कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सरित्

saritस्त्री · fem.

In 18 kośas: 16 synonym verses, 1 as a nānārtha head word, 25 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1080 · p. 42
नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगास्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी ।कर्बुर्द्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर-स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ॥
अनुष्टुप्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 9 च (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.46
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.666 · p. 76
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।रोधो वप्रस्तु विज्ञेयो भिद्य उद्ध्यो नदः स्मृतः ॥ ६६६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.33 · p. 347
हिरण्यवर्णा कर्षूः स्यात्सरिज्जम्बालिनीत्यपि ।इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.53 · p. 104
सिन्धुः स्त्री ह्रदिनी धुनी च तटिनी जम्बालिनी वाहिनीकर्षूर्निर्झरिणी समुद्रगृहिणी शैवालिनी वार्वहा ।स्रो[67a]तस्वत्यपगा नदी जलधिगा स्यान्निम्नगाप्यापगाकुल्या द्वीपवती सरिद्गिरिभवा धेना च कूलंकषा ॥ ५३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
genderस्त्रीfem.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 24 · p. 12
स्रोतस्विनी धुनी सिन्धुः स्रवन्ती निम्नगाऽपगा ।नदी नदो द्विरेफश्च सरिन्नामा तरङ्गिणी ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.357 · p. 48
स्रोतस्विनी द्वीपवती तटिनी वाहिनी सरित् ।धुनी तरङ्गिणी कुल्या स्रोतो निर्झरिणी तथा ॥ ३५७ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.283 · p. 20
महाकल्लोल उल्लोलो जलावर्त्तोऽम्बुसम्भ्रमः ।नदी धुनी द्वीपवती निम्नगा तटिनी सरित् ॥ २८३ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.114 · p. 13
नदी तरङ्गिणी सिन्धुस्तटिनी निम्नगा धुनी ।श्रो[स्रो]तस्विनी शैवलिनी स्रवन्ती ह्रदिनी सरित् ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1882 · p. 307
शैवलिनी स्रवन्ती च समुद्रदयिता सरित् ।जलधिगाऽऽपगा कुल्या कूलङ्कषा च निम्नगा ॥ १८८२ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.108 · p. 43
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.8 · p. 308
नदी सरित् शैवलिनी वाणी गीर्गोश्च वागपि ।वीणा विपञ्ची दिक्ककुप् स्याद्भूर्भूमिरवणि क्षितिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.343 · p. 46
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.22 · p. 155
नदी स्रोतस्विनी कुल्या स्रवन्ती निम्नगा सरित् ।हिरण्यवर्णा गिरिजा रोधोवक्त्रा पयस्विनी ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.113 · p. 19
स्वसृशब्दः समाम्नातो भगिन्यामङ्गुलावपि ।सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिस्वरे ॥ ११३ ॥
अनुष्टुप्

