कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किष्कुपर्वन्

kiṣkuparvanपुं · masc.

In 4 kośas: 1 synonym verse, 3 as a nānārtha head word, 4 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 184
गण्डी च गण्डकीवेणुनिःसृतो मृत्युपुष्पकः ।तृणराजः किष्कुपर्वा रसालो गुडदारु च ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.66 · p. 270
इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ ।वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥
metre not recognised
शिवकोष Śivakoṣa · शिवदत्तमिश्र नपं Śivakoṣa 16.3.282 · p. 26
किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च ।कुञ्जराशनशब्दस्तु शल्लक्यामपि पिप्पले ॥ २८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.133 · p. 246
धातुवादरते कांश्यकारे कारन्धमी पुमान् ।स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् ।अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः ।पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् ।यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)

किष्कुपर्वन् as a meaning in nānārtha verses

  • कोषकल्पतरु चोलकीकरिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे । मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः । चोलकी नागरङ्गे च करीरे किष्कुपर्वणि । नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥ Koṣakalpataru 6.1.18
  • नानार्थार्णवसंक्षेप चोलकिन्पुमांस्तु नागरङ्गे च करीरे किष्कुपर्वणि । चौरिको ना पुराध्यक्षे द्यूतकारे तु स द्वयोः ॥ ७५६ ॥ Nānārthārṇavasaṃkṣepa 4.756
  • शिवकोष चोलकीगवादनीन्द्रवारुण्यां शतपद्यां च तद्भिदि । चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ २७४ ॥ Śivakoṣa 16.2.274
  • शब्दरत्नावली चोलकिन्चित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् । चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि ॥ जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी । तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥ Śabdaratnāvalī 7.20.109