प्रत्यालीढ
pratyālīḍhaक्ली · neut.In 10 kośas: 10 synonym verses, 1 as a meaning of another word.
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः ।वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥ २७६ ॥
अनुष्टुप्
genderक्लीneut.
प्रत्यालीढं तथालीढमिति षट्स्थानसंग्रहः ।शस्त्राभ्यासस्तु खुरली तद्भूमिस्तु[121a] खरूलिका ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
प्रत्यालीढं मण्डलं चाप्यालीढं शाखमित्यपि ।समपादं चेति पञ्च स्थानभेदा इतीरिताः ॥ ३६० ॥
अनुष्टुप्
genderक्लीneut.
स्थानान्यालीढवैशाखे प्रत्यालीढं च मण्डलम् ।समपादञ्च विज्ञेया धनुःक्षेपणसंस्थितिः ॥ १२७० ॥
अनुष्टुप्
genderक्लीneut.
तृत् प्रत्यालीढमालीढं समपादं तथा पवम् ।वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥
अनुष्टुप्
genderक्लीneut.
स्याद्दक्षपादसंकोचात् वामपादप्रसारणात् ।प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्ययात् ॥
अनुष्टुप्
genderक्लीneut.
सायकाशयतूणीरनिषङ्गा अथ धन्विनाम् ।स्थानमालीढवैशाखप्रत्यालीढादि पञ्चधा ॥ १३३४ ॥
अनुष्टुप्
genderक्लीneut.
दक्षिणे वाममाकुंच्य प्रत्यालीढं विपर्यये ।वैहायसं च वेधे तु योगावाप उपक्रमः ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
प्रत्यालीढ as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप वैहायसवैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् । प्रत्यालीढाह्वये त्रिस्तु सम्बन्धिनि विहायसः ॥ ५९१ ॥ Nānārthārṇavasaṃkṣepa 6.591