कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

तृतीयोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां द्वितीयोपदेशः ।

मेघोऽभ्रो जलदो दभ्रान् तडित्वान् जलली जली ।कमली कमलाः कन्दो घनश्चाथ घनाघनः ॥ ५२ ॥
3.52 · p. 70
अनुष्टुप्
धूमज्योतिस्वरूपश्च पुष्पवान् सर्वतोमुखः ।कादम्बिनी मेघमाला काली कृष्णनवाम्बुदः ॥ ५३ ॥
3.53 · p. 70
अनुष्टुप्
इन्द्रायुधं शक्रधनुस्तद्भेदे ऋजुरोहितम् ।चञ्चला चपला विद्युत् शतवार्ताऽनुकालिका ।कृष्णांशुः कणिका चम्पा तटिद्दीप्ता शतह्रदा ॥ ५४ ॥
3.54 · p. 70
अनुष्टुप्
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
3.55 · p. 70
अनुष्टुप्
वृष्टिर्वर्षं वर्षणं च शीकरस्त्वम्भसः कणः ।घनोपलस्तु करकः पुञ्जक्यामटवीति च ॥ ५६ ॥
3.56 · p. 70
अनुष्टुप्
पूषस्तु बिन्दुः पृषतस्तोकोद्र … धूसरः ।अनावृष्टिरवग्राहो मेघछन्नेऽह्नि दुर्दिनम् ॥ ५७ ॥
3.57 · p. 70
अनुष्टुप्metre not read in every line
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं तु परालेयं हिमानी हिमसंहतम् ॥ ५८ ॥
3.58 · p. 71
अनुष्टुप्