दिश्
diśस्त्री · fem.In 24 kośas: 34 synonym verses, 1 as a nānārtha head word, 54 as a meaning of another word.
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderस्त्रीfem.
घनोपलस्तु करकः काष्ठाशा दिग्धरित्ककुप् ॥ १६६ ॥
अनुष्टुप्
genderस्त्रीfem.
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
अनुष्टुप्
genderस्त्रीfem.
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderस्त्रीfem.
वायुगर्भः सूर्यरथो वियद्विष्णुपदं पदम् ।दिग्दिशाशाककुब्दीर्णिर्हरिद्देववधूः सरिः ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
genderस्त्रीfem.
स्त्री हलन्त … स्युर्वाग्वाचादिग्दिशादयः ।बाहुल्येन घञि प्रादेर्दीर्घमिच्छन्ति यत्नतः ॥ २७३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
आर्या
genderस्त्रीfem.
दिग्-देश-कुम्भिपालाः कुलपर्वत-शम्भुमूर्त्ति-वसवश्च ।योगाङ्ग-व्याकर(ण)-ब्रह्मश्रुत्यहिकुलान्यष्टौ ॥ १८ ॥
आर्याmetre not read in every line
genderस्त्रीfem.
रावणमुखा-ऽङ्गुली-चन्द्रवाह-यतिधर्म-शम्भुकर्ण-दिशः ।अङ्गद्वारा-ऽवस्था दशाः पुनः संख्यया दशैव स्युः ॥ २० ॥
गीतिः
genderस्त्रीfem.
आकाश नाम यत्रैव तत्र शून्यमुदाहृतम् ।ककुपदिक्काष्ठा च दशसंज्ञा सदैव हि ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः ।नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥
अनुष्टुप्
genderस्त्रीfem.
चतुष्पथपथाट्टालशून्यालयकृताश्रयाः ।ककुभा तु ककुप्काष्ठा दिग्दिशा हरिता हरित् ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् ।वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
सीमन् शरद्दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः ।द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
स्त्री दिग्दिशा ककुप्काष्ठा हरिदाशाथ सा यदि ।तत्क्षणं रविणा मुक्ता भवेदङ्गारिणी तदा ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां सयोनिदेहिनां विना विशेषमाह्वयश्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥
पञ्चचामरम्
genderस्त्रीfem.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderस्त्रीfem.
काष्ठा ककुब्दिगाशा च दक्षकन्या तथा हरित् ।तत्पर्यायपरं योज्यं प्राज्ञैः पालगजाम्बरम् ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
दिक्काष्टाशा ककुप्पूर्वा प्राच्यपाची तु दक्षिणा ।पश्चिमा च प्रतीची स्यादुत्तरा त्वपरा स्मृता ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् ।वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
नन्दनं वज्जिविपिनं? सुधर्मा मघवत्सभा ।हरिदाशा ककुब्काष्ठा दिशा दिक् व्योमपत्रिका ॥ ३३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पो युगान्तः संहारः कल्पान्तः प्रलयः क्षयः ।दिशा आशा दिशः काष्ठा हरितः ककुभश्च ताः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वीपा दिशो दशाश्चैते भवनपतयो मताः ।श्री असुरकुमाराख्यजातिका निखिला अपि ॥ ७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable); pāda 3, syllable 3 सु (wrong syllable)
genderस्त्रीfem.
आशा चैव हरित् काष्ठा स्याद्दिक् तथा ककुप् किल ॥ १७३ ॥
metre not recognised
genderस्त्रीfem.
दिक् दिशा स्यात् ककुप् काष्ठा ककुभा हरिता हरित् ।आशा गौरिति शब्दाः स्युः स्त्रियां दिग्वाचका अमी ॥
अनुष्टुप्
genderस्त्रीfem.
नदी सरित् शैवलिनी वाणी गीर्गोश्च वागपि ।वीणा विपञ्ची दिक्ककुप् स्याद्भूर्भूमिरवणि क्षितिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् ।ककुभा ककुब्याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
genderस्त्रीfem.
स्युर्गोमेदकमाणिक्यपुष्परागादयो भिदाः ।दिशः काष्ठा दिशा आशा हरितः ककुभश्च ताः ॥ १५१ ॥
अनुष्टुप्
genderस्त्रीfem.
आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः ।संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥
अनुष्टुप्
genderस्त्रीfem.
