रक्तिका
raktikāस्त्री · fem.In 10 kośas: 7 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
रक्ता तु रक्तिका गुञ्जा शिखण्डी भिल्लभूषणा ।सौम्या चूडामणिः कृष्णचूडिका कृष्णलाऽरुणा ॥ ४३३ ॥
अनुष्टुप्
genderस्त्रीfem.
गुडेगिरी देवशाखा रामा स्यादथ भैरवी ।विलाडली गुर्जरी च कर्णाटी चापि रक्तिका ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
शिखण्डिका रक्तिका च * * [काक]चिञ्ची च कृष्णला ।मसी काकादनी काकपीलुका काकनग्निका ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
गुञ्जायां कृष्णला काकचिञ्चिका काकनिन्दिका ।काकादनी काकनखी रक्तिका काकनन्तिका ॥ २९२ ॥
अनुष्टुप्
genderस्त्रीfem.
गुञ्जा लताफलं किञ्चिद् रक्तिका सैव कथ्यते ।पञ्च गुञ्जाः माषकः स्यात् स्वर्णकारस्य तोलने ॥ १४८३ ॥
अनुष्टुप्
genderस्त्रीfem.
शार्ङ्गाष्ठा कृष्णला दक्षा जङ्घा तिक्ता च रक्तिका ।मधुस्रवा तु सा शुक्ला दहनाह्वस्तु चित्रकः ॥ ५८३ ॥
अनुष्टुप्
genderस्त्रीfem.
गुंजायां कृष्णला ताम्रा शार्ङ्गाष्ठा रक्तिका वरा ।चूडामणिः कपिक्रोडा कालावृन्ती परा नव ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ विद्याद्रक्तिका तु कृष्णलाख्यलतान्तरे ।स्त्रीलिङ्गा ना तु बन्धूके व्रूते म्लाने तु कश्चन ॥ १५०३ ॥
अनुष्टुप्
meaningsकृष्णलाख्यलतान्तर
रक्तिका as a meaning in nānārtha verses
- धरणिकोश वटीजटा लग्नकचे मूले मांसी च कर्करी जटा । वटी कपर्दके शुम्बे रक्तिकायां तरौ वटः ॥ Dharaṇikośa 10.2.7
- कोषकल्पतरु शिखण्डिनीबाणे शिखण्डी च तथा मयूरे गाङ्गेयशत्रौ गदितः कलापे । स्त्री यूथिकायामपि रक्तिकायां तथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥ Koṣakalpataru 6.21.41
- परमानन्दीयनाममाला काञ्चीकर्णोऽर्कजे श्रुतौ काञ्ची रक्तिका मेखला पुरी । काण्डो नालेऽधमे बाणे स्तम्बे वर्गे जलेऽपि च ॥ ९९ ॥ Paramānandīyanāmamālā 5.7.99
- शिवकोष काकाकाष्टोदुम्बरिका काकमाचिकारक्तिकास्वपि । टङ्कोऽस्त्री टङ्कणे नीलकपित्थेऽथ त्रिकः क्षुरे ॥ १० ॥ Śivakoṣa 1.2.10
- शिवकोष शीतपाकीवृषे तु ना शीतपाकी बलारक्तिकयोः स्त्रियाम् । सोमवल्कः कटुफले कदरे घृतपूरके ॥ ७० ॥ Śivakoṣa 1.4.70