संज्ञा
saṃjñāस्त्री · fem.In 20 kośas: 23 synonym verses, 10 as a nānārtha head word, 8 as a meaning of another word.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
अनुष्टुप्
genderस्त्रीfem.
आख्या संज्ञाभिधाह्वानं नामधेयं च नाम च ।आख्यायिका कथाख्यानं प्रह्वलीका प्रहेलिका ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
माला-स्तबक-कराङ्गुलि-संज्ञा-सुरभेद-योजनक्रोशाः ।एते सलोकपालाः काव्ये योज्याश्चतुःसङ्ख्याः ॥ ११ ॥
आर्या
genderस्त्रीfem.
पादः करोंशुमाला च प्रभामालेति कथ्यते ।संज्ञा स्वरेणुका मायामयी चापि सुवर्चला ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा ।प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
गोत्रं स्त्रियामभिख्याख्या संज्ञाह्वा ना समाह्वयः ।लक्षणं लक्ष्मणं क्लीबेऽभिधानमभिधा स्त्रियाम् ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्युः पारिपार्श्वका भानोः संज्ञा छाया च तत्स्त्रियौ ।परिवेषस्तु परिधिः परिवेशश्च मण्डलम् ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
आख्याभिक्षा(ख्या?)भिधा संज्ञाह्वा गोत्रं नाम चास्त्रियाम् ।शर्माह्वया नामधेयमभिधानं च न स्त्रियाम् ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
अनुष्टुप्
genderस्त्रीfem.
ऐतिह्यं तु किंवदन्ती जनश्रुतिरुदाहृता ।नामाभिधा गोत्रसंज्ञाख्याह्वाभिख्याह्वया अपि ॥ १८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
राकः क्रूरो विविंशश्च कठिनश्च ग्रहेश्वरः ।संज्ञा छाया च तत्पत्नी तत्पुरी भास्वती नभा ॥ ११३ ॥
अनुष्टुप्
genderस्त्रीfem.
छाया कान्तिमती संज्ञा गतानुगतिकाऽपि च ।सुतस्तस्यास्तु रेवन्तोप्यरुणः सव्यसारथिः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा ।गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥
अनुष्टुप्
genderस्त्रीfem.
उदन्तस्तु प्रवृत्तिः स्याद् वार्ता वृत्तान्तकस्तथा ।अथाऽऽख्याऽऽह्वाऽभिधाऽभिख्या संज्ञा गोत्रं तथाऽऽह्वयः ॥ ३७६ ॥
अनुष्टुप्
genderस्त्रीfem.
गरुडाग्रजो तार्क्ष्यश्च सूर्यसारथिरित्यपि ।अथ च्छाया च संज्ञा च सूर्यस्य वनिताद्वयम् ।च्छाया स्यान्मन्दजननी सवर्णा भूमयीत्यपि ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
व्यपदेशाह्वयौ संज्ञा गोत्रमाख्या च लक्ष्मणम् ।स्यादभिख्या तथाह्वा च नामपर्याय ईरितः ॥
अनुष्टुप्
genderस्त्रीfem.
मण्डलं त्रिषु बिम्बोऽस्त्री प्रतापस्तीव्र आतपः ।करेणुर्द्युमयी संज्ञा त्रसरेणुः सुवर्चला ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादाख्याह्वाभिधा संज्ञा नामधेयं च नाम च ।हूतिराकरणाह्वाने संहूतिर्बहुभिः कृता ॥ ९०६ ॥
अनुष्टुप्
genderस्त्रीfem.
ध-कारो वामजङ्घा च प्रियश्च दर्शनस्तथा ।नेत्रयुग्मञ्च संज्ञा च स्थाणुरस्थानुरीश्वरः ॥ ४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
छाया स्यात्तपती मन्दजननी भूमयी वरी ।संज्ञा तु यमकालिन्दीरेवन्तमनुदस्रसूः ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
संज्ञाऽधिवचनं सद्यःकृतं लक्षणनामनी ।व्यपदेशः प्रसिद्धस्तु टङ्कारोऽथ नवः स्तवः ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
संज्ञास्व रेणुर्द्युमयी त्रसरेणुः सुवर्चला ।त्वाष्ट्री प्रभाप्यथच्छाया विक्षुभा भूमिमय्यपि ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
संज्ञा स्याच्चेतनानाम्नोर्हस्ताद्यैश्चार्थसूचने ।संज्ञा सूर्यप्रिया ख्याता स्याच्छायेति प्रकीर्तिता ॥
अनुष्टुप्
अज्ञोऽलसे मन्दमतौ च संज्ञागायत्रिकाचेतगयोश्च नाम्नि ।करादिभिश्चेप्सितसूचनायांसूर्यस्य पत्न्यामपि संप्रदिष्टा ॥ ४७ ॥
उपजातिः
उपांशु यच्च क्रियते स्वेष्वनीकेषु विग्रहे ।सन्धावधौ प्रतिज्ञायां सन्ध्यासन्धानकर्मणोः ॥ ११२ ॥
अनुष्टुप्
meaningsउपांशुक्रिया
doubtful
संज्ञा सूर्यस्त्रियां नाम्नि गायत्यां चेतनासु च ।हस्ताद्यर्थसूचनायां मनीषायाञ्च योषिति ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्थ (wrong syllable)
प्रतिज्ञानेऽवधौ संधा ज्ञानमर्यादयोः स्थितिः ।संज्ञा नाम्न्यर्कभार्यायां ज्ञाने हस्तादिसूचने ॥ २०२६ ॥
अनुष्टुप्
संज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा ।संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥
अनुष्टुप्
संज्ञा as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) समाह्वयव्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना । यात्रा स्यादनुवृत्तौ च संज्ञायां च समाह्वयः ॥ ८१९ ॥ Abhidhānaratnamālā (Halāyudha) 5.819
- नानार्थार्णवसंक्षेप नामन्अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः । प्राकाश्योपगमादीनामर्थानां द्योतकं विदुः ॥ ६८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.686
- नानार्थार्णवसंक्षेप नीलास्त्र्यर्थे नीलैव वस्त्रे स्याद् संज्ञायां तु द्वयं भवेत् । नीला नीली च नील्येव प्राणिनि स्यादथो पुमान् ॥ ६९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.692
- नानार्थार्णवसंक्षेप अभिख्यातत्रादौ तावदध्यायः स्त्रीलिङ्गानां प्रणीयते । अथ स्त्रियामभिख्या स्याच्छोभायां कीर्तिसंज्ञयोः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.1.2
- नानार्थार्णवसंक्षेप अभिधाप्रज्ञायामपि विख्यातावभिधा तूक्तिसंज्ञयोः । अहल्या तु सरोभेदे भार्यायां गौतमस्य च ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 3.1.3
- नानार्थार्णवसंक्षेप लाञ्छनक्रियायां स्याल्लालयतेर्लाञ्छनं त नपुंसकम् । अङ्कने चैव चिह्ने च संज्ञायां रभसोऽपठीत् ॥ १५६८ ॥ Nānārthārṇavasaṃkṣepa 4.1568
- शब्दरत्नावली सङ्गतिसन्ततिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसंज्ञयोः । सम्बित्तिश्चेतनायां स्याज्जनानामविवादके ॥ Śabdaratnāvalī 7.16.145
- शब्दरत्नाकर संविद्संज्ञासंभाषणज्ञानक्रियाकारेषु तोषणे । बले स्थिरांशे सारो ना धने न स्त्री वरेऽर्थवत् ॥ २०२५ ॥ Śabdaratnākara 4.1.2025