दिक् तु स्त्रियां दिशा दान्ती ककुब्देववधूः पविः ॥ २३ ॥
genderस्त्रीfem.
हली कूर्मेश्वरो लक्ष्मीर्वामबा(ह्वादिग)हुर्द्दिशस्तथा ।चि(त्ताचा)त्र-वारी चञ्चलश्च च-कारः संस्मृतो बुधैः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
तारावर्त्मांबरं मेघवर्त्म चाकाशमस्त्रियाम् ।दिग्दिशाशा ककुब्दीर्णी हरिद्देववधूः सरिः ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
वारिकूटो हस्तिमुखो नगरद्वारकुट्टके ।गोपुरं तु पुरद्वारं दिक्तु निस्सारणं मुखम् ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
genderस्त्रीfem.
दिश् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् गोस्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥ Amarakośa 3.3.25
- नामलिङ्गानुशासनम् काष्ठानिष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि । Amarakośa 3.3.80
- हलायुधकोशः (अभिधानरत्नमाला) गोदिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥ Abhidhānaratnamālā (Halāyudha) 5.854
- धरणिकोश गोगोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥ Dharaṇikośa 3.3.1
- धरणिकोश प्राक्प्रागुदक्प्रत्यगित्येते दिद्गेशे कालतोऽव्ययम् । प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ Dharaṇikośa 5.3.3
- धरणिकोश काष्ठानिष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च । काष्ठा दिक्कालमर्यादाकर्षेषु काष्ठमिन्धनम् ॥ Dharaṇikośa 11.2.1
- धरणिकोश अपारिणीअपारिणी रवित्यक्ता दिक् स्यादङ्गारधानिका । पीलुपर्णी तु मूर्वा स्यात्पीलुपर्णी तु बिम्बिका ॥ Dharaṇikośa 14.2.33
- धरणिकोश दक्षिणादक्षिणो दक्षे तद्भूते ऋजुच्छन्दानुवर्तिनोः । दक्षिणा यज्ञनिष्पत्तिदाने दिशि च कीर्तिता ॥ Dharaṇikośa 14.3.14
- धरणिकोश दग्धवृद्धं रूढे च शैलेये वृद्धौ स्थविरपण्डितौ । दग्धं प्लुष्टं दिक् च दग्धा रविर्यस्यां न तिष्ठति ॥ Dharaṇikośa 18.2.8
- धरणिकोश ककुभ्जृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥ Dharaṇikośa 23.1.3
- धरणिकोश उत्तराउत्तरं वाग्विशेषार्थश्रेष्ठोदीच्येषु कीर्तितम् । उत्तरा दिग्विराटाख्यनृपस्यौरस उत्तरः ॥ Dharaṇikośa 26.3.37
- धरणिकोश आशाईशः प्रभौ च शम्भौ च राशिर्मेषादिपुञ्जयोः । अंशुर्लेशे च रश्मौ स्यादाशा तृष्णादिशोः स्मृता ॥ Dharaṇikośa 29.1.1
- कोषकल्पतरु गोगौरर्वनाकक्रतुभेदरश्मि- दृग्धेनुलोमाशनिनीरभूषु । दिग्बाणवाणीवृषभेषु गस्तु गणेशगन्धर्वकगातृषु स्यात् ॥ ९० ॥ Koṣakalpataru 6.3.90
- कोषकल्पतरु काष्ठाश्रेष्ठः कुबेरे स वरेऽन्यवत्स्यात् काष्ठा प्रकर्षे दिशि च स्थितौ च । कटंकटेर्यामपि कालमाने नपुंसके त्विन्धनवाचकं स्यात् ॥ ५८ ॥ Koṣakalpataru 6.11.58
- कोषकल्पतरु हरित्पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हये ना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् । रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियां संध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥ Koṣakalpataru 6.16.24
- कोषकल्पतरु निरृतिरात्रौ वासनिकेतयोश्च वसतिः स्त्री धातृवाय्वोः पुनः श्रौतेष्वग्निषु चाङ्कतिर्निर्गदितो रुक्त्यागयोस्त्र्यंहतिः । अश्रीदिग्धवयोरुपद्रवहृते स्यान्निर्ऋतिः पुंसि तु स्वाहायां तरणौ घृणौ च चतुरैः प्रोक्तो गभस्तिस्तथा ॥ ३० ॥ Koṣakalpataru 6.16.30
