माला
mālāस्त्री · fem.In 21 kośas: 33 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.
नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५० ॥मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु ।मूर्ध्नि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderस्त्रीfem.
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
कञ्चुको वारवाणः स्यात्कूर्पासश्च निचोलकः ।स्रग्माला माल्यमाख्यातं केशमध्ये तु गर्भकः ॥ ५५२ ॥
अनुष्टुप्
genderस्त्रीfem.
माला-स्तबक-कराङ्गुलि-संज्ञा-सुरभेद-योजनक्रोशाः ।एते सलोकपालाः काव्ये योज्याश्चतुःसङ्ख्याः ॥ ११ ॥
आर्या
genderस्त्रीfem.
स्रक् स्त्रियां मालिका माला गर्भकः केशमध्यगम् ।प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललाम तत् ॥ २५३ ॥
अनुष्टुप्
genderस्त्रीfem.
मेला माला मेखला स्याद्रसाला लालया समा ।सुवर्चला सिध्मलाऽपि हेलया सर्वला समा ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
उपगीतिः
genderस्त्रीfem.
वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः ।[19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
[46b]स्पृक्का स्पृग्ब्राह्मणी देवी माला लङ्कोपिका मरुत् ।निर्माल्या कोटिवर्षा च पिशुना ललनाह्वया ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ।मालावान्मालिको माली मालभारी दधत्स्रजम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
काली जाली[226b] चिल्ली शूलावेला मेला दोला गोला ।शाला माला हेला लीलालोला झाला झुल्लिश्चालुः ॥ ७१ ॥
metre not recognised
genderस्त्रीfem.
एषां प्रयोगः पुंसि गदितः कथितः । राशिर्धान्यादीनाम् । पलाण्डुर्लसुनजातिः । कमण्डलुः काष्ठमयं जलपात्रम् । गडुः कुब्जम् । तूलः कार्पासादेः । मुहूर्त्तो द्वादशात्मकः । परशुर्वृक्षभेदी । शङ्कुः चिह्नं किलश्च । दृतिश्चर्म । अयं सीधुः सुरा । अयं कङ्कटो हस्तिकवचम् ।शालामालादोलावेलाफेलाशिलातुलालीला-सेनापालिबलिदद्रुवागुराश्च स्त्रियामुदिताः ॥ ३६ ॥
metre not recognised
genderस्त्रीfem.
भूषणाभरणं रुच्यं माल्यं मालागुणस्रजः ।मेखला रसना काञ्ची हेमपर्यायसूत्रकम् ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रामता गजतेल्यादिः स्वयं ज्ञेया धिया बुधैः ।श्रेणी रेखा तती राजी पङ्क्तिर्मलावलिः पुनः ॥ ३१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्म (wrong syllable)
genderस्त्रीfem.doubtful
स्रग्माला पुष्पदामापि माल्यं स्यान्मूर्धगं हि तत् ।ललामकं पुरोन्यस्तं शिखालम्बि तथा मतम् ॥ ३०२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिसीरा दशा भद्रा भस्त्रा छत्रा कशा कुशा ।यात्रा मात्रा बला माला दंष्ट्रा लीला च शङ्कुला ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
नाको जीवन्तिका माला चावरोधः फलोदयः ।नभो गुलूची दुर्वारा दूर्वा चिन्तितकामदा ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
मुक्तावली हारलता हारो माला प्रसूनस्रक् ।तरलो मध्यमाणिक्यं नायको हारभूपतिः ॥ १०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 न (wrong syllable)
genderस्त्रीfem.
माला स्रग्दाम माल्यं च स्नानं मज्जनमाप्लवः ।चार्चिक्यं समालम्भनमङ्गरागो विलेपनम् ॥ ५४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी ।सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
मूर्ध्नि माल्यञ्च माला च स्रक् तथा पुष्पदाम च ।तृतीयो मर्त्य विभागःकेशमध्यगतं माल्यं गर्भकं कथ्यते किल ॥ १०५५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
genderस्त्रीfem.
माला लङ्काबिका कोटिः कोटी लङ्काविका लती ।अनिर्माल्या च निर्माल्या वर्षा लङ्कोपिकेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
कण्ठीकाकश्च माला च कण्ठी च कण्ठिकेत्यपि ।दीनारोऽपि च निष्कोऽस्त्रीद्वयं हृदयभूषणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
गन्धमाल्यादिसंस्कारो यः स्यात्तदधिवासनम् ।माल्यं स्रक् मालिका माला मालाका मालकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
मालाम्लिकाऽर्थप्रयोगः कुसीदं बृद्धिजीविका ।अथ याचितकं तत् स्यात् याचना प्राप्तमेव वत् ॥
अनुष्टुप्
genderस्त्रीfem.
अचरे खटरा(?) माला स्याञ्चा(?) ताडी च केतकी ।अलाबूरपि कर्कन्धूरप्राणिन्यूङपि क्वचित् ॥अथ मुष्टिः पल्लवं वा यस्यां प्रहरणं भवेत् ।क्रीडायाणस्तद्धितोऽयं स्यान्यौष्टापाल्लवा स्त्रियाम् ॥
अनुष्टुप्
genderस्त्रीfem.
पुण्ड्र-वालधि-शृङ्गेषु भूषा-प्रभावयोरपि ।माल्यं माला, तिलके तमालपत्रं तमालवत् ॥ २१० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable); pāda 3, syllable 6 ल (wrong syllable)
genderस्त्रीfem.
शुकबर्हं बर्हिः पुष्पं पुष्पं स्पृकौषधौ पुनः ।कोटीवर्षा कोटिवर्षा कोटिर्माला मरुद्युता ॥ २२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्हं (syllables merged)
genderस्त्रीfem.
माल्यदाम्नी तु माला स्रक् केशमध्ये तु गर्भकः ।ललामकं पुरोन्यस्तं प्रालम्बमृजुलम्बि यत् ॥ ११५६ ॥
अनुष्टुप्
genderस्त्रीfem.
मुनिर्माल्यवती माला मोहना कुटिला लता ॥ ११९ ॥
genderस्त्रीfem.
कालानुसार्यं कालेयं जावकं चाप्यथ स्रजि ।मालांकिलिरथापीडे वतंसोत्तंसशेखराः ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
मालं क्षेत्रे जने मालो माला पुष्पादिनिर्मिता ।फालं स्यात्काशिका दीर्णं वस्त्रे बली तथा कुशी ? ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
meaningsपुष्पादिनिर्मिता
क्लीबे तु कांस्यस्य भवेच्च वाद्य-भाण्डे तथा स्याद्धरितालकेऽपि ।मालो जने चोन्नतभूतलेऽन्त्येस्त्रियां तु पुष्पस्रजि कीर्तितोऽयम् ॥ ६० ॥
उपजातिः
meaningsपुष्पस्रज्
माला स्त्री स्रजि मालस्तु मर्त्यजात्यन्तरे द्वयोः ।सूतीशूद्रोद्भवेऽत्रार्थे स्त्र्यर्थे मालीति जातिङीष् ॥ ९७५ ॥
अनुष्टुप्
meaningsस्रज्
माला as a meaning in nānārtha verses
- धरणिकोश माल्यमाल्यं सुमनसां माला माल्यं सुमनसोऽपि च । धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये ॥ Dharaṇikośa 25.2.17
- तन्त्राभिधान ऋएकपादः शिरो माला मण्डला शान्तिनी जलम् । कर्णः कामलभा मेदो निवृत्तिर्गणनायकः ॥ २४ ॥ Tantrābhidhāna 2.8.24