सरित् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सिन्धुदेशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । Amarakośa 3.3.194
  • धरणिकोश सारणीसारणः स्याद्भद्रबला सारणी सरिदुच्यते । सारणं गन्धभेदं च प्राहू रावणमन्त्रिणम् ॥ Dharaṇikośa 14.3.23
  • धरणिकोश अवन्तीद्रवन्ती स्यादोषधिश्च विजाता सूतिकापि च । हसन्त्यङ्गारधानी च अवन्ती तु सरित्यपि ॥ Dharaṇikośa 15.1.21
  • कोषकल्पतरु सृदाकुकुठाकुर्दुराधर्षदुःशीलयोः स्या- द्विशेष्यायतः पक्षिभेदे तु पुंसि । सृदाकुर्दवाग्नौ समीरे शयाने सरिद्वाचकस्तु स्त्रियां **** ॥ २ ॥ Koṣakalpataru 6.1.2
  • कोषकल्पतरु सिन्धुकर्पूररात्रिंचरयोरथो ना सिन्धुर्नदेऽब्धौ वमथौ च देशे । नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो- स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥ Koṣakalpataru 6.20.65
  • कोषकल्पतरु धेनुसुप्तस्य विज्ञान उदीरितोऽथ श्रेष्ठे मणावप्युदितं च रत्नम् । द्रव्ये तु रस्नं चषके मचण्डे धेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥ Koṣakalpataru 6.21.92
  • कोषकल्पतरु पयस्विनीरात्रौ दोग्ध्र्यां सुरभौ पयस्विनी स्यात्तथा सरिति । पशुतृणभक्ष्यस्थाने गवादनी चेन्द्रवारुण्याम् ॥ ५३ ॥ Koṣakalpataru 6.21.53
  • कोषकल्पतरु जम्बूद्वीपे च मेरोः सरिति स्त्रियां तु क्ली[28a]बे तथा जाम्बवनामनि स्यात् । क[म्बिः] खजाकापि च वंशखण्डं तुम्बा तु लक्ष्म्यामपि तिक्ततुम्ब्याम् ॥ ३० ॥ Koṣakalpataru 6.24.30
  • कोषकल्पतरु कुल्यबल्यं तु रेतस्यथ भेद्यलिङ्गं कुल्यं तु न स्त्री मतमस्थिवाचि । शूर्पेऽष्टकद्रोणिगतं च मांसे पयःप्रणा[ली]सरितो नसि(?) स्त्री ॥ ३१ ॥ Koṣakalpataru 6.26.31
  • कोषकल्पतरु सन्ध्याव्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यः स्त्रियां लवल्यामवधौ तु सन्ध्या । चिन्ताप्रतिज्ञाकुसुमान्तरेषु पितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥ Koṣakalpataru 6.26.52
  • कोषकल्पतरु नीलञ्जसास्त्रियां मधुरसा नीलञ्जसा विद्युत्सरिद्भिदोः । अप्सरोभिदि हृष्टे तु प्रचेताः पश्चिमाधिपे ॥ २६ ॥ Koṣakalpataru 6.31.26
  • नानार्थार्णवसंक्षेप वेणिमुष्कवृद्ध्यात्मके वध्मसंज्ञे रोगान्तरेऽपि च । वेणिर्व्याधौ केशबन्धे जनन्यां च सरित्यपि ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 2.1.103
  • नानार्थार्णवसंक्षेप कुल्याकुण्डा तु जाते जारात् तु पतिवत्नीसुते द्वयोः । अविवाह्यासु जाते च कुल्या तु सरिति स्त्रियाम् ॥ २३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.237
  • नानार्थार्णवसंक्षेप मातृब्राह्म्याद्यासु च देवीषु वेषणीसरितोरपि । अकारादिकवर्णानामाम्नाये तारकासु च ॥ ९९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.996
  • नानार्थार्णवसंक्षेप वहाहिंसके वैजयन्त्याह वहस्तु नरि मारुते । स्कन्धदेशे गवाश्वादेर्वहा तु सरिति स्त्रियाम् ॥ ११७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1175
  • नानार्थार्णवसंक्षेप सृपाभवेत् सर्पिषि तैले वा ना तु चन्द्रे स्त्रियां पुनः । सृपा ह्युज्जयिनीपार्श्ववाहिन्यां सरिति स्मृता ॥ १५४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1549
  • शब्दरत्नावली रत्नरतञ्च सुरते गुह्ये रत्नः सरिति वर्त्मनि । रिक्तस्तु विपिने शून्ये निर्धने त्रिषु कीर्तितम् ॥ Śabdaratnāvalī 7.16.46
  • शब्दरत्नावली नदीअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
  • शब्दरत्नावली सिन्धुसिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् । सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥ Śabdaratnāvalī 7.19.20
  • शब्दरत्नावली शिफारेफो रवर्णे रागे च कुत्सितेऽपि च वाच्यवत् । शफं विटपिमूले स्याद्गवादीनां खुरेऽपि च । शिफा सरिज्जटामांसीजनयित्रीजटासु च ॥ Śabdaratnāvalī 7.22.3
  • शब्दरत्नावली कुल्यापुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे ॥ उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च ॥ कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् ॥ अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु ॥ गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे ॥ गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ Śabdaratnāvalī 7.26.11
  • शब्दरत्नाकर ढक्काडिम्भः प्लीह्नि खगापत्ये ढक्कावाघे सरित्यपि । धुतक्ष्णि तक्ष्णि च त्वष्टा तालस्तु नरके द्रुमे ॥ १९२८ ॥ Śabdaratnākara 4.1.1928
  • तन्त्राभिधान फवामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः । कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥ Tantrābhidhāna 6.39
  • त्रिकाण्डशेष सरस्वतीसरस्वती सरिद्गौश्च सूती वन्दिनि पारदे । स्मृतिः स्याद्धर्मशास्त्रेऽपि प्रवाहेऽपि च सन्ततिः ॥ १८९ ॥ Trikāṇḍaśeṣa 3.3.189
  • वैजयन्ती सरस्वतीश्रेयसी हस्तिपिप्पल्यामभयारास्नयोरपि । सरस्वती सरिद्भेदे सरिन्मात्रे गवि क्षितौ ॥ ३३ ॥ Vaijayantī 8.5.33