कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्वेतवाहन

śvetavāhanaपुं · masc.

In 5 kośas: 2 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.6 · p. 1
चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः ॥ १० ॥जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः ।यक्षराडौषधीगर्भस्तपसः शयतो बुधः ॥ ११ ॥स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तपा ।आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ ॥ १२ ॥परिज्वा युवनो नेमिश्चन्दिरः स्नेहरेकभूः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.196 · p. 14
हरिणाङ्कः शशधरो दशाश्वो रोहिणीपतिः ।हरचूडामणिः सिन्धुनन्दनः श्वेतवाहनः ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.95 · p. 125
धूमकेतन इत्येष ग्रहभेदे हुताशने ।श्वेतवाहन इत्येष कथितोऽर्जुनचन्द्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.59 · p. 269
श्वेतवाहनः शशधरे धनंजयेहरिवाहनः [24b] सुरपतौ विवस्वति ।दहने च केतुषु च धूमकेतनःशिवकीर्तनो हरिगणे मुरद्विषि ॥ ५९ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.138 · p. 247
भृङ्गरोट श्रीधरे च शैले च शिवकीर्तनः ।धनञ्जये हिमकरे मकरे श्वेतवाहनः ॥कुञ्जरे धान्यभेदे च स्यात्पुमान् षष्टिहायनः ।कर्पूरफेणचन्द्रेषु श्वेतधामा पुमानयम् ॥कामुके च कलाकेलौ संप्रयोगी निगद्यते ।स्वर्गद्रुमे पुमान्क्लीबं गोशीर्षे कुङ्कुमेऽपि च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.265 · p. 182
क्रमुकश्च सुवेशश्च पार्थेन्द्वोः श्वेतवाहनः ।मयूरे भीष्मशत्रौ च शिखण्ड्यथ विहेठनम् ॥ २६५ ॥
अनुष्टुप्