वशिष्ठ
vaśiṣṭhaपुं · masc.In 5 kośas: 7 synonym verses, 2 as a meaning of another word.
पुष्पवन्तौ पुष्पवद्भ्यां सहैकोऽत्रेन्दुभास्करौ ।यमदग्निर्जमदग्निः स्याद्वशिष्ठो वसिष्ठवत् ॥ ३१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
genderपुंmasc.
वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ ।मारीचोऽप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥ २१३ ॥
अनुष्टुप्
genderपुंmasc.
सप्तर्षीणां तु नामानि मरीचिरत्रिरङ्गिराः ।पुलस्त्यश्च महातेजाः ऋतुः वशिष्ठ नामवान् ॥ ११६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
genderपुंmasc.
ख्यातस्त्वरुन्धतीजानिर्वशिष्ठः कथ्यते पुनः ॥ १४१७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उपप्लवश्च विकचः शिखावांश्च शिखीत्यपि ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्चेति विख्याता इमे सप्तर्षयः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.
कुशारणिस्तु दुर्वासाः कृतकोटिस्तु काश्यपः ।वशिष्ठोऽरुन्धतीनाथो वसिष्ठोऽपि निगद्यते ॥
अनुष्टुप्
genderपुंmasc.
जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः ।वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥ ३१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 यो (wrong syllable)
genderपुंmasc.
वशिष्ठ as a meaning in nānārtha verses
- शब्दरत्नावली कुम्भयोनिआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
- शब्दरत्नावली ऋषिऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ Śabdaratnāvalī 7.31.4