कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हिरण्यवर्णा

hiraṇyavarṇāस्त्री · fem.

In 6 kośas: 5 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1080 · p. 42
नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ ॥सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगास्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी ।कर्बुर्द्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर-स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ॥
अनुष्टुप्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 9 च (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.33 · p. 347
हिरण्यवर्णा कर्षूः स्यात्सरिज्जम्बालिनीत्यपि ।इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.359 · p. 49
वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना ।हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1884 · p. 307
ख्याता हिरण्यवर्णा वै तटिनी च तथैव हि ।एतन्नामानि मन्यन्ते नद्याश्च पण्डितैर्जनैः ॥ १८८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.22 · p. 155
नदी स्रोतस्विनी कुल्या स्रवन्ती निम्नगा सरित् ।हिरण्यवर्णा गिरिजा रोधोवक्त्रा पयस्विनी ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.115 · p. 103
स्त्रियां हरस्य त्वस्त्री स्याच्छेखरेऽथ स्त्रियामियम् ।हिरण्यवर्णा नद्यां स्याद् बहुव्रीहौ तु भेद्यवत् ॥ ११५ ॥
अनुष्टुप्
meaningsनदी