वर्ण
varṇaपुं · masc.In 22 kośas: 39 synonym verses, 14 as a nānārtha head word, 42 as a meaning of another word.
कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् ॥ ६४४ ॥वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ६४५ ॥
अनुष्टुप्
genderक्लीneut.
कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
genderपुंmasc.
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
अनुष्टुप्
genderपुंmasc.
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा ।नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥
अनुष्टुप्
genderपुंmasc.
कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम् ।काश्मीरजं च विद्वद्भिः कालेयं जागुडं स्मृतम् ॥ ५४३ ॥
अनुष्टुप्
genderक्लीneut.
ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः ।सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥
आर्या
genderपुंmasc.
असृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् ।संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥ ३८० ॥
अनुष्टुप्
genderक्लीneut.
प्रवेणिः स्त्री प्रवेणी च परिस्तोमः पुमानयम् ।वर्णः षणास्तरणं स्यात् कण्ठबन्धः कलापकः ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नाक्षो हंसपदं वर्णं विडालपदमित्यपि ।उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥ ५२१ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी ।अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
उष्णे धर्मस्तपो माघे हृदि वस्तो वरो भवेत् ।तुल्ये गोले च भक्ष्ये च वर्णः शुक्लादिकेषु च ॥ १३८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
रूपे चाक्षुषमब्ज इत्यनुभवेर्वर्योपि(?) वर्णो स्त्रियांश्वेतादित्रिषु तद्युतेष्वथ सितः शुक्लोऽवदातः शुचिः ।श्येनः शुभ्र-वलक्ष-शुद्ध-धवलाः श्वेतश्च गौरोऽर्जुनःस्यादस्मिन्खरु-पाण्डरौ च विशदः शौक्लं तु भावेऽन्तिमे ॥ २६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
त्रिष्वार्थिकं तथार्थ्यं च भवेदर्थान्वितं हि यत् ।* * * * * * * * वर्णोऽस्त्र्यक्षरमन्तिमे ।अचः स्वरा व्यञ्जनं हल् वर्गाः स्पर्शास्तथोहितः ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
श्लोको वर्णो ना यशोऽन्ते समाज्ञा-भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः ।श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्चस्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥
शालिनी
genderपुंmasc.
औरभ्रः कम्बलो द्वंद्वे परिस्तोमास्तरौ तथा ।वर्णः प्रवेणिर्नवता सूची-वान-कुथास्त्रिषु ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
कश्मीरजन्म घुसृणं वर्णं बाह्लीक - बाह्लिके ।कालेयं[94b] जागुडं चाग्निशिखं च कुसुमान्त(त्म)कम् ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
[96b]दौष्कुलेयो दुष्कुलीनः पांसनेऽमी विशेष्यगाः ।वर्णा नरि ब्राह्मणाद्याश्चातुर्वर्ण्यं पुनः स्मृतम् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
पक्कण-कङ्कण-शिङ्घाणाः स्यु-र्वर्णः शुक्लाद्यक्षरवाची ।वास्तुः सक्तुर्जीवातुः स्या-द्भूतः प्रेते पूर्त-निकेते ॥ ४६ ॥
metre not recognised
genderपुंक्लीm. n.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderपुंmasc.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
कश्मीरजं वह्निशिखं वर्णं लोहितचन्दनम् ।जात्यां तु रजनिः पुष्पा मालती तैलभाविनी ॥ २३५ ॥
अनुष्टुप्
genderक्लीneut.
जनोदाहरणं कीर्तिं साधुवादं यशो विदुः ।वर्णं गुणावलिं ख्यातिमवधानं तु साहसम् ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
काश्मीरजन्मवर्णे तु घुसृणं रक्तचन्दनम् ।कालेयजागुडे वह्निशिखं वाह्लीकमप्यदः ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
संपरायो रणे तल्पः पर्यङ्केऽपि तथैव च ।प्रेते भूत उडावृक्षो वर्णः श्वेतस्वरादिके ॥ १२३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् ।मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
प्रियङ्गु पीतकाबेरं पीतनं चापि दीपनम् ।वाह्लीकं वाह्निकं वर्ण्यं वर्णं लोहितचन्दनन् ॥ १०४४ ॥
अनुष्टुप्
genderक्लीneut.
