कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गृहमणि

gṛhamaṇiपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.451 · p. 29
अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६ ॥स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः ।
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 230
जटाज्वालो गृहमणिर्द्योतनोऽञ्जनकेतनः ।स्नेहप्रियोऽथास्य पात्रं कोशिका मल्लिका द्वयोः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.316 · p. 22
जटा ज्वालो गृहमणिः स्नेही दीपोऽञ्जनध्वजः ।वर्षाम्बुदं शक्रधनुश्चित्रं रुगृजुरोहितम् ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.73 · p. 26
दीपो गृहमणिर्ज्योतिः प्रदीपः कज्जलध्वजः ।आसनं विष्टरः पीठं भद्रासनं तदुत्तमम् ॥ ७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.903 · p. 174
स्नेहप्रियश्च कज्जलध्वजो गृहमणिस्तथा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ज्ज (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.416 · p. 109
शिखातरुर्गृहमणिर्ज्योत्स्नावृक्षो दशेन्धनः ।दोषा तिलको दोषास्यो नयनोत्सव इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.43 · p. 55
दशेन्धनो गृहमणिर्दोषातिलक इत्यपि ।शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.161 · p. 171
दीपवृक्षस्तदाधारो दशा वर्तिरथ स्त्रियाम् ।वर्तिर्गृहमणिर्दीपो गिरीयकगुडौ गिरिः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.210 · p. 44
दीप गृहमणिः पुंसि स्त्री गृहस्य मणावसौ ।पुमान् गृहपतिर्वह्वौ गार्हपत्याह्वये तथा ॥ २१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
meaningsदीप