कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खदिर

khadiraपुं · masc.

In 15 kośas: 14 synonym verses, 5 as a nānārtha head word, 19 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.49
गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.44 · p. 12
खदिरो माहिषी दार्वी बिडौजाः सितकुञ्जरः ।प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.305 · p. 283
कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी ।खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.83 · p. 150
महाकालस्तु किंपाको बर्बरीकोपकालकौ ।खदिरो रक्तसारः स्यात्कु[32a]ष्ठघ्नो दन्तधावनः ॥ ८३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.44 · p. 13
बालपत्रे तिक्तसारः खदिरो दन्तधावनः ।तिलके पुलकः श्रीमान्सुगन्धो मुखमण्डनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.50 · p. 58
खदिरो रक्तसारः स्यात्सोमवल्कस्तु कामुकः ।अथ दारुहरिद्रा च हेमकान्ता निगद्यते ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.159 · p. 12
हयमारः शंभुपुष्पः[प] करवीरो जटाविषः ।सोमसारः कुष्ठरिपुः खदिरो व्रणपूरकः ॥ १५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.188 · p. 26
उग्रधन्वा जयो जिष्णुः पुरुहूतोऽप्परःपति ।खदिरोऽपि किणालातः खिदिरो मिहिरस्तथा ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.100 · p. 64
खदिरो बालतनयः कुष्टकुद्दालपत्रकम् ।यूपद्रुमः कृष्णसारो गायत्री दन्तधावनः ।हरिमदोऽरिमेदो विट्खदिरेऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.466 · p. 61
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ।गायत्री खदिरः शल्यः कुम्भाण्डो दन्तधावनः ॥ ४६६ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.57 · p. 11
प्राचीनबर्हिः खदिरः कपिलाश्वो वरक्रतुः ।प्राचीपतिस्तपस्तङ्कः पुलोमारिश्च माहिरः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.15 · p. 38
काकचिञ्ची तुलाबीजं खदिरो बालपत्रकः ।यूपद्रुः कुष्ठहृच्चाथ करञ्जो घृतपूर्णकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.6 · p. 9
आखण्डल उग्रधन्वा मेषाण्डोऽप्सरसां पतिः ।खदिरो माहिरो दाल्मिः शयीचिर्वियुनो जयः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.63 · p. 50
बालपत्रे तिक्तसारः खदिरो दन्तधावनः ।सिते तु तस्मिन् कदरः शल्यकश्च मरुन्धवः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.33 · p. 170
कवरी वर्वरी शाकं कवरी साधुकुन्तलः ।खदिरी शाकभेदे स्यात्खदिरो दन्तधावनः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.13 · p. 319
नल्यौषधौ स्त्री छिदिरस्तु वह्नौखड्गे कुठारे नरि रज्जुगोऽपि ।ना वालपत्रे खदिरः सुधांशौस्त्रियां तु शाकस्य विशेष एषः [54a] ॥ १३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.608 · p. 99
भेद्यलिङ्गं खले प्राह शब्दवित् खदिरः पुनः ।गायत्रीसंज्ञके वृक्ष ऋषिभेदे द्वयोः पुनः ॥ ६०८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.399 · p. 36
खर्जूरस्तु द्वयोः सिन्द्यां तालपत्र्यां तु सा स्त्रियाम् ।खदिरा शाकभेदे स्यात्खदिरो दन्तधावने ॥ ३९९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.70 · p. 271
खर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः ।खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥
अनुष्टुप्

