कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Trikāṇḍaśeṣa

त्रिकाण्डशेष Trikāṇḍaśeṣa

1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)

द्वितीयः काण्डः · वनौषधिवर्गः

इति शैलवर्गः ॥ ३ ॥

वार्क्षं वनं तलं तल्कं गुहिलं समजं त्रसम् ।लीलोद्यानं देवनं स्याद्वीथ्याली पङ्क्तिरावली ॥ १ ॥
2.4.1 · p. 36
अनुष्टुप्
वृक्षः कारस्करो गच्छः पलाशो विष्टरः स्थिरः ।चैत्यो देवतरुर्देवावासे करिभकुञ्जरौ ॥ २ ॥
2.4.2 · p. 36
अनुष्टुप्
छायातरुः स्थिरच्छायो वन्दा काकरुहा स्मृताः ।वनस्पतिर्निर्लुटः स्यात्फुल्लोन्निद्रविकस्वराः ॥ ३ ॥
2.4.3 · p. 36
अनुष्टुप्
स्मितोन्मुद्रौ किलिञ्जस्तु सूक्ष्मदार्वथ पल्लवः ।किशलं किसलं चाथोत्कलिकाङ्गारिते समे ॥ ४ ॥
2.4.4 · p. 36
अनुष्टुप्
गुच्छो गुलुच्छः क्षेपः स्याच्चमरी मञ्जरं न ना ।मञ्जिश्च गोन्दी गुन्दी च मकरन्दो मरन्दवत् ॥ ५ ॥
2.4.5 · p. 37
अनुष्टुप्
वेधकः कण्टके पत्रसूचिद्रुनखवङ्किलाः ।पिप्पलो वादरङ्गः स्याच्चैत्यद्रुः केशवालयः ॥ ६ ॥
2.4.6 · p. 37
अनुष्टुप्
यक्षोऽड्डम्बरकं त्वस्य फलेऽथ ग्रहनाशनः ।देववृक्षो दलेगन्धिः सप्तपर्णः शिरोरुजा ॥ ७ ॥
2.4.7 · p. 37
अनुष्टुप्
दन्तकर्षणजम्बीरौ कतकोम्बुप्रसादनः ।वरुणस्त्वऽश्मरीघ्नोऽथाध्वगभोग्यो मधुद्रुमः ॥ ८ ॥
2.4.8 · p. 37
अनुष्टुप्
कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी ।पिकबन्धुस्तु चूतः स्यात्स्त्रीप्रियः षट्पदातिथिः ॥ ९ ॥
2.4.9 · p. 37
अनुष्टुप्
मधुदूतो वसन्तद्रुर्महाकालोरुकालकौ ।शोभाञ्जनस्तु स्त्रीचित्तहारी विद्रधिनाशनः ॥ १० ॥
2.4.10 · p. 37
अनुष्टुप्
प्रभाञ्जनोऽथ प्राचीनपनसो गोहरीतकी ।महाकपित्थो बिल्वश्च कोलिर्गृध्रनखी स्मृता ॥ ११ ॥
2.4.11 · p. 37
अनुष्टुप्
स्यात्पिच्छलदला स्वादुफलाऽथो नागरङ्गकः ।चक्राधिवासी नारङ्गः किर्मीरस्त्वक्सुगन्धकः ॥ १२ ॥
2.4.12 · p. 38
अनुष्टुप्
स्याद्वर्मणः पिच्छिलत्वग्धवस्तु मधुरत्वचः ।पिशाचः पीतफलः शाकोटः कर्कशच्छदः ॥ १३ ॥
2.4.13 · p. 38
metre not recognisednearly अनुष्टुप्
अर्शोहितस्तु रक्षोघ्नो भल्लातक्यथ शाल्मली ।दुरारोहा स्मृता पिण्डीतगरः कफवर्धनः ॥ १४ ॥
2.4.14 · p. 38
अनुष्टुप्
काकचिञ्ची तुलाबीजं खदिरो बालपत्रकः ।यूपद्रुः कुष्ठहृच्चाथ करञ्जो घृतपूर्णकः ॥ १५ ॥
2.4.15 · p. 38
अनुष्टुप्
रसायनफला पथ्या शक्रसृष्टा सुधोद्भवा ।सरलो धूपवृक्षः स्याच्छोणको न्यङ्गुभूरुहः ॥ १६ ॥
2.4.16 · p. 38
अनुष्टुप्
चम्पकोषस्तु मुरजफलः स्यात्पनसश्च सः ।डहुः शुद्राम्लपनसो निचुलो रक्तमञ्जरः ॥ १७ ॥
2.4.17 · p. 38
अनुष्टुप्
निम्बोऽर्कपादपः पुण्यगन्धस्तु कुसुमाधिराट् ।चयको वरलब्धश्च वकुलः सिंहकेशरः ॥ १८ ॥
2.4.18 · p. 39
अनुष्टुप्
सीधुगन्धोऽथ कङ्कोलिर्नटः कान्ताङ्घ्रिदोहदः ।अशोकः पिण्डपुष्पस्तु दाडिमः फलशाडवः ॥ १९ ॥
2.4.19 · p. 39
अनुष्टुप्
दाडिम्बः पर्वरुट् च स्यात्स्वाद्वम्लः शुकवल्लभः ।पिण्डीरोऽथ सुवर्णेभनागाख्यो नागकेशरः ॥ २० ॥
2.4.20 · p. 39
अनुष्टुप्
स्यात्पुष्परोचनश्चाऽपि चूर्णं तस्य हरिद्रवः ।निशिपुष्पा तु शेफाली कुटजः पाण्डुरद्रुमः ॥ २१ ॥
