क्षेत्रिय
kṣetriyaपुं · masc.In 5 kośas: 2 synonym verses, 6 as a nānārtha head word.
तथैव ब्राह्मणीभार्यः शूद्राभार्य इमा दिशः ।परदाररते तु स्यात्क्षेत्रियः पारदारिकः ।दंपती जंपती जायापती च भरिमा तु ना ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
प्रतीकार्यस्तु साध्योऽसौ याप्यस्त्वाजीवितस्थितिः ।असाध्यः क्षेत्रिया दोषा वात-पित्त-कफास्त्रयः ॥ ३ ॥
अनुष्टुप्
genderविadj.
क्षेत्रियोऽसाध्यरोगः स्यात्क्षेत्रियः पारदारिकः ।अन्यदेहचिकित्सार्हे क्षेत्रियं क्षेत्रजे तृणे ॥
अनुष्टुप्
आहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजेतार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः ।क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदेनिर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥
शार्दूलविक्रीडितम्
त्रिस्तु स्याद्दुष्प्रतीकारव्याध्यादौ धान्यवप्रजे ।निराकार्यतृणे पारदारिके यत् पुनर्विषम् ॥ ५८१ ॥
अनुष्टुप्
doubtful
औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके ।कषायः पुंसि निर्यासे रसभेदे विलेपने ॥अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु ।कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् ।क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके ।चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कल्माषौ कृष्णमिश्रौ च कुहकोऽपीर्ष्यया युते ।क्षेत्रियं दुष्प्रतीकारे व्याधौ क्षेत्रोद्भवे तृणे ॥ १० ॥
अनुष्टुप्
देहान्तरचिकित्सार्हे गरले पारदारिके ।चतुरौ दक्षधीमन्तौ जघन्योऽन्त्यकुपूययोः ॥ ११ ॥
अनुष्टुप्
doubtful