कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भुवःस्कन्धः · भूस्थदेवप्रकाण्डः

इति अष्टादशप्रकाण्डः ।

धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः ।जुहुराणः शुष्म घासिर्हव्यवाड्दमुना वसुः ॥ १ ॥
2.2.1 · p. 376
अनुष्टुप्
सप्तार्चिः पावनो वह्निर्विश्वप्सा वायुवाहनः ।कृपीटयोनिः कुतपो रक्तवर्णस्तनूनपात् ॥ २ ॥
2.2.2 · p. 376
अनुष्टुप्
छागार्थवाहनार्थः स्याज्जातवेदा उषर्बुधः ।दूतो वैश्वानरो मन्त्रो दीधितिः स्वर्णसप्तयोः ॥ ३ ॥
2.2.3 · p. 377
अनुष्टुप्
बर्हिः शुष्मा कृष्णवर्त्त्मा स्वाहापतिविरोचनौ ।आश्रयाशो बृहद्भानुः शिखावान्भूनिकेतनः ॥ ४ ॥
2.2.4 · p. 377
अनुष्टुप्
हिरण्यरेताः कपिलो नाचिकेतो विभावसुः ।समित्पीथः शुचिपतिस्तमोवैर्याशुशुक्षणिः ॥ ५ ॥
2.2.5 · p. 377
अनुष्टुप्
क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् ।अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥
2.2.6 · p. 377
अनुष्टुप्
बर्हिः शुष्म उदर्चिः स्याद्बहुलो हव्यवाहनः ।अग्निहोत्रोऽग्निशुष्मा च बभ्रुः शुक्रश्च पावकः ॥ ७ ॥
2.2.7 · p. 377
अनुष्टुप्
आश्रयाशोऽप्याशयाशो हव्याशः शुचिराशिरः ।शोचिष्केशः शर्मागर्भो विश्वप्सश्च समन्तभुक् ॥ ८ ॥
2.2.8 · p. 377
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श (wrong syllable)
पर्परीको रोहिदश्वो वसुर्वायुसखो हरः ।उषर्भुद्बहलो हव्यः कृशानुर्जागृविर्यसुः ॥ ९ ॥
2.2.9 · p. 377
अनुष्टुप्
धूमध्वजश्छागरथो हुतार्थादशनार्थकः ।बलिदीप्तश्चोर्ध्वगतिर्दमूनाश्च विभावसुः ॥ १० ॥
2.2.10 · p. 377
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
द्युः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः ।तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥ ११ ॥
2.2.11 · p. 377
अनुष्टुप्
स्याद्भुवन्युश्च धमनश्छिदिरः सुशिरोऽपि च ।रीपिङ्गलश्चक्रवाडोऽदेवताडो वृषाकपिः ॥ १२ ॥
2.2.12 · p. 378
अनुष्टुप्
अग्निहोत्रो महावीरः पशुपर्यायतः पतिः ।जलेन्धनोऽब्धिकुक्ष्यग्निरौर्वश्च वडवानलः ॥ १३ ॥
2.2.13 · p. 378
अनुष्टुप्
संवर्त्तको वाडवः स्याद्वडवामुख इत्यपि ।वनवह्निर्दवो दावः स्कन्धाग्निः स्थूलकाष्ठधक् ॥ १४ ॥
2.2.14 · p. 378
अनुष्टुप्
छगणस्तु करीषोत्थश्छागलोऽथ तुषोद्भवे ।कुकूलः कूकलोऽपि स्यान्मुर्मुरोऽथ चितागते ॥ १५ ॥
2.2.15 · p. 378
अनुष्टुप्
क्रव्यादोऽथ तृणोद्भूते स्यात्तरत्सम इत्यपि ।ज्वलतः प्रोद्गतकणे स्यातां सुक्षरकुष्करे ॥ १६ ॥
2.2.16 · p. 378
अनुष्टुप्
त्रिषु स्फुलिङ्गो धूमस्तु वह्न्यर्थेभ्यो ध्वजार्थकः ।भम्भोऽम्भःसूर्मरुद्वाहः खतमालोऽस्त्रियां स्तरी ॥ १७ ॥
2.2.17 · p. 378
अनुष्टुप्
जीमूतवाही धूम्रो ना करमालः सुगन्धिनि ।अगर्वादिभवो धूपो घ्राणादीन्द्रियतर्पणः ॥ १८ ॥
2.2.18 · p. 378
अनुष्टुप्
धूमधारा धूमलता लंधूमो धूमजे मले ।यत्तृणादौ स्थिते तत्र धूमाङ्गोऽथ कला दश ॥ १९ ॥
2.2.19 · p. 378
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धू (wrong syllable)
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ २० ॥
2.2.20 · p. 378
अनुष्टुप्
अग्नेःप्रिया स्वधा स्वाहा स्तव्यग्नाय्यस्य रोहितः ।अश्वा विधूमे ज्वलिते काष्ठांशेऽङ्गार इत्यपि ॥ २१ ॥
2.2.21 · p. 379
अनुष्टुप्
इङ्गालोऽप्यथ निर्वाणे कोकिलः सरसेऽरसे ।स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥ २२ ॥
2.2.22 · p. 379
अनुष्टुप्
अग्न्युच्छिष्टं पुमान्क्षारः सामिज्वलितदारुणि ।अलातमुल्मुकं तुल्ये स्त्र्यर्चयो हेतयः शिखाः ॥ २३ ॥
2.2.23 · p. 379
अनुष्टुप्
अर्ची तद्वत्स्त्रियां क्लीबेऽप्यर्चि ज्वाला स्त्रियां पुमान् ।स्त्रियां महत्यां तस्यां तु झलक्का च भभक्कया ॥ २४ ॥
2.2.24 · p. 379
अनुष्टुप्
यालातसम्भवा सोल्काऽथाग्नेः स्वेच्छोद्भवाः कणाः ।त्रिषु स्युरथ संतापः संज्वरोऽथ जलादिकात् ॥ २५ ॥
2.2.25 · p. 379
अनुष्टुप्
प्रतप्तादुद्भवे पुंसि बाष्प ऊष्मश्च पुंस्ययम् ।कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके ।भूस्थदेवप्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥ २६ ॥
2.2.26 · p. 379
अनुष्टुप्