2.4.21 · p. 39
अनुष्टुप्
लताशङ्कुतरुः शालो नीपो धाराकदम्बकः ।कटङ्कटेरी हरिद्रा शिंशपा युग्मपत्रिका ॥ २२ ॥
2.4.22 · p. 39
अनुष्टुप्
पटोले स्याद्राजफलं तस्य मूले तु रम्यकम् ।सूत्रपुष्पस्तु कार्पासे जीर्णपर्णं कदम्बकम् ॥ २३ ॥
2.4.23 · p. 39
अनुष्टुप्
प्रहसन्ती तु यूथीस्याद्वमनः पुष्पचामरः ।मालतीपुष्पकलिकां सौमनस्यायनीं विदुः ॥ २४ ॥
2.4.24 · p. 40
अनुष्टुप्
कुन्दे स्याद्वोरटः पुंसि ग्रैष्मी नु नवमालिका ।रक्तपिण्डस्त्वोड्रपुष्पः स्यादम्लानः कुरण्टकः ॥ २५ ॥
2.4.25 · p. 40
अनुष्टुप्
कन्दलशिलीन्ध्रपुष्पे श्लेष्मघ्ना त्रिपुरमल्लिका प्रोक्ता ।एरण्डहस्तिकर्णौ प्राचीनामलकवारिबदरे द्वे ॥ २६ ॥
2.4.26 · p. 40
गीतिः
बृहत्पाटलिधुस्तूरौ कदली त्वायतच्छदा ।स्यात्तन्तुविग्रहा मञ्जिफला वारणवल्लभा ॥ २७ ॥
2.4.27 · p. 40
अनुष्टुप्
वातिङ्गणस्तु वार्ताकुर्वार्ताकः शाकबिल्वकः ।क्लीबे वङ्गं च वार्त्ताकी स्यान्महाबृहतीत्यपि ॥ २८ ॥
2.4.28 · p. 40
अनुष्टुप्
कुष्ठं गदाह्वयं मूलं त्वस्य पुष्करमूलकम् ।वङ्गसेनस्त्वगस्तिद्रुः शुकनासो सुनिद्रुमः ॥ २९ ॥
2.4.29 · p. 40
अनुष्टुप्
अनलिः कुनली पुत्रञ्जीवस्तु श्लीपदापहः ।छत्त्रको मल्लिपत्रं स्यात्कुञ्जको वारिकण्टकः ॥ ३० ॥
2.4.30 · p. 41
अनुष्टुप्
वास्तूकष्टक्कदेशीयः शाकवीरो घनामलः ।शोथजिद्गरहा कालशाकोऽप्यथ महौषधी ॥ ३१ ॥
2.4.31 · p. 41
अनुष्टुप्
मही विषघ्नी चक्राङ्गी मत्स्याक्षी हिलमोचिका ।जलब्रह्मी च शालिञ्चे पत्तूरो लोहमारकः ॥ ३२ ॥
2.4.32 · p. 41
अनुष्टुप्
पेचुकं पेचुली पेचुर्नाडीचो विश्वरोचनः ।केशराजो नागमारः वपरुर्भृङ्गसोदरः ॥ ३३ ॥
2.4.33 · p. 41
अनुष्टुप्
सुनिषण्णं चुचुः पुंसि छत्रपत्रं तमालकम् ।स्थलपद्ममथो देवपल्ली मध्वालुकं विदुः ॥ ३४ ॥
2.4.34 · p. 41
अनुष्टुप्
फलपुच्छो वरण्डालुः स्याद्रङ्गेष्टालुकं तु यत् ।श्रीमस्तकः स्वस्तिकः स्याद्राहूच्छिष्टो रसोनकः ॥ ३५ ॥
2.4.35 · p. 41
अनुष्टुप्
कुष्माण्डस्तु घृणावासस्तिमिषो ग्राम्यकर्कटी ।वालुकी कर्कटी वारुर्मूत्रला रोमशा च सा ॥ ३६ ॥
2.4.36 · p. 42
अनुष्टुप्
स्याच्चेलानश्चित्रफलः सुखाशो राजतेनिशः ।लतापनसनाटाम्लौ सेटुरूर्ध्वासितस्तु यः ॥ ३७ ॥
2.4.37 · p. 42
अनुष्टुप्
परारुः कारवेल्लोऽसौ गोडुम्बा राजचिर्भटः ।मृत्युबीजस्तु वंशः स्यात्केतकः क्रकचच्छदः ॥ ३८ ॥
2.4.38 · p. 42
अनुष्टुप्
दृक्कटो बहुमूलः स्यात्करीरे वेणुकर्करः ।काशोऽश्ववालः काकेक्षुर्वनहासश्च जन्तुला ॥ ३९ ॥
2.4.39 · p. 42
अनुष्टुप्
गुडदारुर्मधुतृणं स्यादिक्षुरसिपत्रकः ।खारोदको नारिकेलः करकाम्भाः शिरःफलः ॥ ४० ॥
2.4.40 · p. 42
अनुष्टुप्
सुरञ्जनो गोपदलो राजतालश्छटाफलः ।करमट्टस्तन्तुसारो गुवाको कोट इत्यापि ॥ ४१ ॥
2.4.41 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
रामपूगस्तु कामीनो मुनिपूगः सुरेवटः ।पूगरोटस्तु हिन्तालः क्लीबं किरीटि तत्फलम् ॥ ४२ ॥
2.4.42 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)
घनामयः स्यात्खर्जूरो द्वौ तु काचिमभञ्जरू ।तरौ देवकुलोद्भूते दूर्वा तु हरितालिका ॥ ४३ ॥
2.4.43 · p. 43
अनुष्टुप्