काकचिञ्ची
kākaciñcīस्त्री · fem.In 6 kośas: 5 synonym verses, 3 as a meaning of another word.
चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला ।
अनुष्टुप्
genderस्त्रीfem.
शिखण्डिका रक्तिका च * * [काक]चिञ्ची च कृष्णला ।मसी काकादनी काकपीलुका काकनग्निका ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
गुञ्जा च कृष्णला काकचिञ्ची काकाचिञ्चिस्तथा ।काकचिञ्चा च नामानि गुञ्जायाः कथयन्ति वै ॥ २०७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 चि (wrong syllable)
genderस्त्रीfem.
कनीचिः कृष्णला गुञ्जा तुलाबीजन्तु चिञ्चिका ।काकचिञ्ची काकचिञ्चा काकाचिञ्चा तु सा स्मृता ॥
अनुष्टुप्
genderस्त्रीfem.
काकचिञ्ची तुलाबीजं खदिरो बालपत्रकः ।यूपद्रुः कुष्ठहृच्चाथ करञ्जो घृतपूर्णकः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
काकचिञ्ची as a meaning in nānārtha verses
- धरणिकोश गुञ्जागुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ । गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥ Dharaṇikośa 7.2.4
- कोषकल्पतरु वार्दरवार्दरं दक्षिणावर्तशङ्खाम्भसोः काकचिञ्ची नवे बीजके चान्तिमे । दुर्द्धरं दुःखतो धारणीयेऽन्यव- ज्जन्मयोगान्तरे स्त्री पुमान्सारके ॥ २४ ॥ Koṣakalpataru 6.27.24
- शब्दरत्नावली कक्ष्यातथा बृहतिकायाञ्च काकचिञ्च्यामपि स्त्रियाम् । काव्यः शुक्रे पुमान् ग्रन्थे क्लीबं स्त्री पूतनाधियोः ॥ Śabdaratnāvalī 7.26.8