- कोषकल्पतरु ककुभ्योषित्स्यात्पिटिकान्तरे कृमिभिदि क्लीबं पुनः कैरवे शोभादिक्षु च चम्पकस्रजि ककुभ् स्त्री स्यात्प्रवेण्यामपि । Koṣakalpataru 6.24.32
- कोषकल्पतरु उत्तरभवेद्भवान्यां नरि तूत्तरः स्या- द्विराटपुत्रे दिशि योषिति स्यात् । भवेद्द्वयोनः प्रतिवाक्यवाची- तरोऽन्यनामा त्रिषु पामरे च ॥ ८६ ॥ Koṣakalpataru 6.27.86
- नानार्थार्णवसंक्षेप गोगौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 1.5.3
- नानार्थार्णवसंक्षेप ककुभ्कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.1.22
- नानार्थार्णवसंक्षेप व्योमन्व्योमशब्दं तु पञ्चार्थं विद्यात् स्थाने जले दिशि । आकाशेऽक्षितसङ्ख्यायाः सङ्ख्यायां दशकात्मनि ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 2.3.61
- नानार्थार्णवसंक्षेप अक्तुइन्द्रे च ना दिशि स्त्री स्यादसत् तु क्लीबलिङ्गकम् । प्रधानतत्त्वे साङ्ख्यानां त्रिस्तु सत्प्रतियोगिनि ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.59
- नानार्थार्णवसंक्षेप आशाअर्चिस्तु भासि ज्वालायां शस्त्रे च स्त्रीनपुंसकम् । आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.63
- नानार्थार्णवसंक्षेप काष्ठास्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि । दक्षिणोत्तरयोरन्यतरस्मिन्नयने रवेः ॥ १८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.185
- नानार्थार्णवसंक्षेप नायआपो नारा इति प्रोक्ता इत्यत्राथान्यलिङ्गकः । नायो नेतरि ना त्वेष प्रापणे स्त्री त्वथो दिशि ॥ ६८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.683
- नानार्थार्णवसंक्षेप प्रतीचीप्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु । देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.736
- नानार्थार्णवसंक्षेप हरित्तद्वति स्त्री तु दिङ्नद्योरङ्गुलौ चाथ तत् तृणे । शण्डमेके नरे त्वन्ये हस्ती द्वे च मतङ्गजे ॥ १५८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1586
- नानार्थार्णवसंक्षेप दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । दमुनास्तु रवौ वह्वावुत्तरार्धं तु राभसम् ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.97
- नानार्थार्णवसंक्षेप उपराकुष्ठाख्यभेषजेऽथ स्यादुपरः पुंसि वारिदे । यूपस्य त्वक्षते मूले क्ली स्त्री स्यादुपरा दिशि ॥ २३९ ॥ Nānārthārṇavasaṃkṣepa 4.239
- नानार्थार्णवसंक्षेप उपलाउपला सज्जनस्त्वाह दिशि चाथो(पलो?लपो)ऽस्त्रियाम् । आदिसर्गस्थभूतानामन्नभेदे नपि त्वदः ॥ २४१ ॥ Nānārthārṇavasaṃkṣepa 4.241
- नानार्थार्णवसंक्षेप निरुधानिरुधा तु दिशि स्त्री स्यात् त्रि तु पुण्यक्रमेऽभ्यधु(?) । निर्माल्याभ्रकयोस्तु क्ली निर्मलं विमले त्रिषु ॥ १०३० ॥ Nānārthārṇavasaṃkṣepa 4.1030
- नानार्थार्णवसंक्षेप दक्षकन्याश्रीवेष्टे तैलपर्णी स्याद् धवलेऽपि च चन्दने । गौरीदिशोर्दक्षकन्या दीर्घवल्ली तु वेत्रके ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 6.29
- नानार्थार्णवसंक्षेप देववधूदिशि देवस्य वध्वां च नागजिह्वां तु बोधत । मनःशिलाशारिबयोर्नागस्य रसने तथा ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 6.31