वर्णो वणपरिस्तोमः परिस्तोमः कुथस्तथा ।आस्तर आस्तरञ्च प्रवेणी नवतं पुनः ॥ ११०५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
संकोचपिशुनं तद्वत्संकोचं पिशुनं समे ।वर्णं वर्ण्यं, देवसुमे लवङ्गं लवसंयुतम् ॥ २०५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः ।वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः ॥ २२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderपुंmasc.
प्रवेणी तु परिस्तोमो वर्णः शारिः कुथो द्वयोः ।वप्रक्रिया परिणतिः कल्पना सज्जना समे ॥ ७१३ ॥
अनुष्टुप्
genderपुंmasc.
बद्धदर्भा देवयष्टिश्चर्या त्वीर्यापथे स्थितिः ।व्रज्याटाट्याटनं क्लीबे त्वक्षरं वर्णमस्त्रियाम् ॥ १२४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कर्को दर्पणभेदे स्यात् स्वर्णे वर्ण इतीर्यते ।शर्करायां तु वलयं शकलं खण्डमित्यपि ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कृत्यज्ञेयो यथा वर्णश्चारः प्रणिधिरेव च ॥ ७३ ॥
genderपुंmasc.
निष्ठुरा परुषा क्षेपे त्रिषु स्युस्तुमुलादयः ।अस्त्रियौ वर्णमर्णं च वाक्यं तु वचनं वचः ॥ २१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कटः किलिञ्जो वर्णस्तु परिस्तोमः कुथा त्रयी ।नमतं चाप्यास्तरणं प्रच्छदस्तूत्तरच्छदः ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्या (wrong syllable)
genderपुंmasc.
अपुंसि चालनी दाम वणिज्याश्मन्तिका स्थली ।शरव्यार्च्चिर्गुडा पत्री स्यात्कुथे वर्णतर्णिका ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके पुनः ।विशेषादथ विप्रादौ स्तुतौ गीतिक्रमे कुथे ॥ ११५६ ॥
अनुष्टुप्
doubtful
अजयस्त्वाह चित्रेऽपि उक्तिमात्रे च दृश्यते ।आकृत्यां माल्ययशसोर्वृते वेषे परे पुनः ॥ ११५७ ॥
अनुष्टुप्
doubtful
ब्रह्मचर्ये च वर्णा तु तुवरीसंज्ञधान्यके ।पृथुबीजे स्त्रियां वज्रं त्वस्त्री कुलिशशस्त्रयोः ॥ ११५८ ॥
अनुष्टुप्
meaningsब्रह्मचर्य
पुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने ।वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
कीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च ।वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥
अनुष्टुप्
doubtful
वर्ण as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) स्वरअकारादिषु वर्णेषु षड्जादिषु च सप्तसु । उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः ॥ ८६३ ॥ Abhidhānaratnamālā (Halāyudha) 5.863
- हलायुधकोशः (अभिधानरत्नमाला) कालइराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि । निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥ Abhidhānaratnamālā (Halāyudha) 5.83
- धरणिकोश हरित्पित्सन्पिपतिषञ्चैव पतनेच्छौ विहंगमे । हरित्ककुभि वर्णे च तृणवाजिविशेषयोः ॥ Dharaṇikośa 15.2.21
- धरणिकोश हरितविनता तार्क्षमाता स्यान्नम्रा च विनता मता । हरिता च स्मृता दूर्वा हरितो वर्णवाचकः ॥ Dharaṇikośa 15.2.41
- धरणिकोश अक्षरप्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः । प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥ Dharaṇikośa 26.1.21
- कोषकल्पतरु शकअकं तु दुःखे दुरितेऽपि शस्तम् । शकस्तु देशे भुजगे च वर्णे शुको भवेद्व्याससुते च कीरे ॥ ३ ॥ Koṣakalpataru 6.1.3
