कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समुद्र

samudraपुं · masc.

In 23 kośas: 25 synonym verses, 3 as a nānārtha head word, 44 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.942 · p. 37
रुमा लवणखानिः स्यात्समुद्रं लवणं हि यत् ।तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥ ९४१ ॥माणिमन्थं शीतशिवं रौमकं तु रुमाभवम् ।वसुकं वस्तूकं तच्च विडपाक्ये तु कृत्रिमे ॥ ९४२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable); pāda 3, syllable 5 स्तू (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1074 · p. 42
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.30 · p. 3
नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः ।उरुक्रमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ ६३ ॥उदारथिर्लतापर्णः समुद्रः पांसुजालिकः ।चतुर्व्यूहो नवव्यूहो नवशक्तिः प्रगण्डजित् ॥ ६४ ॥द्वादशमूलः शतको दशावतार एकदृक् ।हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुन्त्रिपात् ॥ ६५ ॥मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः ।हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ६६ ॥उर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः ।पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ ६७ ॥कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः ।वर्धमानश्चतुर्दंष्ट्रो नृसिंहवपुरव्ययः ॥ ६८ ॥कपिलो भद्रकपिलः सुषेणः समितिंजयः ।क्रतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ ॥विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः ।रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ ७० ॥बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः ।लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ ७१ ॥पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः ।शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ ॥वृन्दाङ्कोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः ।शतानन्दश्चरुश्चापि यवनारिप्रमर्दनः ॥ ७३ ॥यज्ञनेमिर्लोहिताक्ष एकपाद्द्विपदः कपिः ।एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ ॥शद्रुर्वंशः श्रीवराहः सदायोगी सुयामुनः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)nearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
तीर्थपादपुंपुण्यश्लोकपुंवलिंदमपुंउरुक्रमपुंउरुगायपुंतमोघ्नपुंश्रवणपुंउदारथिपुंलतापर्णपुंसमुद्रपुंपांसुजालिकपुंचतुर्व्यूहपुंनवव्यूहपुंनवशक्तिपुंप्रगण्डजित्पुंद्वादशमूलपुंशतकपुंदशावतारपुंएकदृश्पुंहिरण्यकेशपुंसोमपुंअहिपुंत्रिधामन्पुंत्रिककुद्पुंत्रिपाद्पुंमानंजरपुंपराविद्धपुंपृश्निगर्भपुंअपराजितपुंहिरण्यनाभपुंश्रीगर्भपुंवृषोत्साहपुंसहस्रजित्पुंऊर्ध्वकर्मन्पुंयज्ञधरपुंधर्मनेमिपुंअसंयुतपुंपुरुषपुंयोगनिद्रालुपुंखण्डास्यपुंशलकपुंअजितपुंकालकुण्ठपुंवरारोहपुंश्रीकरपुंवायुवाहनपुंवर्धमानपुंचतुर्दंष्ट्रपुंनृसिंहवपुस्पुंअव्ययपुंकपिलपुंभद्रकपिलपुंसुषेणपुंसमितिंजयपुंक्रतुधामन्पुंवासुभद्रपुंबहुरूपपुंमहाक्रमपुंविधातृपुंआधारपुंएकाङ्गपुंवृषाक्षपुंसुवृषपुंअक्षजपुंरन्तिदेवपुंसिन्धुवृषपुंजितमन्युपुंवृकोदरपुंबहुशृङ्गपुंरत्नबाहुपुंपुष्पहासपुंमहातपस्पुंलोकनाभपुंसूक्ष्मनाभपुंधर्मनाभपुंपराक्रमपुंपद्महासपुंमहाहंसपुंपद्मगर्भपुंसुरोत्तमपुंशतवीरपुंमहामायपुंब्रह्मनाभपुंसरीसृपपुंवृन्दाङ्कपुंअधोमुखपुंधन्विन्पुंसुधन्वन्पुंविश्वभुज्पुंस्थिरपुंशतानन्दपुंचरुपुंयवनारिप्रमर्दनपुंयज्ञनेमिपुंलोहिताक्षपुंएकपाद्पुंद्विपदपुंकपिपुंएकशृङ्गपुंयमकीलपुंआसन्दपुंशिवकीर्तनपुंशद्रुपुंवंशपुंश्रीवराहपुंसदायोगिन्पुंसुयामुनपुं
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.652 · p. 74
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.167 · p. 81
समुद्रो जलधिर्वार्धिसारभिच्छरधिः कधिः ।कन्धिः सरस्वान्रत्नाङ्गः पयस्वान् पवनानुगः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात चतुःसंख्यावाचकाः शब्दाः- Ekādisaṃkhyāsaṃjñākoṣa 4.9 · p. 200
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
आर्या
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात सप्तसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 7.16 · p. 200
द्रीप-रविवाह-पाताल-शक्रवाहमुख-दुर्गति-समुद्राः ।श्रीपार्श्वचिह्नफणिफल(ण)-तत्त्व-क्षेत्रा-ऽनलज्वालाः ॥ १६ ॥
आर्या
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.22 · p. 2
चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः ।समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.107 · p. 17
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.1 · p. 343
समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः ।लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.15 · p. 100
प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् ।पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् ॥ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः ।देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् ॥पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचःपारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् ।गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता-कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा: pāda 2, syllable 16 ग (wrong syllable)
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 26 · p. 12
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.351 · p. 48
समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः ।पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.278 · p. 20
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.1 · p. 40
समुद्रः सागरः कन्धिः पयोधिर्जलशेवधिः ।नदीनः सिन्धुरम्भोधिः पयस्वान्पवनानुगः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.112 · p. 13
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1460 · p. 232
अग्रेऽपि दशनिखर्वं शङ्कुर्दशमहाम्बुजम् ।तथा वार्द्धिः समुद्रोऽपि दशशङ्कुर्निगद्यते ॥ १४६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1865 · p. 304
समुद्रः सागरः सिन्धुस्तिमिकोशो महाशयः ॥ १८६५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.32 · p. 38
सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः ।समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.315 · p. 42
अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः ।वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥
गीतिःmetre not read in every line
genderपुंmasc.
महाकाली समुद्राख्यः कालसंज्ञो विषान्तकः ।कृतान्तः कृधि(षि)तः पुंसो यमश्च कालभद्रकः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.11 · p. 154
रत्नाकरो जलनिधिः समुद्रो मकरालयः ।उदन्वान्वरुणावासः सरितांपतिरप्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.29 · p. 188
समुद्रो मध्यमन्तं च परार्धं च यथाक्रमम् ।परं परार्धाद्द्विगुणमथ स्त्री कोटिरर्बुदे ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1908 · p. 213
समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके ।आकाशे च तथा सङ्ख्याभेदे चैवंविधः स च ॥ १९०८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1909 · p. 213
शताद्दशगुणं या स्यात् सङ्ख्या यत्र त्रयोदश(?) ।शाश्वतस्तु नपि प्राह समुद्रं देहलक्षणे ॥ १९०९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1910 · p. 214
त्रिस्तु स्यान्मुद्रया युक्ते समुद्गस्तु पुमानयम् ।सम्पुटे त्रिस्तु सहिते मुद्गेनाथ नपुंसकम् ॥ १९१० ॥
अनुष्टुप्

समुद्र as a meaning in nānārtha verses