मसी
masīस्त्री · fem.In 10 kośas: 16 synonym verses, 2 as a meaning of another word.
मषिधानं मषिकूपी मलिनाम्बु मषी मसी ॥ ४८४ ॥
metre not recognised
genderस्त्रीfem.
होमधूमस्तु निगणो हवनी होमकुण्डकम् ।कालीमसी ध्रुवा धूम्रा लोहिता च स्फुलिङ्गिनी ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
मेलामसिर्द्वयोः पत्राञ्जनं स्याच्च मसी स्त्रियाम् ।स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
काण्डी करीरी खण्डाली कृपाणी कदली घटी ।कर्परी घर्घरी गोणी हसन्ती गृध्रसी मसी ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
अनङ्गलेखोऽथ मसी निशिश्च मिथुनमसि(?) ।मलिनाम्बुः काञ्चनिका मेला धातुपलः पुमान् ॥ २८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 न (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
genderस्त्रीfem.
शिखण्डिका रक्तिका च * * [काक]चिञ्ची च कृष्णला ।मसी काकादनी काकपीलुका काकनग्निका ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
स्नसावस्नसा-विस्रसा-वासि-भिस्सावृसी गृध्रसी छर्दिषा भाश्च नासा ।रसा वायसी रोदसी राक्षसी चप्रसूः पुल्कसी हिंसयाशीर्मसी च ॥ ७७ ॥
भुजङ्गप्रयातम्
genderस्त्रीfem.
लिपिकारवार्णिकौ च लिपिः स्याल्लिविरित्यपि ।मषीकूपी मषीधानं मष्याविलजलं मसी ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderस्त्रीfem.
वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः ।रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
लिपिरक्षरविन्यासः पङ्क्तिर्वर्णपरम्परा ।पत्राञ्जनं मसिर्मेला मसी कज्जलकन्यका ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
मसी मसिश्च मेला च मलिनाम्बु मषी मषिः ।
अनुष्टुप्
genderस्त्रीfem.
सा शुक्ला श्वेतसुरसा भूतवेशी च कीर्तिता ।अथ शेफालिकावृन्तं मसी मसिरिति द्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.
मेलानन्दा च मेलाम्बुर्मसिधानञ्च कुत्रचित् ।द्वयोर्मसिर्मसीमेला काली पत्राञ्जनाञ्जने ॥
अनुष्टुप्
genderस्त्रीfem.
वितण्डा काकिनी पिच्छाराजिका प्राचिका मिसी ।किङ्किनी संहतिर्लाक्षा जीविका च मसीदवत् (?) ॥दूषिका पञ्जिका हिक्का मन्या लाला पिपीलिका ।उल्काभङ्गिः सुरङ्गर्त्तिर्वृत्तिर्वर्त्तिः क्षुमा द्रुणु ॥
अनुष्टुप्
genderस्त्रीfem.
लिपिकरो लिविकरोऽक्षरन्यासे लिपिर्लिविः ।मषी-मस्यौ मलिनाऽप्सु कितवे त्रितयं स्मृतम् ॥ ९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 6 लि (wrong syllable)
genderस्त्रीfem.
वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ।सम्भोगो विप्रयोगश्च तद्भेदौ वर्णिका मसी ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
मसी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप मण्डलीरोचनाशम्यधःपुष्पीमसीशुक्लवचास्वपि । इत्येवमथ विज्ञेया शब्दज्ञैर्मण्डली त्रयी ॥ १३२३ ॥ Nānārthārṇavasaṃkṣepa 4.1323
- शब्दरत्नावली कालिकाकालिका शक्तिभेदेऽपि मसी वृश्चिकपत्रयोः । क्रमदेयवस्तुमूल्यभृङ्गीनवघनेषु च ॥ Śabdaratnāvalī 7.1.50