कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · एकारादयः

[ अथ ] एकारादयो यथा ।

एकोऽथ केवले पूज्य एनः पापापराधयोः ।एडमूकः शठे कर्णवाग्विवर्जित एव च ॥ ८० ॥
5.5.80 · p. 171
अनुष्टुप्
एककुण्डल आख्यातो रेवतीरमणे हरे ।किन्नराणामधीशेऽप्यैरावतः शक्रवारणे ॥ ८१ ॥
5.5.81 · p. 171
अनुष्टुप्
दिग्गजे नागरङ्गेऽप्यैरावतमृजुरोहिते ।ऐरावती तडिद्भेदे ओघः संघोपदेशयोः ॥ ८२ ॥
5.5.82 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 व (wrong syllable)