कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Pañcatattvaprakāśa

पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa

409 verses · 3,817 words tagged · 962 marked doubtful (dashed)

तेजोभानुः

इति पञ्चतत्त्वप्रकाशे जलभानुः प्रस्फूर्त्तिमगमत् ।

भानुः सूर्यो दिनपतिः सविता भास्करोंऽशुमान् ॥ ३०७ ॥
4.307 · p. 22
हेलिः प्रभाकरादित्यौ द्वादशात्मा नभोमणिः ।हरिः पतङ्गस्तरणिः सहस्रांशुर्विरोचनः ॥ ३०८ ॥
4.308 · p. 22
अनुष्टुप्
ग्लौरिन्दुरेणतिलको नीहारांशुर्निशापतिः ।चन्द्रः सुधांशुः शुक्लांशुरोषधीशो भनायकः ॥ ३०९ ॥
4.309 · p. 22
अनुष्टुप्
द्विजराजः पक्षजन्मा कुह्वन्तो? रोहिणीधवः ।वह्निरग्निर्वायुसखः कृष्णवर्त्मा तनूनपात् ॥ ३१० ॥
4.310 · p. 22
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्वा (wrong syllable)
धनञ्जयो वीतिहोत्रो धूमकेतुर्विभावसुः ।हिरण्यरेता हुतभुक् ज्वलनो हव्यवाहनः ॥ ३११ ॥
4.311 · p. 22
अनुष्टुप्
सन्तापः सञ्ज्वरस्तापो मण्डलं चक्रवालकम् ।विस्फुलिङ्गो वह्निकणो घर्मोष्मोष्मातपाहिमाः ॥ ३१३ ॥
4.313 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
अभ्यन्तरमन्तरालं परिधिः परिवेषकः ।तडित्शतहृदा शम्पा ह्रादिनी चञ्चलाऽल्पभा ॥ ३१४ ॥
4.314 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
विद्युत्सौदामिनी कृष्णस्वसा जलदवल्लिका ।महेन्द्रशस्त्रं कुलिशं शम्बो वज्रं पविस्वरुः ॥ ३१५ ॥
4.315 · p. 22
अनुष्टुप्
जटा ज्वालो गृहमणिः स्नेही दीपोऽञ्जनध्वजः ।वर्षाम्बुदं शक्रधनुश्चित्रं रुगृजुरोहितम् ॥ ३१६ ॥
4.316 · p. 22
अनुष्टुप्
गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः ।रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥
4.317 · p. 22
अनुष्टुप्
अर्कसूतेऽरुणोऽनूरुस्तार्क्ष्यभ्राताऽरुणद्युतिः ।कौमुदी चन्द्रिका ज्योत्स्ना कलङ्को लक्ष्मलाञ्छनम् ॥ ३१८ ॥
4.318 · p. 22
अनुष्टुप्
नक्षत्रं तारका तारा भमृक्षमुडुरत्निका ।मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥
4.319 · p. 22
अनुष्टुप्
ज्ञो बुधश्चन्द्रतनयो सौम्यो वैबोधनाह्वयः ।गुरुर्जीवः पीतवर्नो धिषणो देवतार्चितः ॥ ३२० ॥
4.320 · p. 22
अनुष्टुप्
काव्यो दैत्यगुरुः शुक्रः षोडशार्चिर्मघाभवः ।मन्दः शनैश्चरः क्रोडः पातङ्गिः क्रूरलोचनः ॥ ३२१ ॥
4.321 · p. 22
अनुष्टुप्
अहिर्विधुन्तुदो राहुः स्वर्भानुः सिंहिकासुतः ।अश्लेषाभू राहुशिरो ग्रहोल्का केतुराविकः ॥ ३२२ ॥
4.322 · p. 23
अनुष्टुप्
ग्रहाधारो ध्रुवो ज्योतीरथ उत्तानपादजः ।ज्योतिर्मुखी दीपशिखा दीपलेखा प्रदीपिका ॥ ३२३ ॥
4.323 · p. 23
अनुष्टुप्
दीपदारुणिका दीपयष्टिकाऽकरयष्टिका ।उत्पातमद्भुतं ज्वाला जालोल्केभ्रपिणचिका? ॥ ३२४ ॥
4.324 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ण (wrong syllable)
भूकम्पः पृथिवीबालो दिग्दाहो रिदुल्मुकः? ।सितो वलक्षो धवलः पाटलः श्वेतरक्तकः ॥ ३२५ ॥
4.325 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः ।अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥
4.326 · p. 23
अनुष्टुप्
हरित्पालाशहरितौ चित्रकल्माषाकर्बुराः ।
4.21 · p. 23