उपाय
upāyaपुं · masc.In 11 kośas: 6 synonym verses, 5 as a nānārtha head word, 57 as a meaning of another word.
गजजाति-याम-सेनाङ्ग-दण्डहस्ता महाजने वणिजः ।दशरथपुत्रोपाय-ध्यान-कथा-ऽभिनय-रीति-गोचरणाः ॥ १० ॥
गीतिः
genderपुंmasc.
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ।भेदोप[110a]जापौ शास्तिः स्त्री * * * * * * * * ।शास्तिः स्याद्भूपतेर्दण्डयमो दण्डश्च साहसम् ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अन्यत्वं शक्तयस्तिस्रो मन्त्रोत्साहप्रभुत्वजाः ।चत्वारः स्युस्तथोपायाः सामदानादयो यथा ॥ ३५६ ॥
अनुष्टुप्
genderपुंmasc.
उक्ता हि शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ।सामदामभेददण्डा उपायाः शासने स्थिताः ॥ १२०१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
सामदानं दण्डभेदौ स्यादुपाये चतुष्टयम् ।साम सान्त्वं दया दानं दमो दण्डस्तु साहसम् ॥
अनुष्टुप्
genderपुंmasc.
अष्टवर्गोऽथ धर्माद्यैरुपधा स्यात् परीक्षणम् ।अथोपायाः सामदानभेददण्डाश्चतुष्टये ॥ १२७५ ॥
अनुष्टुप्
genderपुंmasc.
अधःस्थितम्य पुष्पादेरूर्ध्वमुच्चिक्यिरे यथा ।उपायः पर्वभेदे स्यात् पूर्वस्मिन् सामपर्वणाम् ॥ ५५ ॥
अनुष्टुप्
meaningsपर्वभेद
निधनात् कर्मणा सिद्धेर्लघुमार्गणसाधने ।राज्ञां च सामदानादौ विशेषाच्चोपसर्पणे ॥ ५६ ॥
अनुष्टुप्
doubtful
अनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु ।अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि ।अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् ।अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥आशयः स्यादभिप्रायाधारयोः पनसेऽपि च ।आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे ।उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥उपायः स्यादुपपन्तौ सामभेदादिके पुमान् ।ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
उपाय as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् योगयोगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ॥ २२ ॥ Amarakośa 3.3.22
- नामलिङ्गानुशासनम् उपक्रमउपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ Amarakośa 3.3.139
- नामलिङ्गानुशासनम् क्रियाआरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५७ ॥ Amarakośa 3.3.157
- धरणिकोश मुखमुखमादावुपाये च वक्त्रं निःसरणं मुखम् । सुखं शर्म सुखं स्वर्गो वरुणस्य पुरी सुखा ॥ Dharaṇikośa 2.2.2
- धरणिकोश अङ्गअङ्गं चात्र उपाये च प्रतीके चाप्रधानके । अङ्गो देशविशेषः स्यादङ्ग संबोधनेऽव्ययम् ॥ Dharaṇikośa 3.3.9
- धरणिकोश गतिपत्तिर्गतौ पदातौ च सैन्यभेदे च कीर्तिता । गतिर्मार्गदशायात्रासूपाये नाडिकाव्रणे ॥ Dharaṇikośa 15.2.11
