गोधा
godhāस्त्री · fem.In 20 kośas: 31 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
मौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा ।शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥ ७७६ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
genderस्त्रीfem.
गोधा मुशलिका प्रोक्ता गौधेरास्तत्सुता मताः ।सरटः कृकलासः स्यात्प्रतिसूर्यशयानकः ॥ २३४ ॥
अनुष्टुप्
genderस्त्रीfem.
मनुष्या मानवा मर्त्याः पुरुषाः पूरुषा नराः ।प्रातः पञ्चजनो गोधा द्विपादो नहुषो नरः ॥ ३२७ ॥
अनुष्टुप्
genderपुंmasc.
उन्दुरः स्यादुन्दुरुश्च मूषामूषिकमूषिकाः (मूषकाः?) ।तुल्या गोधैव गौधारगौधेयाः परिकीर्तिताः ॥ १५१ ॥
अनुष्टुप्
genderस्त्रीfem.
पतञ्जिका गुणा सिञ्जा क्लीबे वाणासनं गुणः ।गोधा स्त्रियां तलं क्लीबे सैव स्याद्बाहुपट्टिका ॥ २६४ ॥
अनुष्टुप्
genderस्त्रीfem.
इरावती तु खट्वाङ्गा गोधा गोधावतीत्यथ ।श्वेतान्या सा शिलाचक्रा शिलात्वक् सप्तनासिका ॥ ५४६ ॥
अनुष्टुप्
genderस्त्रीfem.
संघातचार्यथ तनुश्चारोः कः स्यात्स्त्रियां पुमान् ।स्वल्पा शशाभा गोधाह्वा मातृकापि पृथूदरा ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
वृक्षोन्दरस्त्रिरेखः स्यान्निहाका तु द्विजिह्विका ।दारुमुख्याह्वया गोधा गोधिकाऽण्डसमुद्भवा ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया ।मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याद्वीतवृन्ततूस्तानां तुत्थवाहित्थयोरपि ।गोधाछोदकुसीदानां कुसिदास्यदयोरपि ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
शललस्तच्छलाकायां शलली शललं शलम् ।बिलेशया पञ्चनखी गोधा घोरप्रदा च सा ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
गोधा तु तलमन्त्ये स्याच्छिञ्जिन्याघातवारणा ।वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवटु-तिथि-शिलानामुष्णिकाहिङ्गुपत्री-शिमिपृथुकटभीनामङ्गुलीनाकुलीनाम् ।स्फिगतसिजटिलालू-ग्ना-हरिद्राबलाका-मुखजलहरिताली-कङ्गु-गोधा-विधाना[223b]म् ॥ २९ ॥
मालिनी
genderस्त्रीfem.
शरद्दृषद्दरत्प्रोक्ता मदिः कृषिकवस्तुनि ।गदा-वितर्द्येकपद्यो गन्धा गोधा प्रधिर्गदिः ।शिरोधिरोषधिर्बाधा विधा संधा स्व[225b]धा सुधा ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोधा धवः स्यात्तत्पतिर्नृपः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
मर्यादा च गदा गोधेक्षुगन्धापि स्वधा सुधा ।सास्नाथ वस्नसा सूना धाना झम्पा शिफा प्रपा ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
उडो(डौ?)गा(गौ?)धेयगोधाशकीटदारुणदन्तकाः ।एदौ तु शललं शल्यं शलः श्वावित्तरक्षकः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
अटनिश्चाटनी चापि मौर्वीबन्धस्थले स्मृताः ।गोधा तलं च ज्याघातवारणे त्वग्विशेषके ॥ ३५८ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रत्यञ्चा सिञ्जिनी मौर्वी ज्या जीवा चापडोरकः ।चापाग्रमटिनी कोटिर्गोधा ज्याघातवारणम् ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्याघातवारणं चैव गोधा तलं तथा तला ।एतस्य कथ्यते लोके चर्मणो बाहुबन्धनं ॥ १२६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
गोधा नाम निहाकाऽपि कथ्यते कोविदैः किल ।गौधारो नाम गौधेरो दुष्टे तन्नन्दने खलु ॥ २३४३ ॥
अनुष्टुप्
genderस्त्रीfem.
अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि ।ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥
अनुष्टुप्
genderस्त्रीfem.
गोधतला च केषाञ्चिन्मतं … ।क्वचिद्गोधास्त्रियामेका ज्याघात वारणे… ॥
metre not recognised
genderस्त्रीfem.
तच्छलाकायां तु शलं शललस्त्रिषु गोधिका ।अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥ ३३२ ॥
metre not recognised
genderस्त्रीfem.
ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः ।जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥
अनुष्टुप्
genderस्त्रीfem.
मनुष्या मानुषा मर्त्या मनुजा मानवा नरः ।द्विपादो नहुषा गोधा व्राताः पञ्चजना नराः ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
बाहुलं बाहुरक्षा च मर्दनी पादरक्षणी ।गोधा तला च न नरौ हस्तघ्नो ज्यानिवारणे ॥ १५५ ॥
अनुष्टुप्
genderस्त्रीfem.
गोधा निहाका मुसली वृक्षजा सा शयण्डकः ।अथ गौधेरगौधारौ भुजगीगोधयोः सुते ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
नैपाल्यां बालरमणकाष्ठेऽप्यथ नपुंसकम् ।काञ्जिके ना तु पिण्डेऽथ गोधा प्राण्यन्तरे स्त्रियाम् ॥ ३७२ ॥
अनुष्टुप्
meaningsप्राण्यन्तर
निहाकासंज्ञकेऽथो नप् स्त्री च हस्तघ्नसंज्ञके ।ज्याघातवारणे गोदः पुनर्गोदातरि त्रिषु ॥ ३७३ ॥
अनुष्टुप्
doubtful
रज्जौ ज्याभीमयोरक्षेऽप्रधानेऽपि निरीक्ष्यते ।वप्रे जीवान्तरे गोधा प्रत्यञ्चाघातवारणे ॥ १५५ ॥
अनुष्टुप्
गोधा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप लक्तिकाकृष्णस्य पत्नीभेदेषु प्रधानेष्वेकयोषिति । लक्तिका गवि गोधायां वाद्यभेदे च कीर्तिता ॥ ७९ ॥ Nānārthārṇavasaṃkṣepa 3.1.79
- नानार्थार्णवसंक्षेप विलेशयाविलेशया तु गोधायां स्त्री स्याद्वृन्दारकः पुनः । द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहच्छदः ॥ ४२८ ॥ Nānārthārṇavasaṃkṣepa 6.428
- शब्दरत्नाकर अण्डजअण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे । अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥ Śabdaratnākara 4.1.2042
- वैजयन्ती बिलेशयानकुले मूषिकेऽहौ ना गोधायां स्त्री बिलेशयः । बृन्दारकः पुमान्देवे श्रेष्ठसुन्दरयोस्त्रिषु ॥ १८ ॥ Vaijayantī 8.5.18