त्रयी
trayīस्त्री · fem.In 16 kośas: 22 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
गद्यपद्यमयी चम्पूः सरणी पद्यमात्रिका ।शृङ्गाराद्यधिकं काव्यं समासान्तन्तु दण्डकम् ।ऋग्यजुः सामयजुषि वेदास्ते तु त्रयस्त्रयी ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
अग्नित्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् ।रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् ।कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः ॥ २०७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वरपत्तनमुक्थं तदृक् सामयजुषी त्रयी ।तदुद्धृतिरथर्वा स्यादथैषां चरणक्रमः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋगृचाव(?)स्त्रियौ क्लीबे यजुः साम तु निर्ऋथः ।त्रयी स्त्रियां त्रिवेदीरि(?)त्रय्युद्धारस्त्वथर्वणि ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderस्त्रीfem.
स्युर्यस्य पञ्चावयवा द्वयी तु द्वितयी भवेत् ।त्रितयी तु त्रयी चाथोभयी चैकादशं पुनः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
वेदो वेदाः श्रुतिः प्रज्ञापौरुषेया त्रयी हविः ।ऋग्वेदे तु ऋगित्युक्ता ऋचा चापि ऋजा ऋजी ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋक् स्त्रियां सामयजुषी वेदास्त्रय इति त्रयी ।शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥
अनुष्टुप्
genderस्त्रीfem.
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋक् तु स्त्रियां यजुःसाम्नी इति वेदास्त्रयस्त्रयी ।ऋक् च साम च ऋक्सामं तथर्ग्यजुषमित्यपि ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रयी स्फुलिंगोऽपुञ्जो ना खड्गांगश्चाथ संज्वरः ।सन्तापः स्यात् प्रकाशस्तु द्योत आलोक आतपः ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
पाठे बिन्दुर्ब्रह्मबिन्दुर्ब्रह्मांजलिरिहांजलिः ।ऋक् स्त्री साम यजुश्चेति वेदास्ते तु त्रयस्त्रयी ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
अंदुको निगलो न स्त्री भिदुरं शृंखला त्रयी ।कलापकः कण्ठबन्धस्त्रिपदी पादबन्धनम् ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
असिप्लवोऽम्बुलूकी स्त्री वीरलस्तु महाझषः ।त्रयी तु कंबुः शंखोऽस्त्री सुग्रीवो मधुरस्वनः ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
वाट्यमण्डो यवैभृष्टैर्लाजमण्डोऽन्वितार्थकः ।तिलतण्डुलमाषैस्तु त्रिरसा कृसरा त्रयी ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
वीणादिवाद्ये क्ली ना तु पितरि त्रि तु विस्तृते ।व्याप्ते त्रयं तु त्रितये त्रिस्त्रिवेद्यां त्रयी स्त्रियाम् ॥ ५०५ ॥
अनुष्टुप्
meaningsत्रिवेदी
नप्स्त्री त्रयाणां वृन्दे स्यात् त्रसं तु त्रिषु जङ्गमे ।त्रसी तु स्त्री त्रासभेदे यस्मिन् सति दिशां भ्रमः ॥ ५०६ ॥
अनुष्टुप्
meaningsत्रयाणां वृन्द
त्रयी as a meaning in nānārtha verses
- कोषकल्पतरु मुण्डत्रय्यां मुण्डित ओषधौ तु वनिता मत्ते तु शौण्डोऽन्यवत् स्याच्चव्याकणयोः स्त्रियामथ शरे नीरे तरुस्कन्धके । स्तम्बे चावसरे रहस्यपि मितौ वर्गे च काण्डोऽस्त्रियां निन्द्ये च त्रिषु भाण्डमत्र वणिजां मूले धने भूषणे ॥ ७९ ॥ Koṣakalpataru 6.12.79
- कोषकल्पतरु पारायणत्रय्यामभीष्टेऽप्यथ पारगत्यां तथा समासङ्गबहुत्ववाच्यपि । पारायणं तत्र तुरायणं च मखान्तरे कामगुणस्तु रागे ॥ ५६ ॥ Koṣakalpataru 6.15.56
- कोषकल्पतरु वर्यतथार[36a]भट्यां मदने तु वर्यः पतिंवरायां तु भवेत्स्त्रियां सः । त्रय्यां वरेण्ये कमठे तु दम्भे गुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥ Koṣakalpataru 6.26.16
- नानार्थार्णवसंक्षेप वटीवटी रज्जौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत । अपूपभेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1187
- परमानन्दीयनाममाला त्रेतास्यन्दने घोटके तन्द्रा प्रमादस्वापयोरपि । त्रेता युगान्तरे वह्नित्रिके त्रय्यपि कथ्यते ॥ २२६ ॥ Paramānandīyanāmamālā 5.15.226
- वैजयन्ती जीवाज्ञातिभृत्या नवोढाया जन्याः स्निग्धा वरस्य च । जीवः प्राणे त्रयी ना तु जन्तावात्मनि गीष्पतौ ॥ ३३ ॥ Vaijayantī 6.5.33