- कोषकल्पतरु राजन्शक्रे च यक्षे भुजगे च वर्णे द्युवा रवौ चाभिगमे च पुंसि । स्युर्वाजिनो बाणविहंगमाश्वाः प्रेत्वा तु वायावपि वासवे च ॥ ८४ ॥ Koṣakalpataru 6.21.84
- कोषकल्पतरु अभिनिष्टानवर्णे विसर्जनीयेऽप्यभिनिष्टानः स्मृतो विज्ञैः । स्नाने स्पर्शे चोपस्पर्शनमुक्तं तथाचमने ॥ ६० ॥ Koṣakalpataru 6.21.60
- कोषकल्पतरु अक्षरअस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ Koṣakalpataru 6.27.87
- नानार्थार्णवसंक्षेप जातिजातिः समूहे मालत्यां सामान्ये जन्मगोत्रयोः । ब्राह्मणादिषु वर्णेषु वेदार्थे सर्वजन्तुषु ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 2.1.38
- नानार्थार्णवसंक्षेप कद्रुपाकस्थानेऽथ कद्रुर्ना वर्णे पिङ्गलसंज्ञके । त्रि तु तद्वति भूमौ तु नागमातरि च स्त्रियाम् ॥ १७० ॥ Nānārthārṇavasaṃkṣepa 2.5.170
- नानार्थार्णवसंक्षेप पद्मगजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥ ७०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.702
- नानार्थार्णवसंक्षेप पाण्डुवर्णभेदे तद्वति तु त्रिः खर्जूरफले तु नप् । पातुः पुंसि विरिञ्चेऽन्यस्त्वाह रक्षितरि त्रिषु ॥ ७६५ ॥ Nānārthārṇavasaṃkṣepa 2.5.765
- नानार्थार्णवसंक्षेप भरुभ्रमिः स्त्री भ्रमणे धात्वोर्भ्रमतौ भ्राम्यतौ च ना । भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.888
- नानार्थार्णवसंक्षेप भृङ्गभृङ्गराजे परस्त्वाह भृङ्गारेऽन्यो लवङ्गके । अन्ये तु वर्णभेदे त्रिः पुनस्तद्वति नप् पुनः ॥ ९१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.917
- नानार्थार्णवसंक्षेप रामरामो दाशरथौ विष्णौ रतौ परशुरामके । बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1097
- नानार्थार्णवसंक्षेप शितिशिम्बी निष्पाववल्लीति शितं तु त्रिषु तेजिते । ना तु बाणे शितिस्तु स्त्री तेजने ना तु वर्णयोः ॥ १३६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1368
- नानार्थार्णवसंक्षेप अक्षरक्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसो क्रतौ । अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 4.6
- नानार्थार्णवसंक्षेप अरुषअरुषस्तु पुमान् सूर्येऽरोषे वर्णेऽपरे पुनः । रूपवत्याहुरश्वे तु द्वयोरुषसि तु स्त्रियाम् ॥ १०१ ॥ Nānārthārṇavasaṃkṣepa 4.101
- नानार्थार्णवसंक्षेप नकुलऋषिभेदे वर्णभेदे योः वर्णो नकुले स्थित । तद्वति त्रिरथो क्लीबं पुंस्यन्ये नमनं विदुः ॥ १००१ ॥ Nānārthārṇavasaṃkṣepa 4.1001
- नानार्थार्णवसंक्षेप व्यञ्जनअस्त्री हलसमाख्येषु वर्णेषु स्यादथास्त्रियाम् । वलयं कटके ना तु महोदर्याख्यमुस्तके ॥ १५९६ ॥ Nānārthārṇavasaṃkṣepa 4.1596
- नानार्थार्णवसंक्षेप किकिदीविउत्तरेऽनन्तरे वर्षे हेमकूटापराह्वये । किकिदीविस्तु ना वर्णे द्वे तु चापाह्वये खगे ॥ १७४ ॥ Nānārthārṇavasaṃkṣepa 6.174
- नानार्थार्णवसंक्षेप अभिनिष्टानअथ पञ्चाक्षरनरा अभिनिष्टान इत्यमुम् । विद्याद्विसर्जनीये च वर्णमात्रेऽप्यथोभयोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 7.1
- परमानन्दीयनाममाला खचन्द्रबिम्बे वर्णखण्डसंवित्स्वर्गसुखेषु च । खो रवौ कथितं गीते गं गस्तु गणनायके ॥ १२ ॥ Paramānandīyanāmamālā 1.12