- परमानन्दीयनाममाला गोगीतगात्रोरथाख्यातो गौर्जले वज्रबाणयोः । वृषधेन्वोर्गिरौ वाचि नेत्रदिग्भूमुखेषु च ॥ १३ ॥ Paramānandīyanāmamālā 1.13
- परमानन्दीयनाममाला कल्पकल्पः शास्त्रे विधौ पापे संवर्ते ब्रह्मणो दिने । प्रकर्षे दिशि काष्ठा च कालमानदिशोरपि ॥ १०३ ॥ Paramānandīyanāmamālā 5.7.103
- परमानन्दीयनाममाला हरित्कपोलावयवे हारी शुके हारान्वितेऽपि च । हरित्तृणान्तरे वर्णभेदे दिश्यपि कथ्यते ॥ ३७७ ॥ Paramānandīyanāmamālā 5.28.377
- शारदीयाख्यनाममाला गोदिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १३० ॥ Śāradīyākhyanāmamālā 3.5.130
- शब्दरत्नावली गोगौ पुंसि वृषभे रश्मौ कुलिशे त्रिदिवेऽपि च । स्त्रियां गवीषु दृग्-वाग्-भूदिक्षु वारिणि भूम्नि च ॥ Śabdaratnāvalī 7.3.1
- शब्दरत्नावली काष्ठास्थानमात्रे दिशि स्त्री तु काष्ठं दारुणि न द्वयोः । कुण्ठः स्यादलसे मूर्खे कुष्ठं पुष्कररोगयोः ॥ Śabdaratnāvalī 7.12.4
- शब्दरत्नावली दक्षिणादक्षिणः सरले छन्दवर्तिदक्षिणजातयोः । आरामे त्रिषु यागान्तदाने च दिशि च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.38
- शब्दरत्नावली हरित्सुनृतं मङ्गले क्लीबं सत्यप्रियवचस्यपि । हरिद्दिशि स्त्रियामस्त्री तृणे ना हयवर्णयोः ॥ Śabdaratnāvalī 7.16.150
- शब्दरत्नावली ककुभ्ककुप् प्रवेणी दिक्शोभाचम्पकस्रक्षु च स्त्रियाम् ॥ Śabdaratnāvalī 7.24.10
- शब्दरत्नावली आशाअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2
- शब्दरत्नाकर गोकः समीरार्कवेधःसु खमुडौ व्योम्नि चेन्द्रिये । गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥ Śabdaratnākara 4.1.2241
- त्रिकाण्डशेष गोस्त्रीबाणरोहिणीदृग्दिग्वाग्भूमिष्वप्सु भूम्नि च । वैधव्ये नृपनाशे च छत्रभङ्गः प्रकीर्तितः ॥ ६० ॥ Trikāṇḍaśeṣa 3.3.60
- त्रिकाण्डशेष दक्षिणादक्षिणा दिशि दाने च दक्षिणः सरलेऽपि च । असती स्याद्धर्षणी च धर्षणं निकृतौ रते ॥ १३१ ॥ Trikāṇḍaśeṣa 3.3.131
- त्रिकाण्डशेष हरितस्त्री हरिद्दिशि वर्षे ना दूर्वाऽपि हरिता मता । Trikāṇḍaśeṣa 3.3.201
- त्रिकाण्डशेष आशाअपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः । टीकादर्पणावादर्शावाशा तृष्णादिशोः स्त्रियाम् ॥ ४२६ ॥ Trikāṇḍaśeṣa 3.3.426
- वैजयन्ती आशाआलिः सेतौ सखीपङ्क्त्योराशा दिगतितृष्णयोः । आजिः समेऽपि भूभागे गोनाडीभूद्युवाक्ष्विडा ॥ ३ ॥ Vaijayantī 6.2.3
- वैजयन्ती काष्ठाकासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः । काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥ Vaijayantī 6.2.8
- वैजयन्ती हरित्हृत्प्रिये हृद्धिते हृज्जे ह्रीकौ नकुललज्जितौ । यमेऽल्पे वामने ह्रस्वो हरित् स्त्री दिशि षण् तृणे ॥ १०१ ॥ Vaijayantī 6.5.101
- वैजयन्ती दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । द्विजातिश्च द्विजन्मा च ब्राह्मणादिपतत्रिणोः ॥ ३१ ॥ Vaijayantī 7.1.31
- वैजयन्ती दक्षकन्यागौरीदिशोर्दक्षकन्या प्रतिपत्तिस्तु गौरवे । प्रत्त्याप्तिप्रतिभाज्ञानेष्वथ नीलीविशल्ययोः ॥ ७ ॥ Vaijayantī 8.2.7
- वैजयन्ती गोद्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् । दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥ Vaijayantī 8.5.37