कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gīrvāṇabhāṣābhūṣaṇa

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa

204 verses · 1,626 words tagged · 466 marked doubtful (dashed)

भूम्यधिकारस्तृतीयस्तरङ्गः

इति हनूमदीये अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः ॥

तृतीयस्तरङ्गः ।

भूमिरुर्वी घनश्रोणी गिरिकर्णी मधूद्भवा ।अचला रत्नगर्भा च भूतधात्र्यब्धिमेखला ॥ १ ॥
3.1 · p. 22
अनुष्टुप्
धरा गोत्रा गोमती च धारिणी रुणात्मजा ।अगः शैलो दुर्गमश्च पर्वतः सानुमानपि ॥ ३ ॥
3.3 · p. 22
metre not recognisednearly अनुष्टुप्
अहार्यो गोत्रकुत्कीलः कुत्किलो भूतलोचनः ।बन्धकी फलिगः क्रुद्धः प्रपाद्यद्रिः शिलोच्चयः ॥ ४ ॥
3.4 · p. 22
अनुष्टुप्
डुंगरशिखरी वज्री निष्पक्षो बृहदीक्षणः ।पूर्वाद्रिरुदयाद्रौ स्यात् सुवेलश्चित्रशृङ्गलः ॥ ५ ॥
3.5 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
लोकालोकश्चक्रवालो लोकान्ताद्रिः परापरः ।लोकसालो वार्धिसेतुराद्यन्तरहितोऽपि च ॥ ६ ॥
3.6 · p. 22
अनुष्टुप्
मलयस्त्रिकलाषाढौ भद्राचल इतीर्यते ।श्रीखण्डाद्रिश्चन्दनाद्रिः पाटीराद्रिरितीर्यते ॥ ७ ॥
3.7 · p. 22
अनुष्टुप्
याम्याद्रिर्दक्षिणाद्रिश्च किशोरानिलपट्टणम् ।सर्पवासः शीतलाद्रिः सुगन्धाचल इत्यपि ॥ ८ ॥
3.8 · p. 22
अनुष्टुप्
विन्ध्यो महोन्नतश्चापि नताद्रिर्जलबालकः ।हिरण्यनाभो मैनाकः सुदारुः पारियात्रकः ॥ ९ ॥
3.9 · p. 22
अनुष्टुप्
रजताद्रिस्तु कैलासो हराद्रिरिति कथ्यते ।अङ्घ्रिपः पादपो वृक्षः कुजः शाखी वसुर्द्रुमः ॥ १० ॥
3.10 · p. 22
अनुष्टुप्
चूते वसन्ततिलकः कामाङ्कः कोकिलप्रियः ।पल्लवे तस्य सुरभिः पुण्डरीकन्तु तत्फले ॥ ११ ॥
3.11 · p. 23
अनुष्टुप्
चलपत्रः पिप्पले स्याच्छ्रीवृक्षः श्यामलोऽपि च ।सप्तपर्णे विशालत्वक् शारदः शर्वरीमुखः ॥ १२ ॥
3.12 · p. 23
अनुष्टुप्
कर्पूरभूरुहे तु स्याद्वनश्चन्द्र इरावती ।केसरो वकुलो मध्यलालनः सिंहकेसरः ॥ १३ ॥
3.13 · p. 23
अनुष्टुप्
मातुलुङ्गे तु रुचको वराम्लिः केसरी शरः ।बीजपूरे मातुलुङ्गो लुङ्गस्तु फलपूरकः ॥ १४ ॥
3.14 · p. 23
अनुष्टुप्
उदुम्बरे तु रुशकिः प्लक्षे तु गिरिलक्षणः ।शुभाङ्गः श्रीफलो बिल्वे पलाशे वसुपुष्पकः ॥ १५ ॥
3.15 · p. 23
अनुष्टुप्
जम्बूस्त्रिसारा विरुजा तत्फलं रक्तखण्डकम् ।चिञ्चा नारी कपिपुरोवृक्षाम्लं तत्फलं मतम् ॥ १६ ॥
3.16 · p. 23
अनुष्टुप्
गम्भीराख्या तु जम्बीरे नारङ्गे तक्रवासनः ।बदरी कुवरी कोकी भल्लातक्यग्निमुख्यपि ॥ १७ ॥
3.17 · p. 23
अनुष्टुप्
कृष्णपाकफलश्चोलः पनसो मधुवीजकः ।शिवा दृढा चामलिका हरीतक्यमृता जया ॥ १८ ॥
3.18 · p. 23
अनुष्टुप्
गैरेयकोद्रिः क्रमुकः कमुकः क्रूर आसवः ।घोण्टा तु पट्टिकाख्या स्यात्कुपुरं धुरिकेति च ॥ १९ ॥
3.19 · p. 23
अनुष्टुप्
