कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कोकिल

kokilaपुं · masc.

In 18 kośas: 21 synonym verses, 2 as a nānārtha head word, 22 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1322 · p. 50
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः ।कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ॥ १३२१ ॥आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः ।एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.19
वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.243 · p. 30
अन्यभृतः परपुष्टः कलकण्ठः कोकिलः पिकः प्रोक्तः ।कलविङ्कश्चटकः स्याद्गृहबलिभुक् नीलकण्ठश्च ॥ २४३ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.299 · p. 93
दरणो रजकश्चेति कोकिलः पिक इत्यपि ।वसन्तकर्णी मधुवान् कालकण्ठो वनप्रियः ॥ २९९ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 68 · p. 6
कोकिलः कलकण्ठः स्यात् पथिकानलभक्षकः ।मयूरे तु वलीकश्च कालज्ञः सुरनर्तकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.100 · p. 143
अङ्गारेङ्गालौ निर्वाणे कोकिलो लाहकोऽपि च ।भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.136 · p. 332
वसन्तदूतो वासन्तः कोकिलो मधुगायनः ।कुहूरवः परभृतः सुधाकण्ठो वनप्रियः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.16 · p. 365
अहीरणी चाथ पुनर्भाण्डपुष्टस्तु कोकिलः ।कन्दलान्तोऽथाश्वलाला स्त्रियां स ब्रह्मजिह्मगः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.22 · p. 379
इङ्गालोऽप्यथ निर्वाणे कोकिलः सरसेऽरसे ।स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 199
कोकिलः क[72a]लकण्ठः स्यान्मधुकण्ठः कुहूमुखः ।रसालगाली ताम्राक्षो ध्वाङ्क्षबन्धुश्च वाशरः ॥ ९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.223 · p. 80
मेचकश्चन्द्रकस्तुल्यौ कोकिलो वनवल्लभः ।काकपुष्टः पिककः कालकण्ठस्ताम्राक्ष इत्यपि ॥ २२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.372 · p. 26
काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ ।शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2391 · p. 385
कोकिलः कोकिला चैव कलकण्ठः कुनालिकः ।मधुकण्ठः सुधाकण्ठः काकपुष्टः कुहूमुखः ॥ २३९१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.49 · p. 85
कोकिलः कलकण्ठः स्यात् कुहूकण्ठः कूकूमुखः ।मधुकण्ठः काकपुच्छो घोषयित्नुर्वनप्रियः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 कू (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.62 · p. 141
अस्त्रियां कोकिलाङ्गारौ आलातालातमुल्मकम् ।भ्राष्टेऽम्बरीषं न क्लीबे कन्दुः स्यात् स्वेदनी स्त्रियाम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.349 · p. 247
बर्ही च बर्हिणः शिखावलः शिखी, पिके पुनः ।घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥ ३४९ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.798 · p. 101
किकीदिविः स्वर्णचूडश्चित्रवाजो विशोककः ।कोकिलस्तु कुहूकण्ठः कालकण्ठो वनप्रियः ॥ ७९८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.814 · p. 103
हारीतः कोकिलो लट्वा कपोतशुकशारिकाः ।जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1807 · p. 219
भद्रा मन्दा मृगाश्चेति त्रिविधा गजजातयः ।अर्वती च प्रसूस्तुल्ये रक्तदृष्टिस्तु कोकिलः ॥ १८०७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.69 · p. 13
सङ्किलो दहनोल्का स्यादङ्गारः कोकिलाज्झुलौं ।धूमोऽम्भसूर्मरुद्वाहखतमालशिखिध्वजाः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.26 · p. 28
पात्रं तु कुण्डृणाची स्त्री कण्ठपालस्तु वण्ञ्जुलः ।काकपुष्टस्त्वन्यभृतस्ताम्राक्षः कोकिलः पिकः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.591 · p. 98
किरातसम्बन्धिनि तु कैरातं त्रिरथ द्वयोः ।कोकिलः पक्षिभेदे स्यान्ना तु तूलेऽथ कोटिका ॥ ५९१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.20 · p. 240
कुटीरस्तु कुलीरेऽपि कुंभीलस्तस्करेऽपि च ।कपोतः पारावतेऽपि कोकिलस्तूल्मुकेऽपि च ॥ २० ॥
अनुष्टुप्

कोकिल as a meaning in nānārtha verses