स्यन्द
syandaपुं · masc.In 5 kośas: 4 synonym verses, 3 as a meaning of another word.
चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः ॥ १० ॥जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः ।यक्षराडौषधीगर्भस्तपसः शयतो बुधः ॥ ११ ॥स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तपा ।आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ ॥ १२ ॥परिज्वा युवनो नेमिश्चन्दिरः स्नेहरेकभूः ।
अनुष्टुप्
genderपुंmasc.
कृत्तिकासंभवार्थः स्यात्तापसः शपितोऽपि च ।क्रुष्टो मा विक्लिदः स्यन्दः सिन्धूत्थो बुध एकभूः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
ज्ञः परिज्मैकदेहार्थः स च सूर्यसहाचरः ।स्यन्दः स्वःसिन्धुसिन्धूत्थः क्लेदुः खचमसोऽपि च ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
हृद्यांशुरंशुरब्जारिरमृतांशुः कलानिधिः ।यजन्तस्तपसः क्लेदुः स्यन्दः स्पन्दो यथासुखः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
स्यन्द as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् रीतिप्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः ॥ ६८ ॥ Amarakośa 3.3.68
- शब्दरत्नावली रीतिरीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके । लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥ Śabdaratnāvalī 7.16.47
- शब्दरत्नावली परिस्तुतपरिस्तुता स्याद्वारुण्यां स्त्रियां स्यन्देऽभिधेयवत् । पञ्चगुप्तः कच्छपे स्याच्चार्वाकदर्शने पुमान् ॥ प्रजापतिर्ना भूपाले दक्षादौ च विधातरि । प्रतिपत्तिश्च संप्राप्तौ प्रबोधे गोरवेऽपि च ॥ Śabdaratnāvalī 7.16.168