तत्पाली कुहली ज्ञेया फलं तस्य तु पर्कटम् ।तच्छुष्कं खरमित्युक्तं चिक्कणं चलमीरितम् ॥ २० ॥
3.20 · p. 23
अनुष्टुप्
खण्डितं तु तदुद्वेगमवेलाचूर्णितं तु तत् ।अबला चर्व्यमाणस्य ताम्बूलस्य रसः स्मृतः ॥ २१ ॥
3.21 · p. 23
अनुष्टुप्
तृणराजस्तलस्तालः पत्रताली वराङ्गना ।महारसः स्यात्खर्जूरस्तस्मिन् खर्जूरकोऽल्पके ॥ २२ ॥
3.22 · p. 24
अनुष्टुप्
महामुनिः स्याद्रुद्राक्षे शिवाक्षेति निगद्यते ।श्रीखण्डो गन्धसारे स्याद्राजार्हमगुरुद्रुमे ॥ २३ ॥
3.23 · p. 24
अनुष्टुप्
कृतमाले सुवर्णः स्यादशोके कर्णपूरकः ।श्रीमान् सुगन्धस्तिलके कलस्तत्पुष्पसौरभम् ॥ २४ ॥
3.24 · p. 24
अनुष्टुप्
वृक्षोत्पलं कर्णिकारे पुन्नागे सुरवल्लभः ।चम्पके कमनीयः स्याद्गन्धफल्यस्य मञ्जरी ॥ २५ ॥
3.25 · p. 24
अनुष्टुप्
जपायां रुद्रपुष्पं स्याच्छिरीषे तु शुकप्रियः ।करवीरः शीतकुम्भो नन्द्यावर्तो नभोङ्गणः ॥ २६ ॥
3.26 · p. 24
अनुष्टुप्
मालती राजपुत्री स्यात्सुगन्धा नवमालिका ।मल्लिकायां विचकिलो मङ्गलं तस्य सौरभम् ॥ २७ ॥
3.27 · p. 24
अनुष्टुप्
मङ्गल्यं च वरारोहा कथ्यते देवमल्लिका ।निस्सङ्गा माधवी ज्ञेया गुञ्जचूडामणिस्तथा ॥ २८ ॥
3.28 · p. 24
अनुष्टुप्
एला लता चन्द्रबाला सूक्ष्मेला तूपकुम्भिका ।उर्वारौ ककरी भीरुः कूष्माण्डे तु नृपात्मजः ॥ २९ ॥
3.29 · p. 24
अनुष्टुप्
तत्फले कोहलं पुष्पं रामाङ्कोऽनुफलो लघुः ।तत्फले गुडबीजं स्यात्पटोले कर्कशः पटुः ॥ ३० ॥
3.30 · p. 24
अनुष्टुप्
दीर्घिका तच्छलाटुः स्यात्तत्फलं भ्रूणमित्यपि ।ज्योत्स्निको शतकी जाली शुषवी राजवल्लरी ॥ ३१ ॥
3.31 · p. 24
अनुष्टुप्
सायंसूता स्वर्णपुष्पा पार्षिका वेशवत्फला ।तत्फले भीरुकं भीरु तद्भेदे नरवञ्चका ॥ ३२ ॥
3.32 · p. 24
अनुष्टुप्
घृतकोशातकी योग्या सारसारा तुषारजा ।कारवल्ली कृमिघ्ना स्याद्बृहत्कर्कोटकोऽबलः ॥ ३३ ॥
3.33 · p. 25
अनुष्टुप्
अल्पाहरशकुटः कारः कारलिः परिकीर्तितः ।तुम्ब्यलाबूः पिण्डफला दीर्घतुम्बी तु दुग्धदा ॥ ३४ ॥
3.34 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पि (wrong syllable)
गोप्रिया तु गृहव्यापि तत्फले तु जलेशयम् ।गोतुम्बी तु गवाक्षी स्यादोष्ठी रक्ता तु बिम्बिका ॥ ३५ ॥
3.35 · p. 25
अनुष्टुप्
रसा चानन्दिनी द्राक्षा गोस्तनी रसपूरका ।वार्ताकी प्रसहा क्षुद्रवार्ताकी दुष्प्रधर्षणी ॥ ३६ ॥
3.36 · p. 25
अनुष्टुप्
निदिग्धिका कण्टकारी बृहती बहुबीजकः ।मारिषो जवशाकः स्यात्काण्डमारीष ओलकः ॥ ३७ ॥
3.37 · p. 25
अनुष्टुप्
राजशाको राजगिरिः काण्डशाकः प्रकीर्तितः ।देवमारीषको रक्तो मेघनादोऽल्पमारिषः ॥ ३८ ॥
3.38 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
चक्रवर्ती तु रुचिरा चक्रपत्ता जलप्रिया ।शुकशाकः पशुपतिश्चिञ्चलामरटीति च ॥ ३९ ॥
3.39 · p. 25
अनुष्टुप्
झिल्यां बाष्पः शाकिनी च करवन्दा महत्यसौ ।नानाजातीयशाकानां शाकी प्रोक्ता समाहृतिः ॥ ४० ॥
3.40 · p. 25
अनुष्टुप्