कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वन

vanaक्ली · neut.

In 23 kośas: 36 synonym verses, 8 as a nānārtha head word, 54 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1 · p. 42
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1 · p. 44
अरण्यमटवी सत्त्रं वार्क्षं च गहनं झषः ।कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥ १११० ॥दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.1
अटव्यरण्यं विपिनं गहनं काननं वनम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.210 · p. 26
अरण्यमटवी सत्त्रं कान्तारं काननं वनम् ।विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.648 · p. 74
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
खनिः खानिः खनी च स्यात् तुल्यौ द्वौ हीरहीरकौ ।अटवी(वि?)मटवीं प्राहुर्वनीमपि वनं तथा ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.13 · p. 23
कर्पूरभूरुहे तु स्याद्वनश्चन्द्र इरावती ।केसरो वकुलो मध्यलालनः सिंहकेसरः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.1 · p. 248
अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् ।क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.9 · p. 344
वनं पवित्रममृतं कंवलं कं कुलीनसम् ।पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.1 · p. 98
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 134
वनं कुब्रं च नीध्रं च गोत्रं च दुमलं च तत् ।ततं [लं] तल्कं दवो दावो झषः कक्षोऽटवी स्त्रियाम् ।प्रस्तारस्तु तृणाटव्यामरण्यानी महावनम् ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं चक्षुर्दृगम्बकमीक्षणादि ।जलपर्याय इदं जलं तोयं सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव ।जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया ।अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंल्लिङ्गे उक्ताः । यथाऽयं कुशः दर्भः । अयं कूबरो रथस्कन्धः । कुञ्जो गहनः । अङ्कुरो बीजप्रादुर्भावः । कुठारः परशुः । कुन्दः[न्द] पुष्पजातिः । कुतुपश्चर्मपात्रम् । एतानि नपुंसकानि जानीयात् । एवकारोऽवधारणे । इदं कुलं ब्राह्मणानाम् । कू[कु]लं नदीतटम् । कुङ्कुमं काश्मीरम् ।लोहमुखपर्णवनधनसञ्ज्ञाश्च नपुंसके प्रोक्ताः ।शीरार्थौ पुंस्युक्तावटवी तूक्ता स्त्रियामेव ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् ।राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् ।दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 13 · p. 6
विपिनं गहनं कक्षमरण्यं काननं वनम् ।कान्तारमटवी दुर्गम् तच्चरः स्याद्वनेचरः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 15 · p. 7
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.345 · p. 47
कीलालं यादसां वासः कुशं क्लीबे पयः पुनः ।दकोदके वनं क्षीरं भवनं कमलं समे ॥ ३४५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.19 · p. 54
वायुवर्गोऽयमाख्यातो विद्वदम्बुजभानुना ।वनं वार्क्षं झषः कक्षः कान्तारोऽरण्यकानने ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.27 · p. 125
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.148 · p. 11
विपिनं काननारण्ये गहनं गह्वरं वनम् ।आक्रीडो वातिकोद्यानमारामो राजकाननम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.110 · p. 12
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.139 · p. 15
संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् ।षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1854 · p. 303
वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् ।जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1947 · p. 320
वनं वार्क्षं दवो दावो विपिनं गहनं झषः ।अरण्यमटवी सत्रं कान्तारं काननं पुनः ॥ १९४७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.1 · p. 57
अरण्यमटवी दावो दवो गहनकाननम् ।अटविर्झाटगुहिनवनं विपिनभीरुकम् ।अरण्यानी महारण्यं गृहारामास्तु निष्कुटाः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.93 · p. 225
सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् ।जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.120 · p. 228
वातूलो वातुलो वातसमूहेऽथासहेऽपि च ।वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.318 · p. 43
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.435 · p. 58
काननं विपिनारण्यगहनानि वनं वनी ।अटवी दवदावौ च कान्तारं सत्रमित्यपि ॥ ४३५ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.55 · p. 40
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.59 · p. 60
जलं वारि वनं वा कं पाथस्तोयं रसोऽम्बु हृत् ।दशानां जलवर्णानां संज्ञोक्ता पूर्वसूरिभिः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात जलवर्णाः Tantrābhidhāna 9.4.1 · p. 60
जलं-ऋ, वारि-ॠ, वनं-औ, वाः-घ, कं-झ, पाथः-ढ, तोयं-ध, रसः-भ, अम्बु-व, हृत्-स
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.1 · p. 36
वार्क्षं वनं तलं तल्कं गुहिलं समजं त्रसम् ।लीलोद्यानं देवनं स्याद्वीथ्याली पङ्क्तिरावली ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.1 · p. 45
अटवी काटिकाऽरण्यं विपिनं काननं वनम् ।कक्ष्यकं कुन्दिलं वार्क्षं वनी गहनमित्यपि ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.2 · p. 154
पानीयं जीवनीयं कं जलमंबूदकं दकम् ।विषं पाथो घनपदं भुवनं जीवनं वनम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.126
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.1 · p. 105
द्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः ।वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.85 · p. 244
वनं तु कान्तारजल * * *[10b]निवासकप्रस्रवणेषु षण्ढे ।सुभूरिवृक्षाम्बुनि रौद्रदेश-काष्ठान्तकीटेष्वपि संप्रदिष्टम् ॥ ८५ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.55 · p. 37
स्त्रीपुंसादौ च संस्थाने शरीरे चिह्नशेफयोः ।प्रव्रज्यायामवयवे वेषेऽप्यथ वनं जले ॥ ५५ ॥
अनुष्टुप्
meaningsजल
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.56 · p. 38
कानने गहने यज्ञे धनप्रीतिगभस्तिषु ।वस्तु ग्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नान्ताः Śivakoṣa 16.4 · p. 23
वनं प्रस्रवणे नीरे वह्निश्चित्रेऽप्यरुष्करे ।
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.18 · p. 235
वनं नीरे निवासे स्यादालये विपिनेऽपि च ।वह्निः स्याच्चित्रकौषद्यां भवेद्वैश्वानरे पुमान् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.31 · p. 226
वर्चोऽर्चीरूपविड्भाः सु वनं भास्यप्सु कानने ।व्रतं विष्ण्वृतुवर्षेज्यातपोमासाग्निभुक्तिषु ॥ ३१ ॥
अनुष्टुप्

वन as a meaning in nānārtha verses