कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

नान्ताः · नपादः

॥ इति धान्तवर्गः ॥

॥ नपादः ॥

द्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः ।वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥
19.1.1 · p. 105
अनुष्टुप्
पानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः ।रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥
19.1.2 · p. 105
अनुष्टुप्
अन्नं भुक्ते च भक्ते च स्थानं ग्रामप्रयुक्तयोः ? ।कृत्स्नमम्भसि निःशेषे गानं गीते ध्वनावपि ॥
19.1.3 · p. 105
अनुष्टुप्
लग्नं राश्युदये चापि रास्नैलापर्णिकापि च ।श्येनौ विहंगमश्वेतौ विन्नौ लब्धविचारितौ ॥
19.1.4 · p. 105
अनुष्टुप्
इनः सूर्ये प्रभौ राज्ञि योनिः स्यादाकरे भगे ।हनिन्यूनौ [च?] गर्ह्यार्थौ सूनुः पुत्रेऽनुजेऽपि च ॥
19.1.5 · p. 105
अनुष्टुप्
मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ ।भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥
19.1.6 · p. 105
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 भृ (wrong syllable)
लक्ष्म चिह्ने प्रधाने च प्रेम स्निग्धत्वनर्मणोः ।सद्म जले गृहे च स्याद्वर्त्म नेत्रच्छदेऽध्वनि ॥
19.1.7 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
वृषा कर्णे महेन्द्रे स्यादर्वा च कुत्सिताश्वयोः ।वाजी हये खगे बाणे गोमी गोमानुपासकः ॥
19.1.8 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्वामिनौ गुरुभर्तारौ कृतिनौ योग्यपण्डितौ ।वज्री च सुगते शक्रे हलिनौ बलकर्षकौ ॥
19.1.9 · p. 106
अनुष्टुप्
रागी च कोपने रक्ते अलिनौ भृङ्गवृश्चिकौ ।शयनं सुरतं शय्या मैथुनं संगते रते ॥
19.1.10 · p. 106
अनुष्टुप्
दंशनं कवचे दंशे गहनं गह्वरे वने ।अवनं रक्षणे प्रीतौ निधनं कुलनाशयोः ॥
19.1.11 · p. 106
अनुष्टुप्
विज्ञानं कर्मणि ज्ञाने प्रज्ञानं बुद्धिचिह्नयोः ।वसनं छादने वस्त्रे रोदनं क्रन्दनेऽश्रुणि ॥
19.1.12 · p. 106
अनुष्टुप्
तोदनं व्यथने तोत्रे छदनं गरुतिच्छदे ।कठिनं कक्खटे स्थाल्यां बन्धनं वधबन्धयोः ॥
19.1.13 · p. 107
अनुष्टुप्
[54] सेवनं सीवनोपास्त्योर्वर्जनं त्यागहिंसयोः ।तलिनं विरले स्तोके सदनं भवने जले ॥
19.1.14 · p. 107
अनुष्टुप्
क्रन्दने रोदनाह्वाने मेहने मूत्रशेफसी ।लङ्घनं क्रमणे ग्लानौ गर्जनं ध्वनिकोपयोः ॥
19.1.15 · p. 107
अनुष्टुप्
दशनः कवचे दन्ते मदनो नीरपुष्पयोः ।अपानौ गुदतद्वातौ चाशनी वज्रविद्युतौ ॥
19.1.16 · p. 107
अनुष्टुप्
आपन्नः सापदि प्राप्ते विलग्नो मध्यलग्नयोः ।सेनान्यौ गुहसेनापौ कानीनो व्यासकर्णयोः ॥
19.1.17 · p. 107
अनुष्टुप्
शोभनो ग्रहयोगेऽपि वपनं मुण्डनेऽपि च ।कामिनी स्त्री स्वचित्रा?च वाहिनी सिन्धुसेनयोः ॥
19.1.18 · p. 107
अनुष्टुप्
ह्रादिनी वज्रतडितोर्वर्तिनी वृत्तिमार्गयोः ।द्विजन्मा विहगे विप्रे भूतात्मा धातृदेहयोः ॥
19.1.19 · p. 108
अनुष्टुप्
सुकर्मा ग्रहयोगेऽपि अथर्वा ब्राह्मणेऽपि च ।पलाशी राक्षसे वृक्षे कञ्चुक्यहिमहल्लयोः ॥
19.1.20 · p. 108
अनुष्टुप्
विलासी भोगिनि व्याले विषाणी गजशृङ्गिणोः ।कलापी कोकिले प्लक्षे शिखरी पर्वते तरौ ॥
19.1.21 · p. 108
अनुष्टुप्
प्रयोजनं कार्यहेत्वोरायोधनं रणे हतौ ।पृथग्जनौ नीचमूर्खौ आत्मयोनी विधिस्मरौ ॥
19.1.22 · p. 108
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
चित्रभानू रविर्वह्निः सामिधेनी च ऋक्समित् ।मातुलानी कलायेऽपि सरोजिन्यम्बुजेऽपि च ॥
19.1.23 · p. 108
अनुष्टुप्
महाधनं सुवस्त्रे च सामयोनिर्गजेऽपि च ।संप्रयोगी कामुके च व्योमचारी खरेऽपि च ॥
19.1.24 · p. 108
अनुष्टुप्