कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्वाध्याय

svādhyāyaपुं · masc.

In 12 kośas: 17 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.82 · p. 7
नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ।देवताप्रणिधानं च करणं पुनरासनम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.249 · p. 15
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.676 · p. 34
देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥ ८४१ ॥संस्कारपूर्वं ग्रहणं स्यात्स्वाध्यायः पुनर्जपः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.85
स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.9 · p. 2
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.23 · p. 71
वेदाध्ययनकाले ये विप्रुषो मुखनिःसृताः ।स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.54 · p. 74
नवीनशिष्यपर्यायस्त्रिष्वेते विद्वदादिमाः ।गुणनं शीलनं घोषः स्वाध्यायो धर्मभाणकः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.169 · p. 87
अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ।नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.67 · p. 60
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.139 · p. 33
स्वाध्यायः पठनं पाठोऽधीतिरध्ययनं पठः ।जाप्यं जापो जपो मन्त्रे मानसे वचनेऽपि च ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.59 · p. 9
शौचं तथैव संतोषः स्वाध्यायोऽपि तपस्तथा ।देवताप्रणिधानं च पञ्चापि नियमाः मताः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.359 · p. 47
वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1404 · p. 221
स्वाध्यायश्च जपः प्रोक्तो वेदस्याऽध्ययने किल ।औपवस्तं चौपवस्त्रमुपवस्त्रं तथैव च ॥ १४०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.90 · p. 116
स्वाध्यायो जप इत्युक्तः वेदाध्ययनकर्मणि ।यज्ञस्नाने त्वषिसवः सुत्या सवनमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1192 · p. 146
उवावासस्त्वौपवस्त्रं ब्रह्मयज्ञादयस्तु ये ।एते पञ्च महायज्ञाः स्वाध्यायस्तु जपः श्रुतेः ॥ ११९२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.29 · p. 91
आक्षेपोऽत्याकारः स्वाध्यायः स्यान्निरन्तराभ्यासः ।हर्षस्वनः किलकिला सदृशस्यन्दस्तु निःस्यन्दः ॥ २९ ॥
metre not recognised
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.243 · p. 32
स्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा ।स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.243 · p. 32
स्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा ।स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.83 · p. 245
सिद्धान्ते शपथे काले स्वाध्यायो जपवेदयोः ।सारसो विहगे चन्द्रे हिमारिः पावके रवौ ॥ ८३ ॥
अनुष्टुप्

स्वाध्याय as a meaning in nānārtha verses

  • वैजयन्ती ब्रह्मन्अर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च । बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥ Vaijayantī 6.5.54