कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आलीढ

ālīḍhaक्ली · neut.

In 10 kośas: 11 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.777 · p. 32
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.85
स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.276 · p. 119
प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः ।वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥ २७६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.19 · p. 264
प्रत्यालीढं तथालीढमिति षट्स्थानसंग्रहः ।शस्त्राभ्यासस्तु खुरली तद्भूमिस्तु[121a] खरूलिका ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.168 · p. 61
आचष्टे वैजयन्त्यां तु विद्वान् मलयभूधरे ।पालाशे व्रतिनां दण्डेऽप्यथालीढं नपुंसकम् ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.360 · p. 71
प्रत्यालीढं मण्डलं चाप्यालीढं शाखमित्यपि ।समपादं चेति पञ्च स्थानभेदा इतीरिताः ॥ ३६० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1270 · p. 199
स्थानान्यालीढवैशाखे प्रत्यालीढं च मण्डलम् ।समपादञ्च विज्ञेया धनुःक्षेपणसंस्थितिः ॥ १२७० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.330 · p. 132
तृत् प्रत्यालीढमालीढं समपादं तथा पवम् ।वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.331 · p. 133
स्याद्दक्षपादसंकोचात् वामपादप्रसारणात् ।प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्ययात् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1334 · p. 162
सायकाशयतूणीरनिषङ्गा अथ धन्विनाम् ।स्थानमालीढवैशाखप्रत्यालीढादि पञ्चधा ॥ १३३४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.187 · p. 119
त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृती ।अन्वर्थं स्यात्समपदमालीढं तु ततेऽग्रतः ॥ १८७ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.169 · p. 61
धानुष्कस्थितिभेदे स्यात् तस्योक्तं चापि लक्षणम् ।वाममाकुञ्च्य चरणं दक्षिण प्रततेऽग्रतः ॥ १६९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.170 · p. 61
इत्येवमाखादने च त्रिषु त्वास्वादिते भवेत् ।आढकोऽस्त्री चतुष्प्रस्थपरिमाणे स्त्रियां पुनः ॥ १७० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ढान्ताः Śabdaratnāvalī 7.14.6 · p. 207
आलीढः स्यात्पदन्यासभेदे चाप्यक्षिते त्रिषु ।उदूढः स्थूल ऊढे स्यादुपोटो निकटोढयोः ॥
अनुष्टुप्