कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

जान्ताः · जार्धश्लोकः

॥ जार्धश्लोकः ॥

द्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा ।अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥
7.2.1 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 णु (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
ध्वजः शेफसि चिह्ने च पताकायां च शौण्डिके ।वाजं पाथे मुनौ वाजो वाजो निस्वनपक्षयोः ॥
7.2.2 · p. 32
अनुष्टुप्
ऊर्जो बले तथोत्साहे ऊर्जो मासश्च कार्तिकः ।बीजं रेतसि हेतौ च बीजमङ्कुरकारणम् ॥
7.2.3 · p. 32
अनुष्टुप्
गुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ ।गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥
7.2.4 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
कुञ्जः स्यात्करिणां दन्ते हनौ कुञ्जः सुगन्धके ।अब्जो धन्वन्तरौ चन्द्रे स्यादब्जं शङ्खपद्मयोः ॥
7.2.5 · p. 33
अनुष्टुप्
वणिक्करणभेदे स्याद्वाणिज्ये तत्करेऽपि च ।करञ्जश्च करञ्जे स्यान्नेखे व्याघ्रनखेऽपि च ॥
7.2.6 · p. 33
अनुष्टुप्
सहजः सहजाते स्यान्निसर्गः सहजः स्मृतः ।काम्बोजाः कम्बोजभवाः काम्बोजी मासपर्णिका ॥
7.2.7 · p. 33
अनुष्टुप्
अङ्गजो मन्मथे पुत्रे अङ्गजं शोणितं विदुः ।अण्डजाः कृकलासादिसर्पमीनखगादिकाः ॥
7.2.8 · p. 33
अनुष्टुप्
यक्षराजः कुबेरः स्यान्मल्लानां रङ्गचत्वरे ।धर्मराड्धर्मराजाख्यो यमबुद्धयुधिष्ठिराः ॥
7.2.9 · p. 33
अनुष्टुप्
शरीरजो गदोऽनङ्गः पुत्रश्चापि शरीरजः ।भरद्वाजः स्मृतो धीरो मुनिपक्षिविशेष[20]योः ॥
7.2.10 · p. 33
अनुष्टुप्
भृङ्गराजस्तु विज्ञेय औषधीयज्ञभेदयोः ।भारद्वाजो मुनौ द्रोणे कार्पासे च प्रयुज्यते ॥
7.2.11 · p. 33
अनुष्टुप्
गिरिजा पार्वती ख्याता गिरिजं च सुगन्धिकम् ।गिरिजं चाभ्रकं प्रोक्तं गिरिजं च शिलाजतु ॥
7.2.12 · p. 34
अनुष्टुप्
वलजं गोपुरे क्षेत्रे सस्ये वलजमिष्यते ।वलजा च मही प्रोक्ता वलजा विधुदर्शना ॥
7.2.13 · p. 34
अनुष्टुप्