कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इक्षु

ikṣuपुं · masc.

In 21 kośas: 27 synonym verses, 24 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.7 · p. 42
लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.130 · p. 46
वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्त्रकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.163
रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.257 · p. 89
स्त्रीभूषणं रजःपुष्पं तप्तरागं निगद्यते ।दूर्वा … सहवीर्या तु शतवीर्या तु सा सिता ।इक्षुः कान्तारकश्च स्याद्दर्भे तु स्यात्परित्रकः ॥ २५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 दू (syllables merged)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 32 · p. 3
स्यादिक्षुः खड्गपत्रश्च तत्सारे चन्द्रमारुतम् ।अनन्तकुसुमो वेणुः केतकी तु रजस्वला ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.584 · p. 314
अपि स्याद्बहुपत्री च मृतसंजीवनी शुनी ।इक्षुर्मधुगुडतृणोऽसिपत्रः कुसुमाकरः ॥ ५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 धु (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 184
[60b]वैदेही क्षीरिका वांशी वंशकृद्वंशलोचना ।कम्बिः कुशा वंशखण्डे पत्राल्यां युगुले किटी ॥गुडे साधुर्य इक्षुः स्याद्गौडिकः स विशेष्यवत् ।स्याद्वांशभारिकश्चैक्षुभारिकस्तस्य वोढरि ॥इक्षुर्मधुतृणो भूरिरसः स्यादसिपत्रकः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 185
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderपुंmasc.
एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च ।
metre not recogniseddoubled daṇḍa: ॥।
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.373 · p. 199
उलपे बल्वजा वालः केशी दृढलताऽपि च ।इक्षौ रसालो गण्डीरी गण्डकी खड्गपत्रकः ॥ ३७३ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.67 · p. 16
ताल्यां दृढदला ताली पत्रताली वराङ्गना ।इक्षुः पुष्यो मधुतृणः खड्गपत्रो महारसः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.112 · p. 66
धमनः कुरुविन्दोऽपि मुद्रा गुद्रा तथोच्यते ।असिपत्रस्तथेक्षुः स्याद्रसालस्तद्भिदा यथा ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.197 · p. 14
शतावरी सूक्ष्मपत्रा बहुमूला महौदनी ।शरपत्रो दीर्घशर इक्षुः पर्वी मधुद्रवः ॥ १९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दी (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.125 · p. 46
लवणक्षीरदध्याज्यसुरेक्षुस्वादुसागराः ।भारताख्यं किंपुरुषं हरिवर्षमिलावृतम् ।रम्यकाख्यं पञ्चमकं खण्डं षष्ठं हिरण्मयम् ॥ १२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable); pāda 3, syllable 5 प (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.275 · p. 354
अथेक्षुः स्याद्रसालश्च प्रख्यातोऽप्यसिपत्रकः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2164 · p. 355
इक्षुवंशतृणेत्यादिः पर्वयोनिज उच्यते ।सल्लकी वटवृक्षादिः स्कन्धजेषु विभाज्यताम् ॥ २१६४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.32 · p. 48
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैरमी ।समुद्राः सप्त विख्याताः सप्तद्वीपसमावृताः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.304 · p. 79
अस्त्री काशः पोटगलो दर्भश्चामरपुष्पकम् ।ईषिका चेक्षुगन्धा च काशको वनहासकः ॥वारणीकास्तु वनजा पुंसि भूभ्रि तु वल्वजाः ।इक्षुर्मधुर्मधुतृणं गुडदारुगुडतृणम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ड (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.150 · p. 20
शुक्तिरिक्षुश्च मुक्तानां नवैते जन्मभूमयः ।वज्राद्यश्मसु मुक्तादावपि रत्नं मणिर्द्वयोः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.317 · p. 43
लवणेक्षुसुरासर्पिर्दधिक्षीरोदकात्मकाः ॥ ३१७ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.663 · p. 85
खर्जूरः केतकी पूगो हिन्तालो नालिकेरकः ।तृणवृक्षाः प्रियालः स्यादिक्षुः खड्गदलो मधुः ॥ ६६३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1469 · p. 177
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.5 · p. 30
द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः ।लवणेक्षुसुरासर्पदधिदुग्धपयोमयाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.40 · p. 42
गुडदारुर्मधुतृणं स्यादिक्षुरसिपत्रकः ।खारोदको नारिकेलः करकाम्भाः शिरःफलः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 31 · p. 49
इक्षुर्मधुतृणं स्मृतम् ॥ ३१ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.225 · p. 63
सवेणवस्ते त्वक्सारास्तृणानीक्षुथवादयः ।इक्षुर्वृष्यो मधुतृणो मृत्युपुष्पो महारसः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.

इक्षु as a meaning in nānārtha verses