All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
नान्ताः · नच
कपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये ।कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥
16.2.272 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 प (wrong syllable)
केसरीपूरके नागकेसरे देववल्लभे ।क्रौञ्चादनस्तु चिञ्चुल्यां चिञ्चोटकमृणालयोः ॥ २७३ ॥
16.2.273 · p. 25
अनुष्टुप्
गवादनीन्द्रवारुण्यां शतपद्यां च तद्भिदि ।चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ २७४ ॥
16.2.274 · p. 25
अनुष्टुप्
तपस्विनी जटामांस्यां रोहिण्यां च पलाशिनी ।पद्मिन्यां गन्धमूलायां द्रुमात्रे ना प्रचोदनी ॥ २७५ ॥
16.2.275 · p. 25
अनुष्टुप्
दुरालम्भाकण्टकार्योर्मातुलानी महाशणे ।भङ्गायां काकजङ्घायां गोलोम्यां च रसायनम् ॥ २७६ ॥
16.2.276 · p. 25
अनुष्टुप्
घोले धात्र्यां जराव्याधिहरे विषविङ्गयोः ।राजादनं तु धनुषि क्षीरिण्यां किंशुकेऽस्त्रियाम् ॥ २७७ ॥
16.2.277 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
राजपत्नी रेणुकायां पित्तले राजसर्षपे ।वृक्षादनं मधुच्छत्रे क्लीबे पुंसि गजाशने ॥ २७८ ॥
16.2.278 · p. 26
अनुष्टुप्
वृक्षादनी वृक्षवृन्दाविदारीकन्दयोः स्त्रियाम् ।शिखरी तु पुमान् घण्टापाटलौ च मयूरके ॥ २७९ ॥
16.2.279 · p. 26
अनुष्टुप्
शिखण्डिनी यूथिकायां काकणन्त्यां च योषिति ।श्रीकेतनं तु कनके पुष्पमात्रे सरोरुहे ॥ २८० ॥
16.2.280 · p. 26
अनुष्टुप्
अथ श्लेष्मघना मल्ल्यां केतक्यामपि चेष्यते ।सरोजिनी तु पद्मिन्यां सरोजे वंशरोचने ॥ २८१ ॥
16.2.281 · p. 26
अनुष्टुप्