कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विद्युत्

vidyutस्त्री · fem.

In 22 kośas: 28 synonym verses, 4 as a nānārtha head word, 40 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.1105 · p. 43
तडिदैरावती विद्युच्चला शम्पाचिरप्रभा ॥ ११०४ ॥आकालिकी शतह्रदा चञ्चला चपलाशनिः ।सौदामनी क्षणिका च ह्रादिनी जलवालिका ॥ ११०५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ह्र (wrong syllable); pāda 3, syllable 6 णि (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.9
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.60 · p. 8
शम्पा चपला क्षणिका शतह्रदा ह्लादिनी तडिद्विद्युत् ।सौदामिन्यचिरांशुः प्राज्ञैरैरावती च विज्ञेया ॥ ६० ॥
गीतिः
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.54 · p. 70
इन्द्रायुधं शक्रधनुस्तद्भेदे ऋजुरोहितम् ।चञ्चला चपला विद्युत् शतवार्ताऽनुकालिका ।कृष्णांशुः कणिका चम्पा तटिद्दीप्ता शतह्रदा ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.191 · p. 83
करवीरकरा विद्युत् नागमागाहिगन्धिका ।शिला मनोभिधा कालनागजिह्वा च ताः समाः ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.154 · p. 396
शम्पा सौदामिनी विद्युच्चञ्चला च शतह्रदा ।सौदामनी च सौदाम्नी ह्रादिनी चाशनिर्द्वयोः ॥ १५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.11 · p. 27
genderस्त्रीfem.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.19 · p. 8
सौदामिनी तडिद्विद्युच्चञ्चच्चपलिका चला ।मेघनादे महागर्जा घनाघननिनादकः ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.34 · p. 12
रोचनी रञ्जनी हृद्या रसनेत्रा महारसा ।करवीरकरा विद्युन्नागजिह्वा मनोऽभिधा ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 19 · p. 9
आकालिकी क्षणरुचिर्विद्युत् तत्पतिरम्बुदः ।निर्घातमशनिर्वज्रमुल्काशब्दं च योजयेत् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.156 · p. 24
विद्युदैरावती सौदामिनी च जलवालिका ।शम्पाचिरप्रभा तुल्ये चपला चञ्चला तथा ॥ १५६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.315 · p. 22
विद्युत्सौदामिनी कृष्णस्वसा जलदवल्लिका ।महेन्द्रशस्त्रं कुलिशं शम्बो वज्रं पविस्वरुः ॥ ३१५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.14 · p. 37
तटित्सौदामनी विद्युत्कलावत्युन्नतप्रभा ।क्षणज्वालाग्रसुषमा केतकीसुमरञ्जना ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.88 · p. 10
जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः ।विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.71 · p. 11
असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः ।अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1935 · p. 318
विद्युत् तडित् तथा शम्पा सम्पा चलाऽचिरप्रभा ॥ १९३५ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.182 · p. 13
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.9 · p. 308
विद्युत्तडिच्च धीर्बुद्धिर्वल्ली नीरुदियाः स्त्रियाम् ।शिष्टप्रयोगात्पुंस्त्वे च लज्जायां व्रीड इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.115 · p. 227
अर्चिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया ।बाष्पे, तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.218 · p. 29
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.426 · p. 56
रञ्जनी रोचनी विद्युद्रसनेत्री विगन्धिका ।मनोगुप्ता च नेपाली करवीरा कला च सा ॥ ४२६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.657 · p. 84
आर्द्रकं शृङ्गिवेरं स्याच्छ्यामिका कालकेशिका ।विशल्या लाङ्गली विद्युद्रक्तपुष्पानलाङ्गिका ॥ ६५७ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.55 · p. 32
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.3 · p. 15
करका स्याद्धनकफो बीजोदकमिराचरम् ।मेघास्थिवर्षणन्तु स्याद्रोधृतञ्च परामृतम् ।सौदाम्नी त्वशनिविद्युदणुभा वाऽचिरद्युतिः ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश मेघाध्यायः Vaijayantī 2.2.3 · p. 25
इन्द्रायुधं त्विन्द्रधनुस्तद्दीर्घमृजु रोहितम् ।ऐरावतं च विद्युत्तु चञ्चला चपला चला ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.12 · p. 42
करवीरा कला विद्युन्नागमाता विगन्धिका ।शिला मनोऽभिधा काला नागजिह्वा च ताः समाः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.24 · p. 221
पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हयेना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् ।रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियांसंध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.97 · p. 18
मन्त्रेषु चाप्यथासत्यां विहगे च विहाध्वनिम् ।धनञ्जयो जगादाथ विद्युत् स्यात् क्षणरोचिषि ॥ ९७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.98 · p. 18
मनः शिलायां वीथी तु गृहाङ्गे पङ्क्तिमार्गयोः ।रूपकाणां तथैकस्मिन् वीरुत् तु स्थावरान्तरे ॥ ९८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1262 · p. 150
तडिति त्रिषु तु ज्ञेयं दीप्रे विष्टप् पुनः स्त्रियाम् ।दिवि पुंसि तु सूर्येऽथ वीरो ना शर्वशक्रयोः ॥ १२६२ ॥
अनुष्टुप्
doubtful

विद्युत् as a meaning in nānārtha verses