कलिका
kalikāस्त्री · fem.In 19 kośas: 26 synonym verses, 6 as a meaning of another word.
genderस्त्रीfem.
genderस्त्रीfem.
पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः ।कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि ॥ १८६ ॥
आर्या
genderस्त्रीfem.
किसलः स्यात् किसलयः प्रवालप्रवलौ समौ ।कलिः कली च कलिका जालका जालिकापि च ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
अंशो भागो लवः प्रोक्तो लिप्ता च कलिका कला ।विलिप्तिका च विकला सदा बुधैर्निगद्यते ॥ ९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderस्त्रीfem.
अङ्गारस्तु प्रशान्तार्चिरिङ्गालः कलिकाग्निविट् ।वीरचूर्णं तु भसितं निर्गुरुर्भस्म इत्यपि ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कटुस्वादुफला द्वेधा ग्रामतः पविका तु सा ।मण्डपी कलिका शिम्बी कलिनी नखपूर्विका ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ ।कलिः कली उभे तद्वत् क्षारको जालिजालके ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
विषघ्नी नेत्ररोगघ्नी वृश्चिकाली विषाणिनी ।अलिपर्णी भूरिदुग्धा कलिका देवलाङ्गली ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
निबन्धनं तूपनाहः प्रवालो दण्डमस्त्रियाम् ।प्रसेवकस्तु ककुभः कलिका कूणिका स्त्रियौ ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादल्लूकेष्टकेषीकोल्कोर्मिका कुञ्जिकेन्धिका ।कनीनिका च कलिका कणिकापि च कूचिका ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसेवकः स्यात्ककुभो मूले वंशशलाकिका ।कलिका कूणिका चाथ मृदङ्गो मुरजः समौ ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
शिताग्रोऽप्यथ वृन्तं स्यात्क्लीबे प्रसवबन्धनम् ।कलिका जालकं क्लीबे क्षारकः कोरकोऽस्त्रियौ ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णाजाजी वर्षकाली मोचाटश्च सुगन्धकः ।कलिकृष्णोपकाली स्यात्कलिका कारवी च सा ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
सर्जिका बृहतिकेन्धकेष्टकाचाष्टका च कणिका पिपीलिका ।पादुका च कलिका च मानिकाकालिका च शिविका गवेधुका ॥ ३७ ॥
रथोद्धता
genderस्त्रीfem.
चाम्पेयः कुसुमारोग्यः कलिकागन्धफल्यपि ।स्यान्नागकेसरे नागः केसरो हेमकेसरः ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
तरङ्गो वीचिभङ्गोर्मिकलिका महति त्विह ।कल्लोलोल्लोललहरिभेदाश्चाब्धिकफे पुनः ॥ ३५३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसूनं सुमनःशब्दो भूम्नि चैव मतः स्त्रियाम् ।जालकक्षारकौ पुंसिः कोरकः कलिका स्त्रियाम् ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कविका कलिका खाली खलीनो मुखदामनि ।वालहस्ते वालधिश्च लाङ्गूले लोम कथ्यते ॥ ३०६ ॥
अनुष्टुप्
genderस्त्रीfem.
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यान्मूले कलिका वंशशलाका कूणिका तथा ।कालस्य क्रियया मानं तालः साम्यं लयः पुनः ॥ ४२२ ॥
अनुष्टुप्
genderस्त्रीfem.
कलिका कोरकं स्याच्च कुसुमकलिकार्थकः ।कुड्मलं मुकुलञ्चैतदऽर्धस्फुटितकोरके ॥ १९७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 सु (wrong syllable)
genderस्त्रीfem.
जालिका कोषिका जालं जालकं क्षारकोऽपि च ।कलिः कली च कलिका कोरकोऽङ्कुरितोन्मुखम् ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् ।कुसुमं कलिकायां तु कलिः स्यात्कोर-कौरकौ ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
पल्लवोऽस्त्री किसलयं प्रवालं पुंनपुंसकम् ।जालकं क्षारकः पुंसि कलिका कोरकोऽस्त्रियाम् ॥ ४४९ ॥
अनुष्टुप्
genderस्त्रीfem.
मकरन्दो मरन्दोऽस्य रसे जालं तु जालकम् ।कलिका कोरकश्चाथ कुट्मलो मुकुलोऽस्त्रियौ ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
कलिका as a meaning in nānārtha verses
- धरणिकोश कोरककोरकः कलिकायां स्यात्कक्कोलं कोरकं स्मृतम् । शस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥ Dharaṇikośa 1.2.28
- कोषकल्पतरु नवकलिकाचिलमीलिका तु कण्ठी- भेदे खद्योतविद्युत्सु । नवकलिका तु नवायां कलिकायां नूतनार्तवायां च ॥ ७० ॥ Koṣakalpataru 6.1.70
- कोषकल्पतरु कलियुगे चतुर्थे सुभटे स्त्रियां तु बुद्धैः प्रदिष्टः कलिकागतोऽयम् । धूलिस्तु संख्यान्तररेणुषु स्त्री दुलिर्मुनौ ना कमठस्त्रियां स्त्री ॥ ८८ ॥ Koṣakalpataru 6.28.88
- कोषकल्पतरु पेशीमांसस्य पिण्ड्यां कलिकेऽतिपक्वे Koṣakalpataru 6.30.13
- नानार्थार्णवसंक्षेप सम्पुटकलिकायां शवरुकेऽप्यथ सम्मर्श इत्ययम् । तर्के सम्मर्शने चाथ सन्देहः संशये तथा ॥ २३७ ॥ Nānārthārṇavasaṃkṣepa 3.2.237
- शब्दरत्नावली कलिकलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ । कलिः कलहशूराजिकलिकायुगभित्सु च ॥ Śabdaratnāvalī 7.28.5