कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ब्राह्मण

brāhmaṇaपुं · masc.

In 23 kośas: 27 synonym verses, 7 as a nānārtha head word, 25 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.627 · p. 33
अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ ॥भूदेवो वाडवो विप्रो द्व्यग्राभ्यां जातिजन्मजाः ।वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ॥ ८१२ ॥वेदगर्भः शमीगर्भः सावित्रो मैत्त्र एतसः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.4
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः ।विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.391 · p. 46
ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः ।अग्रजन्मा द्विजन्मा च षट्कर्मा सोमपा द्विजः ॥ ३९१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.85 · p. 73
आन्वीक्षिकी तर्कविद्या निघण्टुर्नामशास्त्रकम् ।ब्राह्मणं चेत्यविच्छेदा एकग्रन्थ्यनुफक्किका ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.328 · p. 96
ब्राह्मणस्त्वग्रवर्णश्च विप्रो मन्त्रमुखोऽपि च ।क्षत्रियो बाहुजो राजा भूमीशश्च निगद्यते ॥ ३२८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 70 · p. 7
ब्राह्मणस्तनयाचार्यः परमन्युरितीर्यते ।राजा वसुन्धराकान्तः राकस्तु नरनिर्जरः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.2 · p. 27
ब्राह्मणो मुखजो विप्रो भूदेवो बाडवोऽग्रजः ॥ २ ॥
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.339 · p. 287
बहुमूलः स्थूलशरो दीर्घमूलोऽथ रञ्जनः ।मुञ्जो मुञ्जतृणाह्वः स्याद्ब्राह्मणस्ते जनाह्वयः ॥ ३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.80 · p. 470
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.81 · p. 63
ब्राह्मणोऽनुब्राह्मणी स्यादनुब्राह्मणिनी द्विजा ।एवं भवेदैतरेयी काश्यपी कौशिकी तथा ॥भवेद्वाजसनेयीति याज्ञवल्क्यसमार्थकः ।एवमाश्मरथाद्याः स्युस्तत्कल्पाध्येतृवेदिनोः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 232
आश्रमोऽस्त्री ब्राह्मणस्तु विप्र - भूदेव - वाडवाः ।द्विजो द्विजातिर्मुखजोऽग्रजन्मा चाग्रजातिवत् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.106 · p. 21
भूदेवो ब्राह्मणो विप्रो मुखजो वेदसंभवः ।अग्रजन्मा बाडबकः श्रेष्ठवर्णः कराग्निमान् ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.118 · p. 23
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.405 · p. 152
ब्राह्मणो वाडवो विप्रः सूत्रकण्ठस्त्रयीमुखः ।भूदेवो वर्णज्येष्ठश्च द्विजातिश्चाग्रजस्तथा ॥ ४०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ण (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.203 · p. 51
बीज्यः सभ्यः सज्जनश्च सत्कुलोत्पन्न इष्यते ।द्विजातिर्ब्राह्मणे प्रोक्तः षट्कर्मा तद्युते स्मृतः ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.60 · p. 5
सम्बन्धी सामरसिको मङ्गल्यो मङ्गलब्रुवः ।द्विजातिर्ब्राह्मणो विप्रो वाडवो भूसुरो द्विजः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.3 · p. 42
ब्राह्मणो मुखजो विप्रो गीर्वाणो वेदपालकः ।क्षेत्रज्ञो ब्रह्मकुलजो भूदेवो मुखवर्णजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.1 · p. 34
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.4 · p. 34
द्विजातिर्ब्राह्मणो विप्रो भूदेवो वाडवो द्विजः ।अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1350 · p. 214
भूदेवो ब्राह्मणो ब्रह्मा षट्कर्मा मुखसम्भवः ॥ १३५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.2 · p. 111
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.6 · p. 111
ब्राह्मणो विप्रभूदेवद्विजातिद्विजवाडवाः ।अग्रजन्मा सूत्रकण्ठो ज्येष्ठवर्णोऽग्रजातकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1170 · p. 144
चातुर्वर्ण्यं तु चत्वारो वर्णास्ते ब्राह्माणादयः ।ब्राह्मणो बाडवो विप्रः षट्कर्मा भूसुरो द्विजः ॥ ११७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ह्मा (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अ Tantrābhidhāna 2.2.8 · p. 5
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिः स्थिरं शिनी ।अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 7 · p. 46
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.1 · p. 83
ब्राह्मणो मुखजो विप्रो भूदेवो मैत्र एतशः ।अग्रजन्मा वेदगर्भो बाडबश्च त्रयीपुषः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.33 · p. 85
ब्राह्मणञ्चेत्यवच्छेदा एकग्रन्थस्तु फक्किका ।विध्यर्थवादमन्त्रास्तु खिलान्युपखिलानि च ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.45 · p. 200
ऋक्षभिद्यपि बलस्य मातरिब्राह्मणी भवति कञ्जिकाद्विजा ।स्पृक्किका नरि तु भूसुरेऽन्तिमेत्वीरिता श्रुतिभिदि द्विजव्रजे ॥ ४५ ॥
रथोद्धता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1242 · p. 156
बलेस्तु भोक्तरि त्रि स्याद् विप्रे तु ब्राह्मणो द्वयोः ।आत्मज्ञे च नपि त्वेतद् वेदभागेऽभिधायके ॥ १२४२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1243 · p. 156
तस्यावयवभेदे च भार्ङ्ग्यां तु ब्राह्मणी स्त्रियाम् ।हरेणुस्पृक्कयोश्चापि ब्रह्मरीत्याख्यलोहके ॥ १२४३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.53 · p. 211
ब्राह्मणः स्याद्द्विजे पुंसि फक्किकापृक्कयोः स्त्रियाम् ।स्याद्वेगभागके ब्रह्मसमूहे च नपुंसकम् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.135 · p. 137
मन्त्रान्यवेदे विप्रौघे क्लीबं ना ब्राह्मणो द्विजे ।लिङ्गाग्रेऽलिञ्जरे मौक्तिकादौ स्त्रीपुंसयोर्मणिः ॥ १३५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.60 · p. 261
फलकी चन्दने स्त्री न स्त्री दार्वासनचर्मणोः ।फेनिलं बदरे फेनयुक्तेऽथ ब्राह्मणो द्विजे ॥ ६० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.61 · p. 261
आत्मज्ञे क्ली तु विधिवद्वेदभागतदंशयोः ।बहुलः कृष्णपक्षेऽग्नौ पुमांस्त्रिष्वसिते बहौ ॥ ६१ ॥
अनुष्टुप्
doubtful

ब्राह्मण as a meaning in nānārtha verses