इरावती
irāvatīस्त्री · fem.In 4 kośas: 5 synonym verses, 3 as a nānārtha head word.
कर्पूरभूरुहे तु स्याद्वनश्चन्द्र इरावती ।केसरो वकुलो मध्यलालनः सिंहकेसरः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
इरावती तु खट्वाङ्गा गोधा गोधावतीत्यथ ।श्वेतान्या सा शिलाचक्रा शिलात्वक् सप्तनासिका ॥ ५४६ ॥
अनुष्टुप्
genderस्त्रीfem.
हिरण्यवर्णा कर्षूः स्यात्सरिज्जम्बालिनीत्यपि ।इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
अच्छोदा च पुनः शिप्रा गण्डकी विमलोदका ।देवव्रता तथैवान्या वितस्तेरावती शिवा ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
भीमा कृष्णा तुङ्गभद्रा दुग्धिनी च शरावती ।इरावती कर्मनाशा प्रणीताद्याश्च निम्नगाः ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
तिक्तालाब्वां पुनः स्त्री स्यादिरावांस्त्विरया युते ।भेद्यलिङ्गो नदीमात्रे पुनः स्त्री स्यादिरावती ॥ २३१ ॥
अनुष्टुप्
meaningsनदीमात्र
बाह्लीकदेशप्रथितनदीभेदेऽप्यथ स्त्रियाम् ।ईषिका हस्तिनो नेत्रकूटे स्याद्भेद्यवत् पुनः ॥ २३२ ॥
अनुष्टुप्
meaningsबाह्लीकदेशनदीभेद
doubtful
इरावती नदीमात्रे नदीभेदेऽप्यथोच्यते ।उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥
अनुष्टुप्
meaningsनदी