- परमानन्दीयनाममाला अक्षरअनन्तस्तु हरौ शेषबलयोरक्षरं शिवे । परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥ Paramānandīyanāmamālā 5.1.21
- परमानन्दीयनाममाला अमृतरसायने यज्ञशेषे तोये हृद्ये च गोरसे । माक्षीकवर्णयोरन्ने सुधाकैवल्ययोरथ ॥ २८ ॥ Paramānandīyanāmamālā 5.1.28
- परमानन्दीयनाममाला कृष्णक्रोडः कोले शनावङ्के कृष्णो विष्णौ पिकेऽर्जुने । काके वर्णे तथा व्यासे कृष्णं मरिचलोहयोः ॥ ९० ॥ Paramānandīyanāmamālā 5.7.90
- परमानन्दीयनाममाला कालकन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता । कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥ Paramānandīyanāmamālā 5.7.95
- शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
- शब्दरत्नावली हरित्सुनृतं मङ्गले क्लीबं सत्यप्रियवचस्यपि । हरिद्दिशि स्त्रियामस्त्री तृणे ना हयवर्णयोः ॥ Śabdaratnāvalī 7.16.150
- शब्दरत्नावली कुथअथोऽर्थने च विषये धने वस्तुनि कारणे ॥ अभिधेये निवृत्तौ च कुशले च प्रयोजने । आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥ कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे । क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥ कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि । कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥ Śabdaratnāvalī 7.17.2
- शब्दरत्नावली अक्षरअजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले । अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥ Śabdaratnāvalī 7.27.55
- शब्दरत्नाकर कालकालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ Śabdaratnākara 4.1.1880
- शब्दरत्नाकर हरित्हरिदर्कहये वर्णे पुंसि स्यात् ककुभि स्त्रियाम् । हेतिः स्त्रीपुंसयोर्ज्वाले किरणायुधयोरपि ॥ २०३० ॥ Śabdaratnākara 4.1.2030
- शब्दरत्नाकर अक्षरअक्षरः पुरुषे ब्रह्मवर्णनिःश्रेयसेऽक्षरम् । आलोकौ दर्शनद्योतावाहवौ समराध्वरौ ॥ २०४३ ॥ Śabdaratnākara 4.1.2043
- शब्दरत्नाकर कर्बुरअस्त्री त्वह्नोऽष्टमे भागे कर्बुरः पुंसि राक्षसे । वर्णे च कर्बुरं हेम्नि करीरस्तु घटे पुमान् ॥ २०७६ ॥ Śabdaratnākara 4.1.2076
- शब्दरत्नाकर कपिलबकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः । कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥ Śabdaratnākara 4.1.2080
- शब्दरत्नाकर सारङ्गसारङ्गो हरिणो वर्णश्चातकः षट्पदोऽपि च । सैन्धवं लवणेऽश्वे ना सौवीरं काञ्चिकेऽञ्जने ॥ २१८३ ॥ Śabdaratnākara 4.1.2183
- शब्दरत्नाकर अएकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् । अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥ Śabdaratnākara 4.1.2240
- त्रिकाण्डशेष कृष्णकरणं पुसि सङ्कीर्णे कल्याणं काञ्चने शुभे । कृष्णो वर्णे हरौ व्यासे कृष्णं मरिचलोहयोः ॥ १२३ ॥ Trikāṇḍaśeṣa 3.3.123
- त्रिकाण्डशेष दर्शनदर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु । स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥ Trikāṇḍaśeṣa 3.3.243
- वैजयन्ती अक्षरअक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ । धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥ Vaijayantī 7.5.3