खदिर as a meaning in nānārtha verses

  • धरणिकोश सोमवल्कसोमवल्कः कट्फले च धवले खदिरेऽपि च । कौलेयकः स्यात्कुलजः सारमेयश्च कथ्यते ॥ Dharaṇikośa 1.2.50
  • धरणिकोश कदरअपरं तु परार्थं स्यात्पश्चाद्गात्रे च दन्तिनाम् । कदरः क्षुद्ररोगे स्यात्कदरः खदिरे सिते ॥ Dharaṇikośa 26.2.31
  • कोषकल्पतरु सोमवल्कस्यात्सोमवल्कः खदिरे सितेऽपि प्रकीर्यके कट्फलकेऽपि तद्वत् । श्वेतातपत्रे सितवारि[259b]जे च तथौषधेऽन्त्ये किल पुण्डरीकम् ॥ ५५ ॥ Koṣakalpataru 6.1.55
  • नानार्थार्णवसंक्षेप गायत्रीग्रामीणा नीलिकानाम्न्यामोषधौ स्त्र्यथ भेद्यवत् । ग्राम्ये स्त्रियां तु गायत्री खदिराख्यद्रुमे स्त्रियाम् ॥ ६७२ ॥ Nānārthārṇavasaṃkṣepa 4.672
  • शिवकोष याज्ञिकयाज्ञिकः कुशपालाशखदिरे यावको निशि । अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥ Śivakoṣa 1.3.44
  • शिवकोष शालूकऊषरे च दृषद्भेदे शालूकः खदिरेऽरलौ । पिण्डीतकेऽपि शालूकं फलपद्मादिकन्दयोः ॥ ५२ ॥ Śivakoṣa 1.3.52
  • शिवकोष तिक्तशाकतिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । त्रिवस्तुकं गोक्षुरके त्रिफलायां कटुत्रिके ॥ ६१ ॥ Śivakoṣa 1.4.61
  • शिवकोष श्यामनीलीचपलासोमे श्यामोऽब्दे वृद्धदारके खदिरे । श्यामं तु काललवणे मारीचे भूस्तृणे कुम्भे ॥ ३३३ ॥ Śivakoṣa 20.1.333
  • शिवकोष पवित्रपवित्रः खदिरे दर्भे पत्तूरे लोहमारके । रक्तकाष्टेऽपि पङ्कारः शैवले जलकुब्जके ॥ ४०३ ॥ Śivakoṣa 22.3.403
  • शिवकोष रक्तसारमणिछिद्रा तु मेदायां भेदेऽपि ऋषभेऽपि च । रक्तसारस्तु पत्तङ्गे खदिरे रक्तचन्दने ॥ ४२९ ॥ Śivakoṣa 22.4.429
  • शिवकोष मरुद्भवमरुद्भवस्तु कर्पासे खदिरे च यवासके । मधुस्रवा धवश्रेणीजीवाहंसपदीषु च ॥ ५०९ ॥ Śivakoṣa 24.3.509
  • शब्दरत्नावली तिक्तशाकतिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । कटुत्रिके गोक्षुरके त्रिफलायां त्रिवर्णकम् ॥ Śabdaratnāvalī 7.1.174
  • शब्दरत्नावली काम्बोजीकाम्बोजः सोमवल्के स्यात् पुम्नागे च हयान्तरे । काम्बोजी खदिरे शुक्ले माषपर्ण्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.8.22
  • शब्दरत्नावली विटविटोऽद्रौ खदिरे षिङ्गे लवणे मूषिकेऽपि च ॥ Śabdaratnāvalī 7.11.27
  • शब्दरत्नावली दन्तधावनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
  • शब्दरत्नावली कदरउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59
  • त्रिकाण्डशेष तिक्तशाकतुरुष्कः सिह्लके देशे प्राण्यङ्गे त्रितये त्रिकम् । कूपाङ्गे स्त्री तिक्तशाकः खदिरे वरुणद्रुमे ॥ २६ ॥ Trikāṇḍaśeṣa 3.3.26
  • त्रिकाण्डशेष विटविटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च । पाञ्चलौहे श्रुतिकटः प्रायश्चित्तभुजङ्गयोः ॥ १०४ ॥ Trikāṇḍaśeṣa 3.3.104
  • त्रिकाण्डशेष गायत्रीगायत्री खदिरे स्त्री स्याच्छन्दस्यापि षडक्षरे । गुन्द्रस्तेजनके गुन्द्रा प्रियङ्ग्वां भद्रमुस्तके ॥ ३४६ ॥ Trikāṇḍaśeṣa 3.3.346