- धरणिकोश तीर्थतीर्थः स्यादवतारे च पात्रोपाध्यायमन्त्रिषु । स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ Dharaṇikośa 16.3.2
- धरणिकोश साधनसाधनं मृतसंस्कारे सैन्ये मेढ्रे वघे धने । निवृत्ते दापने सिद्धावुपायेऽनुगमे गतौ ॥ Dharaṇikośa 19.3.20
- धरणिकोश क्रियाक्रिया कृत्ये चिकित्सायां चेष्टायां कर्म[75]पूजयोः । उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे ॥ Dharaṇikośa 25.3.1
- धरणिकोश पार्श्वअविर्मेषे गिरौ सूर्ये ऋतुमत्यङ्गनाप्यविः । पार्श्वोऽवयवभेदः स्याच्चक्रोपायसमीपयोः ॥ Dharaṇikośa 28.2.5
- कोषकल्पतरु योगपण्याङ्गनानां रतमूल्यके च योगस्त्वलब्धाप्तिभिषग्जितेषु । उपायसंनाहकसंगमेषु ज्ञाने च युक्तावपि कार्मणे च ॥ ९७ ॥ Koṣakalpataru 6.3.97
- कोषकल्पतरु अङ्गवपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ Koṣakalpataru 6.3.200
- कोषकल्पतरु निस्तरणभेदेऽप्ययोपायविनिर्गमेषु निस्तारके निस्तरणं तथा स्यात् । निदर्शनालोकविचारणेषु निरूपणं ज्ञा विनिरूपयन्ति ॥ ५४ ॥ Koṣakalpataru 6.15.54
- कोषकल्पतरु तीर्थभवेत्कणायां च कुरण्टके च तीर्थं मखोपायवधूरजः सु । क्षेत्रे गुरौ मन्त्रिणि चावतारे मार्गे जले चर्षिगणेन जुष्टे ॥ १०० ॥ Koṣakalpataru 6.18.100
- कोषकल्पतरु संधानसंधानमाहुर्गमने वधे च निवृत्तिनाशे मृतसंस्कृतौ च । सैन्येऽप्युपायेऽपगमे च मेढ्रे संभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥ Koṣakalpataru 6.21.69
- कोषकल्पतरु क्रियाकर्मण्युपाये निकृतौ कृतौ च क्रिया त्रयी तु त्रितये त्रिवेद्याम् । बुद्धौ पुरन्ध्र्यामथ वैद्यमाहुः सर्वज्ञरोगप्रतिकारिणोश्च ॥ ५४ ॥ Koṣakalpataru 6.26.54
- कोषकल्पतरु तन्त्रइतिक्रियायां परिवारशास्त्रे प्रधानसिद्धान्त * भेषजेषु । स्याद्वेदशाखाभिदि तन्तुवाये स्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥ Koṣakalpataru 6.27.37
- नानार्थार्णवसंक्षेप द्वार्त्विड्ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 1.1.54
- नानार्थार्णवसंक्षेप गतिउपाये च दशायां च यिशब्दे सामगीतिगे । गन्तव्ये पुण्यपापाभ्यां प्रस्थाने शरणेऽपि च ॥ ३० ॥ Nānārthārṇavasaṃkṣepa 2.1.30
- नानार्थार्णवसंक्षेप योगकेचित् सन्नहनोपाय इत्येकार्थं प्रचक्षते । अन्ये सन्नहनेऽप्याहुरुपाये चेति केचन ॥ १०१ ॥ Nānārthārṇavasaṃkṣepa 2.2.101
- नानार्थार्णवसंक्षेप अङ्गलिङ्गमाचक्षतेऽस्यान्ये तत्राप्यन्ये नपुंसकम् । अङ्गं शरीरावयवे शरीरोपाययोर्गुणे ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.35
- नानार्थार्णवसंक्षेप क्रियाक्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारम्भपूजासु चेष्टायां सम्प्रधारणे ॥ २०४ ॥ Nānārthārṇavasaṃkṣepa 2.5.204
- नानार्थार्णवसंक्षेप तीर्थशास्त्रे निदाने योग्ये च स्त्रीपुष्पे दर्शनेष्वपि । उपाध्यायेऽप्युपाये च प्राहाचार्यकुलेऽपरः ॥ ५४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.543
