इङ्गाल
iṅgālaपुं · masc.In 5 kośas: 6 synonym verses.
अङ्गारस्तु प्रशान्तार्चिरिङ्गालः कलिकाग्निविट् ।वीरचूर्णं तु भसितं निर्गुरुर्भस्म इत्यपि ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गारेङ्गालौ निर्वाणे कोकिलो लाहकोऽपि च ।भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
genderपुंmasc.
इङ्गालोऽप्यथ निर्वाणे कोकिलः सरसेऽरसे ।स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
दग्धः प्रज्वलितः प्लुष्टो हेतिर्ज्वालाशिखार्च्चिषः ।अङ्गारेङ्गालौ रक्षा तु भसितं भस्म भूतिवत् ॥ ११८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
genderपुंmasc.
तत्प्रशान्तार्चिरिङ्गालः कालिका चाग्निविट् सभे ।मेलामन्दो मषीपात्रमञ्जनं कज्जलं समे ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
दीप्ताग्रं काष्ठमुल्का स्यात्क्रमुकोऽलातमुल्मुकम् ।अंगारोऽस्त्री प्रशान्तार्चिरिंगालः कारिकाग्निविट् ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.doubtful