कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुम्भयोनि

kumbhayoniपुं · masc.

In 7 kośas: 5 synonym verses, 3 as a nānārtha head word, 3 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.581 · p. 314
प्रतिपर्णशिफा चापि सहस्रादपि मूलिका ।द्रोणपुष्पी दीर्घदला कुम्भयोनिः कुरुम्बिका ॥ ५८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.78 · p. 157
शिवमल्ली चाथ कुम्भयोनिर्मधुरशिग्रुकः ।यतिर्मुनिद्रुमो वङ्गसेनश्चातुर्थिकापहः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 161
अन्यो देवकदम्बः स्यात्त्र्यहा द्रोणाथ कुम्भिका ।द्रोणपुष्पा कुम्भयोनिर्द्रोणा सैव कुरंबकः ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.140 · p. 26
और्वशेयः कुम्भयोनिरगस्तिर्विन्ध्यकूटकः ।मैत्रावरुणिराग्नेयो मुनिर्वातापिसूदनः ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 29 · p. 533
अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः ॥ २९ ॥
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.67 · p. 120
कुम्भयोनिरगस्तिः स्याद्द्रोणश्च कुरुसम्मतः ।वर्धमानः शरावे स्यादेरण्डे वृद्धिमत्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.46 · p. 268
स्यात्कुम्भयोनिर्मुनिवृक्षभेदेकामे पुनर्ब्रह्मणि चात्मयोनिः ।स्याच्चित्रभानुस्तरणौ च वह्नौकलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.105 · p. 243
आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि ।उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् ।उपासनं शराभ्यासे सेवनासनयोरपि ॥कपीतनश्चलदले गर्दभाण्डे शिरीषके ।आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् ।क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् ।कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः ।केशरी सिंहपुन्नागनागकेशरवाजिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)

कुम्भयोनि as a meaning in nānārtha verses

  • कोषकल्पतरु याम्यस्याद्दक्षिणस्यां नरि कुम्भयोनौ पटीरवृक्षेऽथ नरीज्य उक्तः । बृहस्पतौ संगमवाचकश्च स्त्रियां तु दाने मखपूजयोश्च ॥ ४९ ॥ Koṣakalpataru 6.26.49
  • शिवकोष दीर्घपत्रवेल्लन्तरे च लसुने वर्षाभूदीर्घवृक्षयोः । कुम्भयोनावभ्रपुष्पे पलाण्डौ गुरुवारुणि ॥ ४२६ ॥ Śivakoṣa 22.4.426
  • शब्दरत्नावली महामुनिप्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥ पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥ फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥ भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥ महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥ महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ Śabdaratnāvalī 7.20.118