- नानार्थार्णवसंक्षेप मुख्यसा तु मुण्डैव भिक्षुक्यां मुण्डने तु नरस्त्रियोः । अजयस्त्वाह मुख्यं स्यात् क्ली वक्रोपाययोरिति ॥ १००४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1004
- नानार्थार्णवसंक्षेप विधानवेदनायामुपाये च प्रकारे वैरकर्मणि । विष्टपं त्वपि देवानां विमाने भुवने तथा ॥ ७४ ॥ Nānārthārṇavasaṃkṣepa 3.3.74
- नानार्थार्णवसंक्षेप साधनसाधनं तु धने शेफे सिद्धावनुगतौ गतौ । मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ॥ १९४३ ॥ Nānārthārṇavasaṃkṣepa 4.1943
- नानार्थार्णवसंक्षेप निःसरणउपाये निर्गमे द्वारे मरणे भयनिर्गतौ । याने पुरगृहादीनां मुखे निस्तरणं पुनः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 6.21
- नानार्थार्णवसंक्षेप निस्तरणउपाये तरणे चाथ स्यान्निर्हरणमित्यदः । निर्हृतौ मुष्टिमान्द्ये च बन्द्धुं निरसनं पुनः ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 6.22
- परमानन्दीयनाममाला क्रियाकोशः पेश्यां वने दिव्ये धनागारे च कुड्मले । क्रिया कर्मणि चेष्टायामारम्भोपाययोरपि ॥ ९४ ॥ Paramānandīyanāmamālā 5.7.94
- परमानन्दीयनाममाला निःशरणनदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ । स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥ Paramānandīyanāmamālā 5.18.279
- शब्दरत्नावली मुखप्रारम्भोपायवेदेषु तथा निःसरणेऽपि च । लेखो ना विबुधे लेख्ये लेखाश्रेण्यां लिपिष्वपि ॥ Śabdaratnāvalī 7.2.4
- शब्दरत्नावली योगवस्तूपायसन्नहने विश्रब्धघातकेऽपि च ॥ Śabdaratnāvalī 7.3.20
- शब्दरत्नावली निःसरणभवेत्रिःसरणं मोक्षमृत्यूपायागमेषु च । निरूपणं विचारे स्यादालोके च निदर्शने ॥ Śabdaratnāvalī 7.15.81
- शब्दरत्नावली तीर्थगन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
- शब्दरत्नावली सन्धिसन्धिर्ना तु सुरुङ्गायां संहितोपाययोरपि । स्त्रियां भगे च घट्टनेऽवकाशे नाटकाङ्गके ॥ Śabdaratnāvalī 7.19.17
- शब्दरत्नावली साधनसावनः क्रतुकर्मान्ते यजमाने प्रचेतसि । साधनं दापने सैन्ये शिश्ने च गमने धने ॥ तथा निर्वर्त्तनोपायमृतसंस्कारयोरपि । समे वेदान्तरोपायभेदयोरपि न द्वयोः(?) ॥ Śabdaratnāvalī 7.20.96
- शब्दरत्नावली क्रियापुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
- शब्दरत्नावली द्वारदरी तु कन्दरे स्त्री तु मनागर्थे दराव्ययम् । दस्रः खरेऽश्विनीपुत्रे दारु पिचलकाष्ठयोः ॥ देवदारुणि च द्वारं निर्गमोपाययोरपि । धरी गिरौ कूर्मराजे वसुकार्यासतूलयोः ॥ Śabdaratnāvalī 7.27.15
- शब्दरत्नाकर क्रियाशिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु । आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥ Śabdaratnākara 4.1.1905
