कक्ष्या
kakṣyāस्त्री · fem.In 15 kośas: 23 synonym verses, 9 as a nānārtha head word, 3 as a meaning of another word.
कक्ष्या दूष्या वरत्रा स्यात्कण्ठबन्धः कलापकः ।
अनुष्टुप्
genderस्त्रीfem.
शृङ्खलो निगलोऽन्दूश्च कक्षा कक्ष्याऽपि वाल्हिके ॥ ११० ॥वाल्हीको वल्गवागे च खलिनं च खलीनवत् ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे ।
अनुष्टुप्
genderस्त्रीfem.
सज्जितः कल्पितो ज्ञेयो बहूनां घटना घटा ।चूषा कक्ष्या वरत्रा स्यादालानं स्तम्भ उच्यते ॥ २२१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री मेखला च रसना काञ्चिः कक्ष्या च कक्षया ।पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य षण् ॥ २६७ ॥
अनुष्टुप्
genderस्त्रीfem.
निषादिनां पादकर्म यातं वीतं नपुंसकम् ।कक्ष्या दूष्या वरत्रा स्यादूषा चूष्या कुथस्त्रिषु ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
दामाजनं पादपाशश्चर्मदण्डे कशा स्त्रियाम् ।पल्याणमपि पर्याणं बन्धे कक्ष्यास्य कक्षया ॥ २१६ ॥
अनुष्टुप्
genderस्त्रीfem.
उपकार्या तथा कुल्या कक्ष्या चित्या च छायया ।इष्मा नस्या च पर्याद्या पर्यागया च मायया ॥ २५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 4, syllable 3 ग (wrong syllable)
genderस्त्रीfem.
निषादिनां पादकर्म यतं [113a]वीतं तु तद्द्वयम् ।दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
छाया माया तथा पेया कक्ष्या दूष्यापि काम्यया ।क्षैरेयी ब्र[226a]ह्महत्या द्यौर्व्रज्या स्नायुश्च धान्यया ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मुखे पृषन्ति पद्मानि वमथुः करशीकरः ।चूला कक्ष्या वरत्रा स्यादङ्कुशोऽस्त्री शृणिः षणि ॥ १७५ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्कुशाग्रमपष्ठं स्यात्यातमङ्कुशवारणम् ।दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकः ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्या योग्या माया [पेया?] पर्या कक्ष्या संध्या रथ्या ।शम्या नश्या दूष्या कुल्या होरा योग्या ज्या मङ्गल्या ॥ ५३ ॥
metre not recognised
genderस्त्रीfem.
कक्ष्या दूया वरत्रा च चूष्याः स्याच्चर्मरज्जुका ।गजगले बन्धनं स्यात् कण्ठबन्धः कलापकः ॥ २२२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
genderस्त्रीfem.
हर्म्यादीनां प्रकोष्ठे तु कख्या कक्ष्या समीरिता ।सुधाभूमिः कुट्टिमोऽस्त्री मालभूमिश्च सा मता ॥
अनुष्टुप्
genderस्त्रीfem.
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
genderस्त्रीfem.
चूषा चूष्या वरत्रा स्यात् कक्ष्या बन्धनरज्जुषु ।कल्पना सज्जना चेति हस्तिसज्जीकृतौ द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
वीते वातं यतं चोक्ते, वरत्रायां सया पया ।कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥
अनुष्टुप्
genderस्त्रीfem.
जानुदेशस्त्ववस्कारः शुण्डायां स्रोत इत्यपि ।कक्ष्या चूडा(षा?) वरत्रा स्याद्धेनुका करिणी वशा ॥ ७०८ ॥
अनुष्टुप्
genderस्त्रीfem.
कक्ष्या तु चल्लणं कच्छः कौपीनं मलमूलकम् ।कञ्चुको वारवाणोऽस्त्री तद्भेदे कञ्चुली स्त्रियाम् ॥ ८८५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रणिपातः प्रणामः स्याद्दाक्षिण्यमनुकूलता ।कक्ष्या तुलायां कौसीद्यमालस्यं चयनं चयः ॥ १८५५ ॥
अनुष्टुप्
genderस्त्रीfem.
चूषा कक्ष्या वरत्रा स्यादंकुशोऽस्त्री सृणिर्न षण् ।अपष्ठं त्वंकुशस्याग्रं सूना दण्डोऽर्प्रितांकुशः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
कक्षः कच्छो गुह्यबन्धः कक्ष्या पृष्ठे कृतोऽञ्चलः ।वस्त्रान्तस्त्वञ्चलो वस्तिस्त्वक्ली भूम्नि दशा न षण् ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ १५८ ॥
अनुष्टुप्
कक्ष्या प्रकोष्ठे हर्म्यामदेः काञ्च्यां मध्येभबन्धने ।लक्ष्यं छद्मनि विख्यातं लक्ष्यं संख्याविशेषके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्यादुत्तरासङ्गगृहप्रकोष्ठ-काञ्चीषु कक्ष्या गजमध्यबन्धे ।कृत्यं तु कार्ये मतमप्रिये चतव्यादिषु स्त्री भिदि देवतायाः ॥ ५१ ॥
इन्द्रवज्रा
तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः ।कच्छाख्यगुह्यवस्त्रे च काञ्च्यां गेहप्रकोष्ठके ॥ १८ ॥
अनुष्टुप्
पार्श्वाद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि ।कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥
अनुष्टुप्
doubtful
उपायवचनेऽपि स्यात्त्रिषु मद्येऽपि च स्त्रियाम् ।कक्ष्या मध्ये कुम्भिवन्धे हर्म्यादीनां प्रकोष्ठके ॥
अनुष्टुप्
तथा बृहतिकायाञ्च काकचिञ्च्यामपि स्त्रियाम् ।काव्यः शुक्रे पुमान् ग्रन्थे क्लीबं स्त्री पूतनाधियोः ॥
अनुष्टुप्
doubtful
कक्ष्या कच्छे वरत्रायां कांच्यां गेहप्रकोष्ठके ।कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ ७ ॥
अनुष्टुप्
कक्ष्या as a meaning in nānārtha verses
- कोषकल्पतरु दूष्यास्त्री त्वामलक्यां [38b] मिथुने तु पुष्यो भे त्वामलक्यां गदितः स्त्रियां च । दूष्यं तु वस्त्रेऽपि च वस्त्रगेहे स्याद्दूषणीये परवत्स्त्रियां तु ॥ ४६ ॥ Koṣakalpataru 6.26.46
- कोषकल्पतरु शिखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
- नानार्थार्णवसंक्षेप हारास्त्री तु देवनिवासस्य हारा कक्ष्यासु सा पुनः । हारी नाम्नैव दुष्टायां कन्यायामथ स त्रिषु ॥ १५९० ॥ Nānārthārṇavasaṃkṣepa 2.5.1590