कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अथर्वन्

atharvanपुं · masc.

In 6 kośas: 2 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.249 · p. 15
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.34 · p. 442
स्वरपत्तनमुक्थं तदृक् सामयजुषी त्रयी ।तदुद्धृतिरथर्वा स्यादथैषां चरणक्रमः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.20 · p. 108
सुकर्मा ग्रहयोगेऽपि अथर्वा ब्राह्मणेऽपि च ।पलाशी राक्षसे वृक्षे कञ्चुक्यहिमहल्लयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.36 · p. 266
भूतात्मा वपुषि विधौ च संप्रदिष्टोविश्वप्सा हुतभुजि शीतभासि चोक्तः ।शृङ्गारी क्रमुकमतङ्गजे सुवेषेविप्रेन्द्रे धरणिसुरे तु पुंस्यथर्वा ॥ ३६ ॥
प्रहर्षिणी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.9 · p. 11
विवरे सीम्नि काले चाप्यथर्वा त्वृषिभेदके ।वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.10 · p. 11
अध्येतर्यङ्गिरास्तु स्यादृषिभेदे तथास्य च ।वश्येष्वङ्गिरसो भूम्नि शाकटायनदृक् पुनः ॥ १० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.104 · p. 243
अथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि ।अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च ।भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि ।आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके ।आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 शो (syllables merged)