटन्यटनिरर्त्यार्त्नी पीडायामपि स्यात्तलम् ।तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable); pāda 3, syllable 5 गो (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1332 · p. 162
हस्तावापः शरादानं प्रमाथो लस्तकग्रहः ।लक्ष्यलक्षशरव्याणि निमित्तमथ कर्तरी ॥ १३३२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.194 · p. 120
लक्षं तु लक्षणं लक्ष्यमभिसन्धानमासिकम् ।वेध्यं शरव्यं न नरि श्रमस्थानं खलूरिका ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.4 · p. 151
कक्ष्या प्रकोष्ठे हर्म्यामदेः काञ्च्यां मध्येभबन्धने ।लक्ष्यं छद्मनि विख्यातं लक्ष्यं संख्याविशेषके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.48 · p. 293
स्यादश्वकर्माख्यतरौ तुरङ्गेरसाञ्जने तु प्रथितो द्वयोनः ।लक्ष्यं शरव्ये कपटे तु न स्त्रीसंख्यासु नाट्ये भरणीषु याम्या ॥ ४८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1130 · p. 139
लक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा ।द्रष्टव्ये त्वङ्कनीये च त्रिषु लग्नस्तु न स्त्रियाम् ॥ ११३० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास लकारादयः Paramānandīyanāmamālā 5.23.347 · p. 205
लेखोऽमरे लिपौ लक्ष्मीः शोभासंपत्प्रियङ्गुषु ।लक्ष्यं वेध्ये च संख्यायां लिङ्गं रुद्राङ्गचिह्नयोः ॥ ३४७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.30 · p. 259
लयः सङ्गीतसाम्ये स्यात्संश्लेषणविनाशयोः ।लक्ष्यं शरव्ये क्लीबं स्यादपदेशेऽपि कीर्त्यते ॥व्रज्या पर्यटने वर्गे प्रस्थाने संगतेऽपि च ।वाच्यं हीने कुत्सिते स्याद्वचनार्हे तु वाच्यवत् ॥वन्या वनाम्बुसन्दोहे वन्यं बनभवे त्रिषु ।विन्ध्यो व्याधाचलभिदोर्विन्ध्याचलवलीद्रुमे ॥
अनुष्टुप्

लक्ष्य as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् अपदेशपदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ॥ २१६ ॥ Amarakośa 3.3.216
  • कोषकल्पतरु कायधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
  • परमानन्दीयनाममाला अपदेशअपदेशो निमित्ते च दम्मे लक्ष्ये निगद्यते । अवध्वस्तं परित्यक्ते निन्दिते चूर्णितेऽपि च ॥ ४५ ॥ Paramānandīyanāmamālā 5.1.45
  • परमानन्दीयनाममाला कायकारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ Paramānandīyanāmamālā 5.7.105
  • शब्दरत्नावली कायकायो मूर्त्तौ स्वभावे च संघे लक्ष्ये कदैवते ॥ Śabdaratnāvalī 7.26.10
  • शब्दरत्नावली निकायनादेयी भूमिजम्बां स्त्री जरायाम्बुवेतसे । नागरङ्गे जयायाञ्च व्यङ्गुष्ठेऽपि च कुत्रचित् ॥ निकायो निलये लक्ष्ये सधर्मिप्राणिसंहतौ । समुच्चये संहतानां स्यात्पुमान् परमात्मनि ॥ नेपथ्यं रङ्गवाह्ये स्यादलङ्कारेऽपि च द्वयोः । प्रणयः प्रसवे प्रेम्णि मोक्षविश्रम्भयोरपि ॥ प्रत्ययः प्रथिते ज्ञाने स्यादित्यादियनादिषु ॥ Śabdaratnāvalī 7.26.43
  • शब्दरत्नावली अपदेशअपदेशो व्याजलक्ष्यनिमित्तसङ्कटेषु च । अपभ्रंशोऽपशब्दे स्याद्भाषाभेदे च पतने ॥ आश्रयाशः पुमानग्नौ त्रिषु चाश्रयनाशके । उपस्यर्शस्त्वाचमने स्नानस्पर्शनयोरपि ॥ Śabdaratnāvalī 7.30.28
  • शब्दरत्नाकर अपदेशअनुभावोऽपदेशस्तु निमित्ते व्याजलक्षयोः । दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥ २१९५ ॥ Śabdaratnākara 4.1.2195
  • त्रिकाण्डशेष कायउदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे । कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥ Trikāṇḍaśeṣa 3.3.308
  • वैजयन्ती कायकोला चव्येऽस्त्रपिप्पल्योः कोलः खंजे प्लवे किटौ । कायो लक्ष्ये तनौ बृन्दे पुमांस्त्रिषु कदैवते ॥ १७ ॥ Vaijayantī 6.5.17