- शब्दरत्नाकर तीर्थपात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः । तेजः पराक्रमे प्राणे वर्चस्यर्चिषि तेजसि ॥ १९३२ ॥ Śabdaratnākara 4.1.1932
- शब्दरत्नाकर योगयतिर्यतिनि पुंसि स्यात् कारसंयमयोः स्त्रियाम् । ध्यानसंनहनोपाययुक्तिविस्रब्धघातिषु ॥ १९८३ ॥ Śabdaratnākara 4.1.1983
- शब्दरत्नाकर साधनसाधनं शेफसि गमे सेनाङ्गे सिद्ध्युपाययोः । निर्वृत्तौ मृतसंस्कारे दापनेऽनुगमे धने ॥ २१७९ ॥ Śabdaratnākara 4.1.2179
- शब्दरत्नाकर दिश्तृडाशायां पिपासायां द्वास्तु द्वाराभ्युपाययोः । द्योदिवौ स्वर्गवियतोराशोपायगमेषु दिक् ॥ २२४३ ॥ Śabdaratnākara 4.1.2243
- त्रिकाण्डशेष अङ्गशरीरोपायाप्रधानेष्वङ्गं पुंभूम्नि नीवृति । सम्बोधनेऽङ्गाऽव्ययं स्यादयोगो विधुरेऽपि च ॥ ५४ ॥ Trikāṇḍaśeṣa 3.3.54
- त्रिकाण्डशेष योगयोगश्चारेऽपूर्वलाभे सूत्रे विश्रब्धघातिनि । उपाये सङ्गतौ ध्यानौषधसन्नाहयुक्तिषु ॥ ६७ ॥ Trikāṇḍaśeṣa 3.3.67
- त्रिकाण्डशेष गतिगतिर्यात्रादशोपायाः शण्डः सूर्यश्च गोपतिः । गृही सत्री गृहपतिर्गीतं शब्दितगानयोः ॥ १५५ ॥ Trikāṇḍaśeṣa 3.3.155
- त्रिकाण्डशेष तीर्थधनं च ग्रन्थना चाऽपि तीर्थं तूपाययोगयोः । कट्यंशवणयोः प्रोथो वीथिः पङ्क्तौ गृहांशके ॥ १९७ ॥ Trikāṇḍaśeṣa 3.3.197
- त्रिकाण्डशेष तन्त्रइतिकर्तव्यता तन्त्रमुपायश्च द्विसाधकः । तीव्रं कटुनितान्तञ्च दर्दरः शैलभुग्नयोः ॥ ३५५ ॥ Trikāṇḍaśeṣa 3.3.355
- त्रिकाण्डशेष द्वारउपाये निर्गमे द्वारं दारुः स्याद्देवदारु च । दासीसुतोष्ट्रौ दासेरौ देवयात्राऽशने मृतौ ॥ ३५६ ॥ Trikāṇḍaśeṣa 3.3.356
- वैजयन्ती योगययुरश्वेऽश्वमेधाश्वे योगो विस्रब्धघातिनि । प्राप्तौ सन्नहनोपायध्यानसंगतियुक्तिषु ॥ ४८ ॥ Vaijayantī 6.1.48
- वैजयन्ती क्रियाक्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु । करणारंभपूजासु चेष्टायां संप्रधारणे ॥ ९ ॥ Vaijayantī 6.2.9
- वैजयन्ती गतिकोटिस्त्वश्रौ प्रकर्षेऽग्रे दशोपायगमे गतिः । गुप्तिः क्षितिव्युदासेऽपि गुञ्जा भाण्डेऽपि वादने ॥ ११ ॥ Vaijayantī 6.2.11
- वैजयन्ती तीर्थपात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः । तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि ॥ १४ ॥ Vaijayantī 6.3.14
- वैजयन्ती अंगअब्जो धन्वन्तरौ शंखे चन्द्रे क्ली लवणेंऽबुजे । प्रदेशेंऽश उपायेंऽगमंगो देशेंऽगशालिनि ॥ ३ ॥ Vaijayantī 6.5.3
- वैजयन्ती विधानविधानं हस्तिकबले प्रेरणेऽभ्यर्चने घने । वेतने चाप्युपाये च प्रकारे वैरकर्मणि ॥ ३३ ॥ Vaijayantī 7.3.33
- वैजयन्ती साधनसाधनं शेफसि धने सिद्ध्युपायनिवृत्तिषु । मारणे मृतसंस्कारे दापनेऽनुगमे गमे ॥ ३६ ॥ Vaijayantī 7.3.36
- वैजयन्ती द्वार्भूः क्षितौ स्थानमात्रे च वभ्रिकायोषितोः स्त्रियौ । उपायद्वारयोर्द्वाः स्यात् पूः स्यान्नगरदेहयोः ॥ १६ ॥ Vaijayantī 8.2.16